अथ प्रपञ्चः—

722असद्भूतं मिथः स्तोत्रं प्रपञ्चो हास्यकृन्मतः ॥ १५ ॥

असद्भूतेनार्थेन पारदार्यादिनैपुण्यादिना यान्योन्यस्तुतिः स प्रपञ्चः । यथा कर्पूरमञ्जर्याम्—

भैरवानन्दः
रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ ।
भिक्खा भोज्जं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥723

रंडा चंडा ।724

रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पियते खाद्यते च ।
भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥

  1. ‘असद्भूतमिथः स्त्रोत्रं’ इति पाठः.
  2. १ । २३
  3. ru ḍāc ghā is found here only in M.G.T. and not in others. The verse raṇḍā caṇḍā, etc. is from Rājaśekhara’s Karpūramañjarī (I.23). The word raṇḍā is derived by Sāyaṇa and others (from the root raṇ or ram) with the uṇādi-suffix prescribed by the rule ñamantāḍḍaḥ.