81

अथ धीरोद्धतः—

दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः॥ ५ ॥
धीरोद्धतस्त्वहंकारी चलश्चण्डो विकत्थनः ।

दर्पः=शौर्यादिमदः । मात्सर्यम्=असहनता । मन्त्रबलेनाविद्यमानवस्तुप्रकाशनं=माया । छद्म=वञ्चनामात्रम् । चलः=अनवस्थितः । चण्डः= रौद्रः । विकत्थनः=स्वगुणशंसी धीरोद्धतो भवति । यथा जामदग्न्यः—कैलासोद्धारसारत्रिभुवनविजय—515 इत्यादि । यथा च रावणः—त्रैलोक्यैश्वर्यलक्ष्मीहठहरणसहा बाहवो रावणस्य । इत्यादि ।

धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनः वत्सवृषभमहोक्षादिशब्दवत् । न जात्या कश्चिदवस्थितरूपो ललितादिरस्ति । तदा हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात् । यथा च भवभूतिनैक एव जामदग्न्यः—

ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥516
इत्यादिना रावणं प्रति धीरोदात्तत्वेन कैलासोद्धारसार—517 इत्यादिभिश्च रामादीन् प्रति प्रथमं धीरोद्धतत्वेन पुनः पुण्या ब्राह्मणजातिः518 इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः । न चावस्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरापेक्षया महासत्त्वतादेरव्यवस्थितत्वात् । अङ्गिनस्तु रामादेरेकप्रबन्धोपात्तान् प्रत्येकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादानमन्याय्यम् । यथोदात्तत्वाभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति519 । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वां प्रत्यन्ययाहृतः520 इति नित्यसापेक्षत्वेनाविर्भावादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गाङ्गिनोरप्यविरुद्धम् ।

  1. वी॰ च॰ २।१६
  2. वी॰ च॰ २।१०
  3. वी॰ च॰ २।१६
  4. वी॰ च॰ ४।२२
  5. This seems to have reference to Udāttarāghava of Māyurāja. See Dhanika’s comments on III. 24: yathā chadmanā vālivadho māyurājenodāttarāghave parityaktaḥ (and not to Rāmābhyudaya of Yaśovarman as noted by B.M. on III. 24).

  6. २।६