अथोद्भेदः—

अद्भेदो गूढभेदनम् ।

यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा अस्तापास्त—195 इत्यादिना उदयनस्य— इत्यन्तेन बीजानुगुण्येनैवोद्भेदनादुद्भेदः ।

यथा च वेणीसंहारे— आर्य, किमिदानीमध्यवस्यति गुरुः । इत्युपक्रमे

नेपथ्ये
यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद् विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद् द्यूतारणिसंभृतं 196नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते ॥197
भीमः
श्रुत्वा सहर्षम्

जृम्भतां जृम्भतां संप्रत्यप्रतिहतप्रसरमार्यस्य198 क्रोधज्योतिः ।199

इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधबीजस्योद्भेदादुद्भेदः ।

27 अथ करणम्—

करणं प्रकृतारम्भो

यथा रत्नावल्याम्—

सागरिका

200201णमो दे कुसुमाउह, ता अमोहदंसणो मे होहि त्ति दिट्‏ठिआ202 दिट्ठं जं पेक्खिदव्वं । ता जाव ण को वि मं पेक्खइ ताव इदो गमिस्सं ।203

इत्यनेनान्तराङ्कप्रकृतनिर्विघ्नदर्शनारम्भणात् करणम् ।

यथा च वेणीसंहारे—

भीमः

तत् पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय ।

सहदेवः

आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता 204विक्रममाचरितुम् ।205

इत्यनेनानन्तराङ्कप्रस्तूयमानसंग्रामारम्भकरणात्206 करणमिति । सर्वत्र 207चेहोद्देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ।

  1. १।२४
  2. N.S.P. nṛpasutā-.

  3. १।२४
  4. N.S.P. omits prasaram, and reads in the remark as krodhasyodbhedaḥ.

  5. पृ॰ २९
  6. N.S.P. omits Sāgarikā.

  7. ‘नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति दिष्ट्या दृष्टं यत् प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तावदितो गमिष्यामि ।’ इति च्छाया.

  8. N.S.P. omits diṭṭhiā, and reads bhavissasi for hohi.

  9. पृ॰ ३८
  10. N.S.P. vikramānurūpam.

  11. पृ॰ ३१
  12. N.S.P. ārambhaṇāt karaṇam iti.

  13. See my paper on the Daśarūpaka, in The Journal of the University of Gauhati, 1960, for a discussion on this line.