३ ॥ भेदाभेदपरीक्षा ॥

1b

॥ नमो बुद्धाय ॥

प्रत्येकपक्षोपनिपातिदूषणपरिजिहीर्षया कैश्चिदाश्रियमाणो भेदाभेदपक्षः परी
क्ष्यते । तत्र किमयमुभयसमुच्चयस्वभावः, तदभावरूपो वा ? अभावोऽपि प्रसज्य
मात्रम्, पर्युदासवृत्त्या वा भावान्तरम् ? तदपि प्रकृतप्रत्यनीकं तृतीयं रूपम्, उत
अप्रकृतमेव किञ्चित् ?

तत्र प्रथमपक्षे यावेव भेदाभेदौ पृथग्दोषजालकवलितौ, तावेवामू एकवस्तु
वर्तिनाविष्येते, तदान्यावेव वा ? तत्त्वे तद्दूषणस्यावश्यमनुवृत्तेर्विफलोऽभ्युपगमः ।
अन्यत्वेऽपि तद्दूषणवद् गुणस्याप्यननुवृत्तेः । अपि नाम भेदपक्षभावि पृथक्प्रतीतिप्रसङ्ग
दूषणमभेदमुपगच्छन् परिहरिष्यामीति भेदेऽप्यभेदस्वीकारस्तत्र भवतः । यदि च स
एवाभेदः पृथगुपलब्धिबाधनोऽधुनाप्युपनीतः, स्यादेवं तत्परिहारः, केवलमेकयोगक्षेम
समावेशात् प्रमाणान्तरावृत्तिमप्याकर्षेत् । ततो यद्यन्यतयैनां नाकर्षेत्, तत एव
पृथगुपलब्धिनिषेधनमपि न साधयेत् । अथाभेदस्य पृथगुपलब्धिबाधैव फलं न
शब्दान्तरावृत्तिस्वाभाव्यात्, तथापि द्वैताभ्युपगमो विफलः । एवं भेदपक्षेऽपि वाच्यम् ।
अथ पृथगुपलब्धिबाधैव फलमभेदस्य, शब्दान्तरावृत्तिनिवृत्तिस्तु भेदस्यैव, तेनापि हि
संभविना स्वकार्यमर्जनीयमेव । एवं भेदस्यापि प्रमाणान्तरापेक्षेव फलं, पृथगुप
लब्धिबाधा त्वभेदस्येति ।

उच्यते । उभयमुभयस्य कार्यं दृष्टं, भेदस्यापि पृथक्प्रकाशप्रसङ्गदोषः,
शब्दान्तरापेक्षा च गुणः । अभेदस्यापि शब्दान्तरापेक्षाप्रसङ्गदोषः, अपृथक्प्रतिभासश्च
गुणः । तत्रेदानीं भेदेन शब्दान्तरवृत्तिमात्रमातन्वता स्थातव्यम् । द्वितीये तु कार्ये
परप्रहारोऽपेक्षितव्यः । अभेदेनापि सह प्रतिभासं सृजता कार्यान्तरे प्रत्यनीकप्रहार
इति किंकृतो विभागः ? भवदभिप्रायानुविधायितया भावानाम्, स्वयमेव वा
गुणदोषयोरनुनयप्रतिघसंभवात्, कालभेदसंभवाद् वा स्वभावयोः कार्याणां च ।
तत्रापि नियतो गुणदोषक्रमोऽनियतो वा ? तत्र प्रथमविकल्पे भेदाभेदयोरन्यतर एव
180
पक्षः स्वकीयं गुणमात्रमर्पयन् दूषणस्पर्शरहितो भविष्यति । न चैनं दूषणमुपनेष्यत
इति किमात्मप्रमाणानभिज्ञेन द्वैतपरिग्रहः कृतः ? चैतन्यशून्यत्वाच्च भावानां नाभि
प्रायानुविधानम् ।

