अथ परिभाषणम्—

परिभाषा मिथो जल्पः

यथा रत्नावल्याम्—

रत्नावली
आत्मगतम्

411कआवराहा देवीए ण सक्कुणोमि मुहं दंसिदुं ।

वासवदत्ता
सास्रम् । पुनर्बाहू59 प्रसार्य

412एहि अयि णिठ्‏ठुरे, इदाणीं पि बंधुसिणेहं दंसेहि ।

अपवार्य

अज्जउत्त, लज्जामि क्खु अहं इमिणा णिसंसत्तणेण । ता लहुं अवणेहि से बंधणं ।

राजा

यथाह देवी ।

बन्धनमपनयति
वासवदत्ता
वसुभूतिं निर्दिश्य

413अज्ज, अमच्चयोगंधरायणेण दुज्जणीकदम्हि जेण जाणंतेण वि ण णिवेदिदं ।414

इत्यनेनान्योन्यवचनात् परिभाषणम् ।

यथा च वेणीसंहारे—

भीमः

कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन ।415

इत्यादिना क्वासौ भानुमती नोपहसति पाण्डवदारान् ।416 इत्यन्तेन भाषणात् परिभाषणम् ।

  1. ‘कृतापराधा देव्या न शक्नोमि मुखं दर्शयितुम् ।’ इति च्छाया.

  2. ‘एहि अयि निष्ठुरे, इदानीमपि बन्धुस्नेहं दर्शय । आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन । तल्लघ्वपनयास्या बन्धनम् ।’ इति च्छाया.

  3. ‘आर्य, अमात्ययौगंधरायणेन दुर्जनीकृतास्मि येन जानतापि न निवेदितम् ।’ इति च्छाया.

  4. पृ॰ १८१
  5. पृ॰ २००
  6. पृ॰ २०१