78 अथ धीरोदात्तः—

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।

महासत्त्वः=शोकक्रोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनः=अना- त्मश्लाघनः । निगूढाहंकारः=विनयच्छन्नावलेपः । दृढव्रतः=अङ्गीकृत- निर्वाहको धीरोदात्तः । यथा नागानन्दे—

जीमूतवाहनः
सिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात् त्वं विरतो गरुत्मन् ॥502

यथा च रामं प्रति—

आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविप्लवः503 ॥

यच्च केषांचित् स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे क्वचित् संकीर्तनं तत् तेषां तत्राधिक्यप्रतिपादनार्थम् ।

ननु च कथं जीमूतवाहनादिर्नागानन्दादावुदात्त इत्युच्यते । औदात्त्यं हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च विजिगीषुत्व एवोपपद्यते । जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः—

तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा यत् संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो रायासः खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद् गुणः ॥504
इत्यादिना,

  1. ५।१५
  2. N.S.P. -vibhramaḥ.

  3. नागा॰ १।७