अथ गण्डम्—
गण्डं प्रस्तुतसंबन्धिभिन्नार्थं सहसोदितम् ॥ १८ ॥
यथोत्तरचरिते—
अयि, कः ?
रामः
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
इति ।रामः