इत्थं विचिन्त्य दशरूपकलक्ष्ममार्ग- मालोक्य वस्तु परिभाव्य कविप्रबन्धान् ।
कुर्यादयत्नवदलंकृतिभिः प्रबन्धं वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ ७६ ॥
इति धनंजयविरचिते दशरूपके तृतीयः प्रकाशः

स्पष्टम् ।

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रूपकलक्षणप्रकाशो नाम तृतीयः प्रकाशः समाप्तः

इत्थं दशरूपकलक्षणं चिन्तयित्वा इतिवृत्तं चावलोक्य महाकविप्रबन्धांश्च दृष्ट्वा तदानुगुण्येन रूपकोक्तैरलंकारैः स्फुटवृत्तैर्मन्दवृत्तैश्च उदारमधुरैर्वाक्यैः प्रबन्धं कुर्यादित्युपसंहरति इत्थमिति ।