अथ हेला—

स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥ ३४ ॥

हाव एव स्पष्टभूयोविकारत्वात् सूव्यक्तशृङ्गाररससूचको हेला । यथा ममैव—

तह झत्ति से पअत्ता सव्वंगं विब्भमा थणुब्भेए ।
संसइअबालभावा होइ चिरं जह सहीणं पि ॥

तह झत्ति ।

तथा झटित्यस्याः प्रवृत्ताः सर्वाङ्गे विभ्रमाः स्तनोद्भेदे ।
622संशयितकुमारीभावा भवति चिरं यथा सखीनामपि ॥

  1. Previous edition of DR gives saṃśayitabālabhāvā.