151

मनुमानशब्देनोच्यते । औपचारिकं824 वचनमनुमानम्, न मुख्यमित्यर्थः । न यावत्825 किंचिदु
पचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्वं व्याख्येयम् । किन्त्वनुमानं व्याख्यातुकामेनानु
मानस्वरूपस्य826 व्याख्येयत्वान्निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं
वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति827 । तस्माल्लिङ्गस्य स्वरूपं
828च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपाद
कश्च829 शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्दे
नोक्तवानाचार्य इति परमार्थः ॥


परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह--


तद् द्विविधम् ॥ ३ ॥


ननु च त्रिरूपलिङ्गाभिधानादवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः
स्मर्यते । तत्कथं त्रिरूपलिङ्गवचनात् तत्स्मृतिरुत्पद्यते इत्युच्यत इति चेत् । उच्यते ।
गृह्यमाणमपि धूमादिवस्तु न तावल्लिङ्गं यावद् वह्न्यादिसाध्याविनाभूततया न ज्ञायते ।
तथात्वं च तस्य न तदा ग्राह्यमपि तु पूर्वगृहीतमेव स्मर्त्तव्यमिति सूक्तं त्रिरूपलिङ्गस्मृति
रुत्पद्यत
इति । स्मृतेरिति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।


अयमर्थः--वचनमपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवदु
पचारादनुमानमुच्यत इति ।


अथाबाधितत्वाद्यपि लिङ्गस्य लक्षणमित्याचक्षते केचिदिति विप्रतिपत्तिदर्शनात् तद्व्यु
त्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावादिति चेत् । न अत्राप्यव्याप्तिव्यति
रेकाभ्यां निगदन्तो विप्रतिपन्ना इत्यस्यापि व्युत्पादनं न्याय्यम् ।


अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनमुपचारादनुमानमिति व्युत्पाद्यते
तर्हि जिज्ञासास्वास्थ्यादिकमपि परम्परयाऽनुमानहेतुत्वादनुमानशब्देन वक्तुं शक्यमिति तदपि
किं नोच्यत इत्याह--न यावदिति ।


ननु स्वास्थ्यादिकमपि निमित्तमिति तदवस्थो दोषः । न । निमित्तं व्याख्पेयमित्य
व्यहितमसाधारणं निमित्तमाख्येयमित्यर्थः ।


ननु स्वयं प्रतीतं लिङ्गमनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्याह—
तच्चेति । चो यस्मादर्थे । वाशब्दो विकल्पार्थः । यतः परेण प्रतिपादितमपि तल्लिङ्ग
मनुमानस्य निमित्तं ततस्तस्मादवश्यं वक्तव्यं प्र58a तिपादकं लिङ्गप्रतिपादकं वचनं दर्शयन्न
नुमानशब्देनोक्तवानाचार्यः
 ।




  1. औपचारकम्--A.

  2. न च यावत् A. B. D. P. H. E. N.

  3. स्वरूपस्यैव व्या० C.

  4. भवति नास्ति A. C. P. E. N.

  5. नास्ति A. P. H. E. N.

  6. ०दकः शब्द A. B. P. H. E. N.