अथ मार्गः—

मार्गस्तत्त्वार्थकीर्तनम्290 ॥ ३८ ॥

यथा रत्नावल्याम्—

विदूषकः

291दिट्‏ठिआ वड्ढसि समीहिदब्भधिकाए कज्जसिद्धीए ।

राजा

वयस्य, 292अपि कुशलं प्रियायाः ?

38
विदूषकः

293अइरेण सयं एव्व पेक्खिअ जाणिहिसि ।

राजा

दर्शनमपि भविष्यति ?

विदूषकः
सगर्वम्

294कीस ण भविस्सदि, जस्स दे उवहसिदविहप्फदिबुद्धिविहवो अहं अमच्चो ।

राजा

तथापि कथमिति श्रोतुमिच्छामि ।

विदूषकः
कर्णे कथयति

295एव्वं ।296

इत्यनेन यथा विदूषकेण सागरिकासमागमः सूचितः, तथैव निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थकथनात् मार्ग इति ।

  1. A.T.A. tattvānukīrtanam.

  2. ‘दिष्ट्या वर्धसे समीहिताभ्यधिकया कार्यसिद्ध्या ।’ इति च्छाया.

  3. N.S.P. omits api.

  4. ‘अचिरेण स्वयमेव प्रेक्ष्य ज्ञास्यसि ।’ इति च्छाया.

  5. ‘कथं न भविष्यति, यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽहममात्यः।’ इति च्छाया.

  6. ‘एवम्’ इति च्छाया.

  7. पृ॰ १०२