नाट्यानां लक्षणं संक्षिपामि62 इत्युक्तम्, किं पुनस्तन्नाट्यमित्याह—

अवस्थानुकृतिर्नाट्यं

काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन 63वाचिकाङ्गिकसात्त्विकाहार्यरूपेण तादात्म्यापत्तिर्नाट्यम् ।

विषयप्रयोजनोक्तयैव तदन्तर्गतः संबन्धोऽप्युक्तः । एवं प्रतिपन्नप्रयोजनाभिधेयसंबन्धं64 जिज्ञासुं पृच्छन्तं प्रत्युत्तरमाहेति वदति किं पुनरिति । कीदृश्योऽवस्थाः किदृशी चानुकृतिरित्यपेक्षायां व्याचष्टे काव्योपनिबद्धेति । अभिनयाकृष्टमभिनेयं तच्छब्देन परामृशति तादात्म्यापत्तिरिति65 । अभिनयस्यारोपरूपत्वात् । चातुर्विध्यं च तस्याङ्गिकसात्त्विकवाचिकाहार्यभेदात् । एतदुक्तं भवति । रामादिनायका न स्वरूपेणोपयुज्यन्ते । अभिनयकाले तेषामसत्त्वात् । किं तु काव्योपनिबद्धधीरोदात्ताद्यवस्थावद्रूपेण । नायकादि7 शब्दाः खलूपाधिप्रयुक्ताः । उपाधयश्चावस्थाः । एकस्यैव हि धीरोदात्तत्वधीरोद्धतत्वधीरललितत्वधीरशान्तत्वानि भवन्ति । अतस्ता अवस्था एव तत्प्रवृत्त्युपाधय इति ।

  1. १।४
  2. vācikāṅgika ... rūpeṇa is missing in N.S.P.

  3. M.G.T. gives the reading shown in the text. Tri.MS. reads saṃbandhajijñāsum. T.MS. reads evaṃ pratipanne prayojanābhidheyasaṃbandhajijñāsum.

  4. Cf.:

    sāttvikādyair abhinayaiḥ prekṣakāṇāṃ yato bhavet |
    naṭe nāyakatādātmyabuddhis tan nāṭyam ucyate ||
    (Rasārṇavasudhākara, T.S.S., p. 8)
    avasthānukṛtir nāṭyam iti sāmānyalakṣaṇam |
    rāmāditādātmyāpattir naṭe yā nāṭyam ucyate ||
    (Bhāvaprakāśa, G.O.S., p. 180). B.M. says: yat naṭasya prekṣakabuddhyā rāmāditādātmyāpattiḥ … tat nāṭyam.