110 अथासां सहायिन्यः—
दासी = परिचारिका । सखी = स्नेहनिबद्धा । कारूः = रजकीप्रभृतिः । धात्रेयी = उपमातृसुता । प्रतिवेशिका = प्रतिगृहिणी । लिङ्गिनी = भिक्षुक्यादिका । शिल्पिनी = चित्रकारादिस्त्री । स्वं चेति दूतीविशेषा । 608नायकमित्राणां पीठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्ताः । तथा च मालतीमाधवे कामन्दकीं प्रति—
नेतृमित्रगुणान्विता इति । नायकमित्रस्य ये गुणाः नायिकासहायिन्योऽपि तद्गुणा भवेयुरित्यर्थः ।