द्विविधस्यापि द्वैविध्यं दर्शयति—

मधुरोद्धतभेदेन तद् द्वयं द्धिविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १० ॥

सुकुमारं द्वयमपि लास्यम्, उद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्योपयोगं 88दर्शयति—नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवा- न्तरपदार्थामिनयरूपत्वेन89 नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ।

द्विविधस्यापि = नृत्यनृत्तात्मना द्विविधस्यापि तस्य पुनरपि द्वैविध्यं दर्शयतीति । लास्यताण्डवरूपेणेति । नाटकाद्युपकारकमित्यनेन एकग्रन्थता मा भूदिति ततोऽपच्छिद्य90 द्वैविध्यप्रकारकथनपरतयोक्तम् । प्रसङ्गेनापि निष्प्रयोजनं न वक्तव्यम् । तेनाह प्रसङ्गोक्तस्येति । नृत्यनृत्तयोर्हि स्वप्राधान्ये सति नान्योपकारकत्वम् । तेनोक्तं क्वचिदिति ।

  1. N.S.P. darśayati—tacca nāṭakādy, etc.

  2. N.S.P. -padārthābhinayena, etc.

  3. M.G.T. and Tri. MS. read tato ’pi vicchidya, whereas Gr. MS. gives as tato vicchidya.