अथ शक्तिः—

विरोधशमनं शक्तिस्

यथा रत्नावल्याम्—

राजा
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।
प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाप्पसलिलैः कोपोऽपनीतः स्वयम् ॥362
इत्यनेन सागरिकालाभविरोधिवासवदत्ताकोपोपशमनात् शक्तिः ।

यथा चोत्तरचरिते लवः प्राह—

विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥363

  1. ४।१
  2. ६।११