23

यथा वेणीसंहारे165

चेटी

166भट्टिणि, परिकुविदो विअ कुमारो लक्खीअदि ।167

इत्युपक्रमे,
भीमः
मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥168
द्रौपदी
श्रुत्वा सहर्षम्

169नाह, अस्सुदपुव्वं खु170 ईदिसं पियवअणं । ता पुणो पुणो भण ।

इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः प्राप्तिरिति ।

यथा च रत्नावल्याम्—

सागरिका
श्रुत्वा सहर्षं परिवृत्य सस्पृहं पश्यन्ती

171कधं अअं सो राआ उदयणो जस्स अहं तादेण दिण्णा । ता परप्पेसणदूसिदं वि मे जीविदं एदस्स दंसणेण बहुमदं संजादं ।172

इति सागरिकायाः सुखागमात् प्राप्तिरिति ।

अथ समाधानम्—

बीजागमः समाधानं

यथा रत्नावल्याम्—

वासवदत्ता

173तेण हि उअणेहि मे पूआणिमित्ताइं174 उवअरणाइं ।

सागरिका

175भट्टिणि, एदं सव्वं सज्जं ।

  1. A.T.A. gives here the example of Ratnā:alī first and then that of Veṇīsaṃhāra.

  2. ‘भर्त्रि, परिकुपित इव कुमारो लक्ष्यते ।’ इति च्छाया.

  3. पृ॰ १९
  4. १।१५
  5. ‘नाथ, अश्रुतपूर्वं खलु ईदृशं प्रियवचनम् । तत् पुनः पुनर्भण ।’ इति च्छाया.

  6. N.S.P. khu edaṃ vaaṇaṃ.

  7. ‘कथमयं स राजोदयनो यस्याहं तातेन दत्ता । तत् परप्रेषणदूषितमपि मे जीवितमेतस्य दर्शनेन बहुमतं संजातम् ।’ इति च्छाया.

  8. पृ॰ ४०
  9. ‘तेन ह्युपनय मे पूजानिमित्तानि उपकरणानि ।’ इति च्छाया.

  10. In N.S.P. pūāṇimittāiṃ is omitted.

  11. ‘भर्त्रि, एतत् सर्वं सज्जम् ।’ इति च्छाया.