90 लिङ्गम् । तस्मात् त्रिरूपाल्लिङ्गात् यत् जातं ज्ञानम् इति । एतद् 432हेतुद्वारेण विशेषणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् 434स्वार्थमनुमानमिति ॥ लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्त्तुमाह-- प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् ॥ ४ ॥ प्रमाणस्य435 यत् फलं तस्य या व्यवस्था 436साऽत्रानुमानेऽपि 437प्रत्यक्ष इव प्रत्यक्षवत्
तत् 433त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टि--अनुमेय इति ।
एतच्च विषयद्वारेण विशे षणम् ।
वेदितव्या ।
स्यैवं लक्षणं तत्रेत्यादिनाऽऽदित उपदिष्टमाचार्येण तद् व्याचष्टे तत्रेति । स्वार्थपरार्थानुमान
समुदायात् स्वार्थानुमानं स्वार्थत्वज्ञात्या निर्धार्यते । तस्मात्त्रिरूपाल्लिङ्गाद् यज्जातमिति
व्याचक्षाणो मूले त्रिरूपाल्लिङ्गादिति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया जनिकर्त्तुः
प्रकृतिः पाणिनि १. ४. ३० इत्यनेन लब्धापादानसंज्ञकादपादान एवेति दर्शयति । हेतुद्वारेण
जनकमुखेन । त्रिरूपाल्लिङ्गादिति चाचक्षाणेनाचार्येणैकद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य
सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणमभिप्रेतं प्रकाशितमिति । यथा चैतत् तथा भट्टार्चट
निबन्धनमर्चटालोकसंज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।
अनुमेयग्रहणस्य व्यावर्त्त्यं दर्शयति--त्रिरूपाच्चेति । चो यस्मादर्थे । इतिर्हेतौ ।
त्रिरूपलिङ्गालम्बनमिति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद्धि
परम्परया त्रिरूपाल्लिङ्गाज्जातमिति । इतिना विशेषणस्य स्वरूपमुक्तम् । विशेषितमेव
ज्ञानम् । किम्पुनर्विशिष्यत इत्याह--एतच्चेति । चो यस्मात् । विषयद्वारेणावसीयमानविषय
द्वारेण विशेषणं व्यवच्छेदकम् ।
अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः
आलम्ब्यत इत्यालम्बनं यस्येति विग्रहः । इतिर्वाक्यार्थपरिसमाप्तौ एवमर्थः सन्नापरेण
सम्बद्ध्यते--एवमुक्तेन प्रकारेण लक्षणविप्रतिपत्तिं निराकृत्येति ॥
ननु च प्रमाणस्य फलमिति यद्याचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा
प्रमाणभागव्यवस्थायां किमुक्तमाचार्येण, धर्मोत्तरेणापि नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्
इत्युपरिष्टात्पृ० ९१ किमिति दर्शयिष्यते इति चेत् । नैष दोषः । नहि प्रमाणस्येत्यादिना