114 अथायत्नजाः सप्त । तत्र शोभा—
रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।
यथा कुमारसंभवे—
इत्यादि । यथा च शाकुन्तले—
624
तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥623
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥625