अथावपातः—

अवपातस्तु निष्क्रामः प्रवेशत्रासविद्रवैः ॥ ५९ ॥

यथा रत्नावल्याम्—

कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः ।
दत्तातङ्को गजानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरातः ॥673
नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यन्ति शनकैरात्मेक्षणाशङ्किनः ॥674

131 यथा च प्रियदर्शिकायां प्रथमेऽङ्के विन्ध्यकेत्ववस्कन्दे ।

निजस्य सदृशं नाम्नः किरातैः कृतमिति । कीर्यन्त इति किराताः675 इति हि किरातशब्दार्थः ।

  1. २।२
  2. रत्ना॰ २।३
  3. The sentence should be kīryanta iti kirātāḥ. This is found only in Gr.MS. In others it is missing.