89

तत्र428 स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये429 ज्ञानं तदनुमानम् ॥ ३ ॥


तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह--त्रिरूपादिति ।
त्रीणि रूपाणि यस्य वक्ष्यमाण430लक्षणानि तत् त्रिरूपम् । लिङ्ग्यते गम्यतेऽनेनाऽर्थ इति


परार्थमित्यस्य विग्रहमाह--परस्मायिति । पूर्ववदस्य पदविग्रहः । परार्थमिति समस्तं
पदमुक्तम् । अस्य च परप्रतिपत्तिः प्रयोजनमित्यर्थः । अमुमर्थं येनेत्यादिना स्पष्टयति । येन
वाक्येन करणेन परं प्रति वाच्यं प्रतिपादयति परोक्षमर्थं बोधयति तत् त्रिरूपलिङ्गाख्यानं वाक्यं
परार्थमनुमानम् ।


अत्राप्ययमस्याभिप्रायः--यद्यपि अभिधानरूपमप्यनुमानं न नियतं पुंसि तथाऽपि तत्परार्थ
मेव । तथाहि यद् यदुद्दिश्य प्रवर्त्तते तत् तदर्थमुच्यते । परमुद्दिश्य प्रवर्त्तते च शब्दो
नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसंमीहाविषयस्यार्थस्य पर एव
प्रयोजको यस्मादिति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वेऽपि स्वार्थादस्य
पृथग्वचनम्, साक्षादनयोर्व्यापारभेदादिति च द्रष्टव्यम् ।


ननु च परार्थानुमानोत्पादकवाक्यवदस्ति किञ्चिद् वाक्यं यत्परप्रत्यक्षोपयोगि । यथा एष
कलभो धावति
इति वाक्यम् । अतः परार्थानुमानवत्परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति ?
अत्रोच्यते--परोक्षार्थप्रतिपत्तेर्या सामग्री--लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश्च--तदाख्यानाद्
वाक्यमुपचारतः परार्थानुमानमुच्यते । न तु तत्र कथञ्चिदङ्गभावमात्रेण, स्वास्थ्यादेरपि तथा
प्रसङ्गात् । इदं पुनः अयं कलभः इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर्या सामग्रीन्द्रियालोकादि
तदभिधानात्तन्निमित्तं भवत्तथा व्यपदेशमश्नुते येन व्युत्पाद्यतामप्यश्नुवीत । किं तर्हि ? कस्यचिद्
दिदृक्षामात्रजननेन । यथा कथञ्चित्परप्रत्यक्षोत्पत्तावङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि
सन्निहितेऽपि कथञ्चित्पराङ्मुखस्य परेण यदभिमुखीकरणं 38a शिरसस्तदपि वचनात्मकं
परार्थप्रत्यक्षं व्युत्पादयितुर्व्युत्पाद्यमापद्येत । एतच्च कः स्वस्थात्मा मनसि निवेशयेत् । किञ्च
भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश्छिन्नम् ? तस्यापि व्युत्पादनार्हस्याव्यु
त्पादनात्प्रमाद एव महती क्षतिरिति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः ।
विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित् तथाविधे वचने
परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तदपि व्युत्पाद्येत । परार्थानुमाने431... ... ...
वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्,
उपनयसाध्यतदावृत्तिवचनानाञ्च प्रयोगादिति तद् व्युत्पाद्यते । यदि तु तत्रापि न विप्रति
पद्येरन् परे तदा तदपि नैव व्युत्पादितं स्याद्, इत्यलमतिविस्तरेण ॥


इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस्तथैव परस्मै प्रतिपाद्यत इति स्वार्थानुमानपूर्वकत्वा
त्परार्थानुमानस्य प्रथमं स्वार्थानुमानमुक्तम् । यथोद्देशमेव च लक्षणं प्रणेयमिति स्वार्थानुमान


  1. तत्र त्रिरू० E.

  2. ०मेयज्ञानं C.

  3. वक्ष्यमाणानि D.

  4. अस्पष्टम्--सं०