321संरब्धवचनं यत्तु तोटकं तदुदाहृतम् ॥ ४१ ॥

यथा रत्नावल्याम्—

राजा

प्रिये वासवदत्ते, प्रसीद प्रसीद ।

वासवदत्ता
अश्रूणि धारयन्ती

322अज्जउत्त, मा एव्वं भण । अण्णसंकंताइं खु एदाइं अक्खराइं त्ति ।323

यथा च वेणीसंहारे—

राजा

अये सुन्दरक, कच्चित् कुशलमङ्गराजस्य ?

पुरुषः

324कुसलं सरीरसेत्तकेण ।

राजा

किं तस्य 43 किरीटिना हता धौरेयाः, क्षतः सारथिः, भग्नो वा रथः ?

पुरुषः

325देव, णं भग्गो रहो भग्गो से मणोरहो ।

राजा
ससंभ्रमम्

कथम् ?326

इत्येवमादिना संरब्धवचसा तोटकमिति ।

  1. Bracketed portion is omitted by A.T.A. and Bahurūpamiśra. Omission seems to be proper. But it was given in the N.S.P.

  2. ‘आर्यपुत्र, मैवं भण । अन्यसंक्रान्तानि खल्वेतान्यक्षराणिति ।’ इति च्छाया.

  3. पृ॰ १२०
  4. ‘कुशलं शरीरमात्रकेण ।’ इति च्छाया.

  5. ‘देव, न भग्नो रथः । भग्नोऽस्य मनोरथः ।’ इति च्छाया.

  6. पृ॰ १०५