88

किं पुनस्तद् द्वैविध्यमित्याह--


स्वार्थं परार्थं च ॥ २ ॥


स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत् स्वार्थम् । परस्मायिदं परार्थम् ।
येन परं प्रतिपादयति तत् परार्थम् ॥


सप्तमीपाणिनि २-१-४० इति योगविभागात्समासः । यद्वा नियतं विशिष्टं लक्षणं न
शक्यं वक्तुम् । क्व च नियतमित्याशङ्क्योक्तं--प्रतिव्यक्तीति । व्यक्तौ व्यक्तावित्य
व्ययीभावः । यस्मादन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस्तस्मात् । लक्षणनिर्देशा
ङ्गमे
वेति लक्षणनिर्देशनिमित्तमेव ।


एतेन यच्चोद्यते लक्षणमात्रे कथिते विशिष्टलक्षणमनुमानमेकमनेकं वाऽस्तु । किं तस्य
प्रकारभेदकथनेन
इति तत्परिहृतम् । यदि हि साधारणं लक्षणमभिप्रेत्येदमुच्यते तदा तन्नास्तीति
किं कथ्येत । अथ विशिष्टं लक्षणं तदपि व्यक्तिभेदकथनमन्तरेण वक्तुं यदि शक्येत किं न
कथ्येत । केवलमिदमेव नास्तीति । अत एवादावेव तदभिधानं न्याय्यम्, न तु पश्चादिति
दर्शयितुमाह--अशक्यताम् इति । तदन्तरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चोऽवधारणे ।
प्राग्लक्षणकथनात्पूर्वम् ।


स्यादेतत्--स्वार्थानुमानमेवंलक्षणं परार्थानुमानमेवंलक्षणमिति किं विशिष्टं लक्षणं न
शक्यते वक्तुम् ? एवमपि किमनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या--अनुमानं
द्विधा स्वार्थं परार्थं चे
त्युच्यत इति ? सत्यमेतत् । केवलं नियमार्थमेतद् विभागवचनमिति ब्रूमः ।
अनुमानं द्विधा--द्विधैवैवमात्मकमिति कथं नाम 37b प्रतीयेतेति । इतरथेह तावदेतावदेव
व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनरन्यदप्यनुमानं व्युत्पाद्यमस्तीत्याशङ्का नाहत्य निराकृता
स्यादिति ॥


पूर्ववच्छेषवदादिरूपेण अन्यथाऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति--किं पुनरिति ।
किमिति सामान्यात् पृच्छति । पुनरिति विशेषतः ।


स्वार्थशब्दस्य विग्रहं दर्शयति--स्वस्मायिति । अर्थशब्देन नित्यसमासादस्य पदविग्र
हमाह । इदमित्यनुमानन् । स्वार्थमिति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजन
मित्यर्थः । अमुमेवार्यं स्फुटयन्नाह--येनेति । येनानुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते
परोक्षमर्थमिति शेषः, प्रकरणलभ्यं वा । तत्स्वार्थज्ञानमात्मप्रतिपत्तिप्रयोजनमिति यावत् ।


अयमाशयः--त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत्तदर्थमेव । तेनाऽन्यस्या
प्रतिपत्तेः । ततः स्वार्थमुच्यते । न तु किञ्चिज्ज्ञानं क्वचित्पुंसि नियतमस्ति । यदपेक्षया
स्वार्थमुच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश्चायमभिप्रायः । यद्यपि प्रतिपत्तिरनुमानज्ञा
नात्मिका तथाप्येकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः
करणमनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिरिति ।