अथोद्वेगः—
उद्वेगोऽरिकृता भीतिः
327यथा रत्नावल्याम्— इत्यनेन वासवदत्तातः सागरिकाया भयमिति उद्वेगः । यो हि यस्यापकारी स तस्यारिः ।
यथा च वेणीसंहारे—
कथमासन्न एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च तावदयं महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यो दुःशासन
इवास्मिन्नप्यनार्यमाचरिष्यति ।330
इत्यरिकृता भीतिरुद्वेगः ।सूतः
श्रुत्वा सभयम्