55 अथादानम्—

आदानं कार्यसंग्रहः ।

यथा वेणीसंहारे—

भीमः

ननु भोः समन्तपञ्चकसंचारिणः—

रक्षो नाहं न भूतं रिपुरुधिरजलाप्लाविताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व- स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥391
इत्यनेन समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम् ।

यथा च रत्नावल्याम्—

सागरिका
दिशोऽवलोक्य

392दिट्‏ठिआ समंतादो पज्जलिदो भअवं हुअवहो, अज्ज करिस्सदि दुक्खावसाणं ।393

इत्यनेनान्यपरेणापि सागरिकायाः 394दुःखावसानेन कार्यस्य संग्रहादादानम् । यथा च जगत्स्वामित्वलाभः प्रभोः395 इति दर्शितमेवम् ।

इत्येतानि त्रयोदशावमर्शाङ्गानि । 396तत्रैतेषामपवादशक्तिव्यवसायप्ररोचनादानानि प्रधानानीति ।

  1. वे॰ सं॰ ६।३७
  2. ‘दिष्ट्या समन्तात् प्रज्ज्वलितो भगवान् हुतवहोऽद्य करिष्यति दुःखावसानम् ।’ इति च्छाया.

  3. पृ॰ १७४
  4. N.S.P. anyapareṇāpi duḥkhāvasānakāryasya.

  5. ४।२०
  6. apavāda is missing in A.T.A.