अथ परिसर्पः—

दृष्टनष्टानुसर्पणम् ॥ ३२ ॥
30
परिसर्पो

यथा वेणीसंहारे 225

कञ्चुकी

योऽयमुद्यतेषु बलवत्सु, अथवा किं बलवत्सु, वासुदेवसहायेष्वरिप्वद्याप्यन्तः पुरसुखमनुभवति । इदमपरमयथातथं स्वामिनश्चेष्टितम्226

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायभरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥
इति 227भीष्मादिवधेन दृष्टस्य कर्णाद्यवधाच्च अदृष्टस्य बलवतां वासुदेवसहायानां पाण्डवानां संग्रामलक्षणबिन्दुरूपविजयप्रयत्नान्वयेन । कञ्चुकिमुखेनानुसर्पणं परिसर्प इति ।

यथा च 228रत्नावल्यां सारिकावचनचित्रदर्शनाभ्यां सागरिकानुरागबीजस्य दृष्टनष्टस्य क्वासौ क्वासौ इत्यादिना वत्सराजेनानुसरणात् परिसर्प इति ।

  1. २।२
  2. N.S.P. omits ceṣṭitam.

  3. N.S.P. reads ity anena bhīṣmādivadhe dṛṣṭasya abhimanyuvadhān naṣṭasya balavatāṃ pāṇḍavānāṃ vāsudevasahāyānāṃ saṃgrāmalakṣaṇabindubījaprayatnānvayena kañcukimukhe bījānusarpaṇaṃ parisarpa iti.

  4. This line is missing in A.T.A.