अथ परिभावना—

परिभावोऽद्भुतावेशः190

यथा रत्नावल्याम्—

सागरिका
दृष्ट्वा सविस्मयम्

191कधं पच्चक्खो एव्व भयवं अणंगो पूअं पडिच्छदि । अम्हाणं तादस्स 26 अंतेउरे चित्तगदो एव्व । अहंपि इव ट्‏ठिदा एव्व णं पूजइस्सं ।192

इत्यनेन वत्सराजस्यानङ्गरूपतयापह्नवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोकोत्तरत्वादद्भुतरसावेशः परिभावना ।

यथा च वेणीसंहारे—

द्रौपदी

193किं दाणिं एसो पलअजलधरत्थणिदमंसलो खणे खणे समरदुंदुभी ताडीअदि त्ति ।194

इति लोकोत्तरसमरदुन्दुभिध्वनेर्विस्मयरसावेशाद् द्रौपद्याः परिभावना ।

  1. A.T.A. reads: adbhutāvedhaḥ, rasāvedhaḥ, and rasāvedhād.

  2. ‘कथं प्रत्यक्ष एव भगवाननङ्गः पूजां प्रतीच्छति । अस्माकं तातस्य गृहे चित्रगत एव । अहमपीहास्थितैवैनं पूजयिष्यामि ।’ इति च्छाया.

  3. पृ॰ ३७
  4. ‘किमिदानीमेप प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।’ इति च्छाया.

  5. पृ॰ ३०