87

द्वितीयः स्वार्थानुमानपरिच्छेदः ।


एवं प्रत्यक्षं व्याख्यायानुमानं व्याख्यातुकाम425 आह--


अनुमानं द्विधा ॥ १ ॥


अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेदः कथ्यते ?
उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदात्
नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो
हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा ।
ततो लक्षणनिर्देशाङ्ग426मेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षण
निर्देशस्य ज्ञात्वा प्राक्427 प्रकारभेदः कथ्यत इति ॥


प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणमुद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशमधुनाऽ
नुमानं व्याख्यातुमवसरप्राप्तमित्यभिसन्धायाह--एवमिति । एवमनन्तरोक्तेन चतुर्विध
विप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययोऽयमिति दर्शयन्नाह--द्विप्रकारमिति ।


ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणमेव वक्तव्यम् । तत्किमिदमप्रस्तुता
भिधानमास्थीयत इति पूर्वपक्षम्--अथेत्यादिनोत्थापयति । अथशब्दोऽत्र प्रश्ने । अकस्मादिति
निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर्ज्ञानाभिधानात्मनोः । एकमिति
साधारणम् । यथा चतुर्णामपि प्रत्यक्षाणां ज्ञानरूपत्वादेकं कल्पनापोढत्वादिसाधारणं लक्षणं
सम्भवति, तथा यदि स्यात् प्रत्यक्षवल्लक्षणमेव प्रथममुक्तं स्यादिति भावः । प्रतिनियतं
प्रातिस्विकम् । प्रकारस्य भेदो नानात्वम् ।


ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुमिति
व्यक्तिभेद एव कथयितव्यः । तत्किं प्रकारभेदः कथ्यत इत्याह--प्रकारेति । हिर्यस्मात् ।
यदि तस्मिन् दर्शितेऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्याह--व्यक्तीति ।
चो
यस्मादर्थे । प्रतिशब्दोऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस्तत्र नियतमिति,

  1. व्याख्यातुमाह--A.

  2. निर्देशार्थमेव A. C.

  3. ज्ञात्वा प्रथमं प्रका० C. D.