अथ ललितम्—

सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत् ॥ ४१ ॥

यथा ममैव—

सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन ।
विन्यस्यन्ती चरणकमले लीलया स्वैरयातै- र्निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