119 अथ मोट्टायितम्—

मोट्टायितं तु तद्भावभावनेष्टकथादिषु ।

इष्टकथादिषु प्रियतमकथानुकरणादिषु प्रियानुरागेण भावितान्तःकरणत्वं=मोट्टायितम् । यथा पद्मगुप्तस्य643

चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।
व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा ॥
नवसाहसाङ्कचरितम् ६।४२

यथा वा—

मातः कं हृदये निधाय सुचिरं रोमाञ्चिताङ्गी मुहु- र्जृम्मामन्थरतारकां सुललितापाङ्गां दधाना दृशम् ।
सुप्तेवालिखितेव शून्यहृदया लेखावशेषीभव- स्यात्मद्रोहिणि किं ह्रिया कथय मे गूढो निहन्ति स्मरः ॥

यथा वा ममैव—

स्मरदवथुनिमितं गूढमुन्नेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः ।
भवति विततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहुर्जृम्भितैः साङ्गभङ्गैः ॥

  1. A.T.A. looks like dattaguptasya.