अथ नर्मस्फिञ्जः—

नर्मस्फिञ्जः सुखारम्भो भयान्तो नवसंगमे ।

यथा मालविकाग्निमित्रे संकेते नायकमभिसृतायां नायिकायां नायकः—

विसृज सुन्दरि संगमसाध्वसं ननु चिरात् प्रभृति प्रणयोन्मुखे ।
परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥661
126 मालविका

662भट्टा, देवीए भयेण अत्तणो वि पिअं काउं ण पारेमि

इत्यादि ।

  1. ४।१३
  2. ‘भर्तः, देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।’ इति च्छाया.