81

अथ धीरोद्धतः—

दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः॥ ५ ॥
धीरोद्धतस्त्वहंकारी चलश्चण्डो विकत्थनः ।

दर्पः=शौर्यादिमदः । मात्सर्यम्=असहनता । मन्त्रबलेनाविद्यमानवस्तुप्रकाशनं=माया । छद्म=वञ्चनामात्रम् । चलः=अनवस्थितः । चण्डः= रौद्रः । विकत्थनः=स्वगुणशंसी धीरोद्धतो भवति । यथा जामदग्न्यः—कैलासोद्धारसारत्रिभुवनविजय—515 इत्यादि । यथा च रावणः—त्रैलोक्यैश्वर्यलक्ष्मीहठहरणसहा बाहवो रावणस्य । इत्यादि ।

धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनः वत्सवृषभमहोक्षादिशब्दवत् । न जात्या कश्चिदवस्थितरूपो ललितादिरस्ति । तदा हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात् । यथा च भवभूतिनैक एव जामदग्न्यः—

ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥516
इत्यादिना रावणं प्रति धीरोदात्तत्वेन कैलासोद्धारसार—517 इत्यादिभिश्च रामादीन् प्रति प्रथमं धीरोद्धतत्वेन पुनः पुण्या ब्राह्मणजातिः518 इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः । न चावस्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरापेक्षया महासत्त्वतादेरव्यवस्थितत्वात् । अङ्गिनस्तु रामादेरेकप्रबन्धोपात्तान् प्रत्येकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादानमन्याय्यम् । यथोदात्तत्वाभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति519 । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वां प्रत्यन्ययाहृतः520 इति नित्यसापेक्षत्वेनाविर्भावादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गाङ्गिनोरप्यविरुद्धम् ।

