नटे रामाद्यवस्थारोपेण वर्तमानत्वाद् रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्तमानस्य शब्दत्रयस्य इन्द्रः पुरंदरः शक्रः इतिवत् प्रवृत्तिनिमित्तभेदो दर्शितः ।
नट इति । यथा मुखे चन्द्रत्वसमारोपात् मुखं चन्द्रः, एवं नटे रामाद्यवस्थारोपात् नटोऽपि रामादिः । मुखचन्द्रादिवदिति । मुखचन्द्रत्वादिवदित्यर्थः । ननु नाट्यरूपरूपकशब्दा यदि भिन्नार्थाः तर्हि 68एकवव्द्यवहारो न स्यात् । अस्ति च सः नाट्यानां लक्षणं संक्षिपामीति, दशरूपानुकारेणेति, आनन्दनिष्यान्दिषु रूपकेष्विति च । अथैकार्थाः, तदा सामानाधिकरण्यं न स्यात् । न हि घटो घट इति सामानाधिकरण्यम् । तत्राह एकस्मिन्निति । 69पर्यवसानस्यैकत्वादेषामेकार्थत्वेन व्यवहारः । प्रवृत्तिनिमित्तभेदाच्च सामानाधिकरण्यम् । यथा परमैश्वर्यं शक्तत्वं विक्रमत्वं चोपाधीकृत्य एकस्मिन्नर्थे प्रवर्तमानस्य इन्द्रादिशब्दत्रयस्य एकार्थत्वं सामानाधिकरण्यं च एवमिहापीति ।