अथ जडता—

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १३ ॥

इष्टदर्शनाद् यथा—

एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥841

अनिष्टश्रवणाद् यथोदात्तराघवे—

राक्षसः
तावन्तस्ते महात्मानो निहताः केन राक्षसाः ।
येषां नायकतां यातास्त्रिशिरःखरदूषणाः ॥
द्वितीयः

गृहीतधनुषा रामहतकेन ।

प्रथमः

किमेकाकिनैव ।

द्वितीयः

अदृष्ट्वा कः प्रत्येति । 842तथापि शृणु वयस्य, धनुर्द्वितीय एव तत्र तावतोऽस्मद्बलस्य—

सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः केवलं जातास्तालोत्ताला रणाङ्गणे ॥
प्रथमः

सखे, यद्येवं तदाहमेवंविधः किं करवाणि ।’ इति ।

843तथा च तीव्राभिषङ्गप्रभवेन इत्यादि844

  1. कुमार॰ ८।५
  2. N.S.P. paśya tāvato ’smadbalasya-, etc.

  3. The reading in A.T.A. looks like atiśayoktirūparūpakādibhiḥ kāvyavyāpārābhihita-, etc.

  4. कुमार॰ ३।७३