82 एते धीरललितादिशब्दा यदि व्यवस्थितरूपाभिधायिनः तदानीं महाकविप्रबन्धेषु एकस्य नायकस्य अव्यवस्थितरूपाभिधानमसंगतमेव स्यात् । अस्ति च तत् । 521यद्यव्यवस्थितरूपाभिधायिनः, तदानीमेकस्मिन् प्रबन्धे धीरोदात्तत्वेन परिगृहीतस्यापि नायकस्य धीरोद्धतत्वेनाप्यभिधानं न्याय्यमेव स्यात् । न चैवम् । स्थिते चैवं522 यथा 523तेषामव्यवस्थितरूपाभिधायित्वेऽपि प्रबन्धनायकस्य उपात्तरूपाद् रूपान्तराभिधानं न प्रसजेत्524 तथा वक्तुमारभते धीरललितादिशब्दाश्चेति । द्वैधं शब्दानाम् । केचिद् व्यवस्थितरूपाभिधायिनः यथा गोमहिषादिशब्दाः । केचिदव्यवस्थितरूपाभिधायिनः यथोपाधिशब्दाः । ते ह्येकस्मिन्नेव धर्मिणि भवन्ति यथा देवदत्तः श्यामः पाचको525 दण्डी चेति । धीरललितादिशब्दाश्च गुणमेवोपाधीकृत्य गुणिनि वर्तन्ते । एक एव हि जामदग्न्यो रावणं प्रति धीरोदात्तो भवति । रामं प्रति प्रथमं धीरोद्धतो भवति पश्चाद् धीरशान्तो भवति । अमीषां शब्दानां जात्यभिधायित्वे नैतद् युज्यते । न हि गोशब्दवाच्यो गौः कदाचित् महिषो भवति । तदाह जातेरनपायित्वादिति । नित्यमेकमनेकवृत्ति हि सामान्यम् । सैव च जातिः । तथा च यावदाश्रयभाविन्यास्तस्याः कथमपाय इति । ननु धीरकलितादिशब्दाः यदि गुणारोपितावस्थाभिधायिनस्तर्हि एकस्यैव नायकस्य उपात्तावस्थातः प्रवन्धेष्ववस्थान्तराभिधानमनुचितं स्यात् । तत्राह न चेति । द्विधा खलु नायकाः । कश्चित् प्रधानभूतः । अन्ये तदङ्गभूता इति । तदङ्गभूतानां नायकानां तत्तच्छव्दादिवाच्यो महासत्त्वादिः प्रधाननायकापेक्षावशादव्यवस्थितो भवति । उत्तरोत्तरान् खलु महासत्त्वानपेक्ष्य 526पूर्वपूर्वो महासत्त्वतया गृहीतोऽपि लघुसत्त्वो भवति । तस्मात् तदभिधायिशब्दोऽपि तत्राव्यवस्थिताभिधायी भवति । अङ्गिनि तु नायके नैवमित्याह अङ्गिनस्त्विति । तस्यापेक्षणीयान्तराभावादित्यर्थः । एतद् व्यतिरेकदृष्टान्तेनोपपादयति यथेति । प्रथममुदात्तत्वेन परिगृहीतस्य रामस्य छद्मना वालिवधः अनुदात्तत्वमापादयतीति तथा न परिग्राह्य इति527 । नन्वङ्गिन्येव उपात्तावस्थातः अवस्थान्तराभिधानं दृश्यते । यथा प्रथमं ललिततया परिगृहीतस्य पश्चाद् दक्षिणतया । 528तथा च प्रथमं शठतया परिगृहीतस्य पुनर्धृष्टतेति । तत्राह वक्ष्यमाणानां83 चेति । तेषां हि दक्षिणत्वादीनामुत्पत्तिशिष्टैव सापेक्षतेति वक्ष्यते । अन्यस्यां नायिकायामनुरक्तः पूर्वां प्रति दक्षिणः शठो धृष्टो वा भवति । तस्मात् तेषां दाक्षिण्यादीनां नित्यसापेक्षत्वादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गवदङ्गिनोऽप्यविरुद्धं भवति । एकप्रबन्धगतस्याङ्गिनो नायकस्यावस्थान्तराभिधानमनुचितमित्येतत् 529नित्यसापेक्षाण्यवस्थान्तराणि विहायेत्यर्थः ।

  1. वी॰ च॰ २।१६
  2. वी॰ च॰ २।१०
  3. वी॰ च॰ २।१६
  4. वी॰ च॰ ४।२२
  5. This seems to have reference to Udāttarāghava of Māyurāja. See Dhanika’s comments on III. 24: yathā chadmanā vālivadho māyurājenodāttarāghave parityaktaḥ (and not to Rāmābhyudaya of Yaśovarman as noted by B.M. on III. 24).

  6. २।६
  7. This is the reading in M.G.T. and it seems to be so in Gr.MS. too. T.MS. and Tri.MS. read yady apy avyavasthita-, etc.

  8. sthite caivam is missing in Gr.MS. T.MS. reads asti caivam which obviously seems to be an error of the scribe.

  9. T.MS. reads teṣām apy avyavasthitarūpābhidhāyitve, whereas the others read what is given in the text.

  10. Only T.MS. reads na prasajyeta.

  11. This is the reading in Gr.MS. and Tri.MS. T.MS. reads yācako instead of pācako, and M.G.T. is corrupt here.

  12. T.MS. reads pūrvapūrvatayā.

  13. In T.MS. after udāttatvena the other words are missing. See Note 160a to Daśarūpāvaloka. Tri.MS. and M.G.T. read tathā na parigṛhyata iti. Gr.MS. reads what is given in the text.

  14. Tri.MS. and Gr.MS. seem to read: yathā ca prathamaṃ lalitatayā parigṛhītasya paścād dakṣiṇatā. dakṣiṇatayā parigṛhītasya punaḥ śaṭhatā. yathā ca prathamaṃ śaṭhatayā parigṛhītasya punar dhṛṣṭateti.

  15. What a brilliant comment at the end of the discussion !