एवमाधिकारिकद्विविधप्रासङ्गिकभेदात् त्रिविधस्यापि त्रैविध्यमाह—

प्रख्यातोत्पाद्यमिश्रत्वभेदात् त्रेधापि तत् त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ॥ १५ ॥
मिश्रं च संकरान्नान्तो112 दिव्यमर्त्यादिभेदतः ।

इति निगदव्याख्यानम्113 ।

तत् त्रेधापि पुनस्त्रेधेत्युक्तम् । तत्त्रैधमेवंविधमित्याह आधिकारिकेति । इतिवृत्तं प्रथमं त्रिधा आधिकारिक-द्विविधप्रासङ्गिकभेदात् । पश्चादपि प्रख्यातम्, उत्पाद्यम्, मिश्रमिति त्रिधेत्यर्थः । पाश्चात्यत्रैधं विवृतं प्रख्यातमितिहासादेरिति । इतिहासात् प्रख्यातकथातः प्रख्यातम्, लोकतः114 प्रख्यातमिति प्रख्यातमनेकविधम् । यत्रेतिवृत्तं कविबुद्ध्यैव कल्प्यते तदुत्पाद्यम् । यत्र प्रख्यातोत्पाद्ययोः संमिश्रणान्मिश्रत्वं भवति तन्मिश्रमितिवृत्तम् । दिव्यमर्त्यादि भेदतस्त्वितिवृत्तभेदस्य न पर्यवसानमित्याह नान्त इति । किंचिदितिवृत्तं शुद्धदिव्यं, किंचिच्छुद्धमर्त्यं, किंचिद्दिव्यमर्त्यमित्येवंविधत्वादनन्त इत्यर्थः । निगदव्याख्यानमिति । यत्र पाठ एव व्याख्यानं नान्यत् तिरोहितं किंचित् तन्निगदव्याख्यानमिति ।

  1. nāntaḥ is confirmed by Laghuṭīkā. tābhyām (given in the N.S.P.) cannot be construed with the next expression. See Prof. Raghavan’s work on Ś.P. (1963), p. 601.

  2. N.S.P. -vyākhyātam.

  3. See Note 182 to L.Ṭ.