अथ साङ्गं प्रतिमुखसंधिमाह—
तस्य बीजस्य किंचिल्लक्ष्यः किंचिदलक्ष्य इवोद्भेदः प्रकाशनं तत् प्रतिमुखम् । यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगताविदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया च चित्रफलकवृत्तान्तेन किंचिदुन्नीयमानस्य दृश्यादृश्यरूपतयोद्भेदः प्रतिमुखसंधिरिति ।
वेणीसंहारेऽपि द्वितीयेऽङ्के216 भीष्मादिवधेन किंचिल्लक्ष्यस्य कर्णाद्यवधाच्चालक्ष्यस्य क्रोधबीजस्योद्भेदः ।