प्रसङ्गान्नृत्तं व्युत्पादयति—
तालः = चञ्चत्पुटादिः,83 लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशून्यो नृत्तमिति ।
प्रसङ्गादिति । अवधार्यत्वेन नृत्यमुक्तम् । नृत्यप्रसङ्गान्नृत्तमुच्यते इति । तालश्चञ्चत्पुटादिरिति । ‘चञ्चत्पुटश्चाचपुटः षट्पितापुत्रकस्तथा’8410 इत्यादिस्तालाध्यायप्रतिपादितस्तालः । लयो द्रुतादिरिति । द्रुतविलम्बितमध्यमादिरूपो लयः । कालस्य स्वतो भेदाभावाद् औपाधिक एव भेदः । 85संप्रति तस्योपाधिस्तालध्वनिभेद एव । तेन हि नृत्तं परिमीयते । यथोक्तं ‘पादन्यासो लयमनुगतः’ इति86 ।
-
After cañcatpuṭādiḥ, the following lines are found only in A.T.A.:
↩kālo laghvādiniyatakriyayā saṃmitāṃ matimgītāder vidadhat tālaḥ sa ca dvedhā budhaiḥ smṛtaḥ || -
This line is found in one of the verses attributed to Mataṅga in Siṃhabhūpāla’s commentary on the Saṃgītaratnākara (vol. III, Adyar, 1951, p. 9).
↩ -
M.G.T. reads pratītasyopādhitāladhvanir eva bheda eva.
↩ - मालविकाग्रि॰ २।८↩