अथौदार्यम्—

प्रियोक्त्याजीविताद् दानमौदार्यं सदुपग्रहः ॥ १४ ॥

प्रियवचनेन सह आ जीवितावधेर्दानमौदार्यं सतामुपग्रहश्च । यथा नागानन्दे—

सिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत किं मक्षणात् त्वं विरतो गरुत्मन् ॥549

सदुपग्रहो यथा—

एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥
(कुमार॰ ६।६३

  1. ५।१५