अथ विद्रवः—

विद्रवो वधबन्धादिर्

यथा छलितरामे—

येनावृत्य मुखानि साम पठतामत्यन्तमायासितं बाल्ये येन हृताक्षसूत्रवलयप्रत्यर्पणैः क्रीडितम् ।
युष्माकं हृदयं स एष विशिखैरापूरितांसस्थलो मूर्च्छाघोरतमःप्रवेशविवशो बद्ध्वा लवो नीयते ॥

यथा च रत्नावल्याम्—

हर्म्याणां हेमशृङ्गश्रियमिव शिखरैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः ।
48
कुर्वन् क्रीडामहीध्रं सजलजलधरश्यामलं धूमपातै- रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥356
इत्यादि । पुनः
वासवदत्ता

35749 अज्जउत्त, ण वखु अहं अत्तणो कारणादो भणामि । एसा मए णिग्धिणहिअआए संजदा सागरिआ विवज्जदि ।358

इत्यनेन सागरिकावधबन्धाग्निभिर्विद्रव इति ।

  1. ४।१४
  2. ‘आर्यपुत्रं, न खल्वहमात्मनः कारणाद् भणामि । एषा मया निर्घृणहृदयया संयता सागरिका विपद्यते ।’ इति च्छाया.

  3. पृ॰ १७१