अथासूया—

परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।
दोषोक्त्यवज्ञे भ्रुकुटिमन्युक्रोधेङ्गितानि च ॥ १७ ॥

गर्वे यथा वीरचरिते—

अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृप्यते ॥848

दौर्जन्याद् यथा—

यदि परगुणा न क्षम्यन्ते यतस्व गुणार्जने नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् ।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान् पाणिच्छत्रैर्नुदन् श्रममेष्यसि ॥

मन्युजा यथामरुशतके—

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तौ वैलक्ष्यात् किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥
183
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रोषप्रणयरभसाद् गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥849

पुरस्तन्व्या इत्यादि । पुनरवयवैरिति । या पूर्वं नामतो ज्ञाता सैवावयवैर्यथा व्यक्तिं गता भवति तथेत्यर्थः । स्फुटमिति । भवतो हृदयगतमखिलं स्फुटमित्यर्थः ।

  1. २।९
  2. श्लो॰ ५१-५२