149

ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभाबात् प्रमेयाभावप्रतित्तिर्यु
क्तेत्याह--


प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ॥ ४८ ॥
 ॥ 811स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥


प्रमाणनिवृत्तावपीत्याह । कारणं व्यापकं च निवर्तमानं कार्यं व्याप्यं च निवर्तयेत् ।
न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् । अतः प्रमाणयोर्निवृत्तावपि अर्थस्य प्रमेयस्य
निवृत्तिर्न सिध्यति । ततोऽसिद्धेः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनः
प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद् युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारण
मन्तरेण कार्यमस्ति । न 812तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात्
प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणामावात् प्रमेयाभावव्यवस्थेति ॥


813आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमानो द्वितीयः परिच्छेदः ।


सम्प्रत्यदृश्यानुपलब्धिमधिकृत्योक्तं व्याचक्षाण आह--उक्तेति ।


ननु यदि प्रत्यक्षाऽनुमाननिवृत्तिमात्ररूपाऽदृश्यानुपलब्धिरभावे साध्ये संशयहेतुरनैकान्तिकी
तर्हि सा ततश्च हेत्वाभासावसर एव वक्तव्या । तत् किमिहोच्चयत इति चेत् । नैतम814स्ति । यतो
न सा वचनव्यक्त्याऽनुपलब्धिक्षणप्राप्तस्यानुपलब्धिरसद्व्यवहारे साध्ये न प्रमाणम्, ऐकान्तिक
सद्व्यवहारनिषेधे तु प्रमाणमिति प्रदर्शनात् ।


न ज्ञानज्ञेयस्वभावेति यावदित्यार्थं न्यायमाश्रित्योक्तं न शाब्दमिति द्रष्टव्यम् ॥


यदि प्रमाणनिवृत्त्या57b प्रमेयानिवृत्तिस्तर्हि तत्सत्तयाऽपि न प्रमेयसत्ता सिद्ध्ये
दित्याशङ्क्य तत्रोपपत्तिं दर्शयन्नाह--यत्पुनरिति । ननु कारणमप्यवश्यं कार्यवद् भवति
ततश्च सति ज्ञेये ज्ञानेनाप्यवश्यभाव्यम् । तच्चेन्नास्ति ज्ञेयमपि नास्त्येव । ततः सिद्ध्यत्येवाऽ
दृश्यस्याप्यभाव इत्याशङ्क्याह--न त्विति । तुना कार्यधर्मात् कारणधर्मस्य वैधर्म्यमाह । एतच्च
कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्रागेव निर्णीतम् । तस्मादित्यादिनाऽस्यैव प्रकृत
स्योपसंहार इति ॥


॥ पण्डितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धस्य द्वितीयः परिच्छेदः ॥




  1. ॥ द्वितीयपरिच्छेदः ॥--D. B. ॥ न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥--E.

  2. न च--B. D.

  3. ॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ A. B. P. H. E. ॥ न्याय
    बिन्दुटीकायां द्वितीयः परिच्छेदः ॥ D.