73 रूपकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रतिपाद्येदानीं नायकभेदः प्रतिपाद्यते—
नेता विनीतो मधुरस्त्यागी दक्षः प्रिंयवदः ।
रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ १ ॥
477बुद्ध्युत्साहधृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ २ ॥
द्वितीयः परिच्छेदः478
वृत्तवर्तिष्यमाणकथनेन पूर्वोत्तरप्रकाशौ संगमयति रूपकाणामिति । एकार्थत्वेऽपि प्रत्यययोः प्रसिद्धिप्राचुर्येणाह नेता नायक इति । शुचिः बाह्यान्तःकरणयोर्मालिन्यरहितः । वाग्मी=समीचीनत्वे सति बहुभाषी । प्रख्याताभिजनो रूढवंशः । यौवनशाली युवा । निर्णययुक्तं ग्रहणं बुद्धिः । उद्योगहेतुः प्रयत्न उत्साहः । धृतिर्धैर्यम् । गीतादिः कला । मानोऽभिमानः ।