अनन्तरोक्तं द्वितयं व्याचष्टे—

आद्यं पदार्थाभिनयो मार्गो देशी तथापरम् ॥ ९ ॥

नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं तु87 देशीति ।

अनन्तरोक्तमिति । उक्तेः पूर्वभाव एवानन्तर्थम् । द्वितयम् = नृत्यनृत्तात्मकम् । द्वितयस्याद्यं नृत्यमन्यन्नृत्तमिति । पदार्थाभिनयरूपनृत्यं मार्ग इति प्रसिद्धम्, अपरं नृत्तं देशीति प्रसिद्धमिति ।

  1. N.S.P. nṛttaṃ ca.