यथोद्देशं लक्षणमाह—

संधिर्बीजोपगमनं

यथा रत्नावल्याम्—

वसुभूतिः

बाभ्रव्य, सुसदृशीयं राजपुत्र्या ।

बाभ्रव्यः

ममाप्येवमेव प्रतिभाति ।399

इत्यनेन नायिकानुरागबीजोपगमात् संधिरित ।

यथा च वेणीसंहारे—

भीमः

भवति यज्ञवेदिसंभवे, स्मरति भवती यत् तन्मयोक्तम्—400

चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावबद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥401
इत्यनेन मुखोपक्षिप्तस्य बीजस्य पुनरुपगमात् संधिरिति ।

  1. पृ॰ १७८
  2. पृ॰ २०१
  3. वे॰ सं॰ १।२१