2
तदध्ययने
च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविध्नेन जिज्ञासित
शास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारोप्यनुपालितो भविष्यतीत्यभिसन्धाय वाग्विजया
ख्यानद्वारां भगवतः पूजां स्तुतिमयीमारभते ।


स्यादेतत्--पूजायाः पुण्योपजननमात्रप्रयोज5नस्य सम्पादकत्वादारिप्सितारम्भात्प्राक्
कायमयीमेवेष्टदेवतापूजामारचय्य किमिति न तदारभ्यते ? अथोच्यते--तत्पूर्विकायामपि
प्रवृत्तौ स्तुतिपूजैव प्रवृत्तिपुरःसरी किन्न कृता इति चोद्यमापद्येत । तथा चाशोकवनिकाचोद्य
सदृशमिदमिति नानुवाद्यमपि विदुषामिति । असदेतत् । एवं हि6कायपूजाया आरचने स्तुति
पदानि प्रयुञ्जानस्याऽतद्व्याख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत । कायपूजा तु
सुखासनोपदेशनादीतिकर्त्तव्यतास्थानीयत्वान्नाप्रकृतकरणचोद्येनोपद्रूयत इति ।


अत्रोच्यते--स्यादेवैतद् यदि स्वार्थमुद्दिश्य स्तुतिरीदृशी पूजा विधीयते । किं तर्हि ?
श्रोतृजना7र्थमुद्दिश्यापि भगवतो गुणकीर्त्तने कृते श्रोतृभिरन्ततः काव्यगुणजिज्ञासयापि
श्लोकोऽवश्यं ज्ञातव्यः । तज्ज्ञानात् तथागतगुणास्तावत्कालं तावच्छोतृसन्तानमध्यासते । तत्र
ये तावद् भगवति प्रागतिप्रसन्नमनसस्तेषामेवंविधगुणातिशयशालिनि स्थान एवास्माकं मनः
प्रसन्नम्
इति निश्चिन्वतां स्थे8मानमासादयति चित्तम् ।ये च मध्यस्थास्तेषाम् एवंभूतगुणरत्ना
लङ्कृते महतो महीयसि चित्तमावर्जयितुमुचितं स्वहितावहितैः, तद्वयमियन्तं कालं प्रमाद्यन्त
एवोदास्महे स्म
इति निर्विद्यमानानां चित्तमतिमत्तं प्रतिष्ठते । येऽप्यनतिप्रसन्नास्तेषामपि—
एवंविधगुणनिकेतने किमस्माभिरकस्माद्विद्विष्यते इति मननान्मनागावर्जनं माध्यस्थ्यं वा
9स्यादित्यतिप्रसन्नमध्यस्थयोः पुरुषयोश्चित्तप्रसादस्थैर्य-मनःप्रसादोपजननाभ्यां पुण्यातिशयो
जायते । तृतीयस्यापि मनागावर्जनेपि पुण्यप्रसवः । माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेय
नरकेष्वनतिपतनं विद्वेषोपशमाद् भवति । असत्यां तु स्तुतिमयपूजायामित्थं त्रिविधश्रोतृजन
प्रयोजनं यत् तन्न कृतं स्यात्--इति स्वपरार्थो2a द्देशेन स्तुतिमयी पूजा विधीयत इति
स्थितम् ।


तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थसम्पदुपायसम्पदा परार्थसम्पदा च स्तूयते ।
तासां तिसृणामपि सम्पदामवश्यवक्तव्यत्वात् । तथाहि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य
भगवतः परार्थसम्पत् प्रधानं प्रयोजनम्, इतरदप्रधानम्, आनुषङ्गिकं तथागतत्वमपीति सा
तावदवश्याभिधेया ।


तदाह भट्टवराहस्वामी--


साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् । इति ।


सा चोपायसम्पदमन्तरेणासम्भविनीति तदभिधानमप्यावश्यकम् । इयञ्चानधिगत
स्वाथसम्पदो न सिध्यतीति तदभिधानमपि नियतमापतितम् । तदाह स एव--


तीर्णः स्वयं याति जगत्समग्रं मार्गोपदेशेऽधिकृतो हि नाथः । इति ।

तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत् तत्साध्या च परार्थसम्पादनसम्पदिति
प्रथमं जातीत्यादिना सुगतस्येत्यन्तेन स्वार्थसम्पत्तिरुक्ता । अनुपायस्य परार्थसम्पत्तिर्न सम्पद्यत

  1. पत्रमत्र त्रुटितम्--सं०

  2. पत्रमत्र त्रुटितम्--सं०

  3. पत्रमत्र त्रुटितम्--सं०

  4. पत्रमत्र त्रुटितम्--सं०

  5. पत्रमत्र त्रुटितम्--सं०