अतएव न द्वितीयोऽपि विकल्पः । अस्तु वैषम्येऽनुनयादिः स पुनरात्मोपकाराप
कारिणि स्यात्, न वै वाचकवाच्यतया किञ्चिदेषामपकृतं प्रतिभासभेदेन वोपकृतं वा
तदितरेण । भवदनुरोधात् तु गुणदोषशब्दप्रयोगः । ततस्तदनुवृत्तिविधुरस्य तथात्वेऽपि
न किञ्चित् । अननुवृत्तौ वा चैतन्यमुक्तमेव ।

स्यादेतत् । शब्दोदयकारणकरणकलापव्यापारवदभिप्रायानुवृत्तिः स्वभावादेवेति ।
तथापि 2a द्वैतपरिग्रहोऽग्रह एव । एकस्यैव स्वभावस्य तथा व्यापारकल्पनं किं
नास्थीयत इत्युक्तप्रायम् ।

नापि तृतीयपक्षोपक्षेपः क्षमः । स्वभावयोस्तावत् कालभेदे यदा भेदो न
तदा अभेदः । अभेदकाले च न भेद इति न कदाचिद् परदोषपरिहारः । तत्र यथा
भिन्नेऽभिन्ने वा वस्तुन्येकान्तभेदाभेदभावीनि पर्यायत्वादीनि कार्याणि न विहन्यन्ते,
तथैव स्वभावयोः कालभेदे न प्राप्नुवन्ति, प्रतिद्वन्द्विनोऽभावात् । न च भाविनैव
निषेधोऽवस्तुत्वात् । अतस्तत्कालकार्यकालभेदः शरणीकरणीयः । तत्र भेदः शब्दान्तर
वृत्तिमाधाय यावत् प्रतिभासभेदमाधातुमुपक्रमते, तावदेवाभेदेनोपनियतता प्रतिबध्यत
इति क एवं न्यायविहस्तो हस्तसमारचितं वस्तु प्रस्तोतुमर्हति साहसैकभुवं भवन्त
मन्तरेण ? स्वभावयोरेव हि कालभेदः स च कस्य वस्तुनस्तावद् दुर्लभः ? न हि स
पश्चाद् भवन् तस्यैव युक्तः, कारणचिन्ताविधुरत्वाच्च तत्रापि प्रत्येकं कालभेदः । न
ह्येकस्वभावप्रतिबद्धत्वे युक्तमेवम् । तत्रापि नियतो गुणदोषाभिमतकार्यकरणक्रमः ।
अनियमेन पुनः प्रपातपतनप्रसङ्गादिति व्यक्तमिष्टकामतामात्रापहृतहृदयो न किञ्चित्
चेतयत इत्युपेक्षामर्हति । न हि तदिच्छातिरिक्तमत्र कारणमाकलयामः । अपि च, यदा
भेदस्य पश्चाद् भेदाभ्युपगमः, तदा पृथगुपलब्धिं बाधमानस्याभेदस्य द्वितीयं कार्यं
केन निवार्यताम् ? भेदेनेति चेत्—न, यद्यन्येनोत्तरकालभाविना, तदास्यापि दोषाङ्ग
निराकरणायापरो मृग्यत इत्यनवस्था । अथ प्राक्तनेन, तस्य यद्येतावती शक्तिः
पश्चादभेदेनोपनीयमानमपृथक्प्रतिभासमेव कथं न बध्नीयात् ? तद् यदि पूर्वापेक्षया
उत्तरस्यापवादकत्वं, पूर्वतरापेक्षया कथं नेति चिन्त्यम् । तस्मात् प्रत्येकमुभयकार्य

181
त्वाद् भेदाभेदयोरेकप्रतिनियतः परिहारः स्वीकारो वेत्यनिबन्धनमेतत् । ततः पृथक्
प्रतिभासाप्रतिभासौ सहोत्पत्त्यनुत्पत्ती शब्दान्तरवृत्त्यावृत्त्यादयश्चैकस्यैकदा प्रसज्येरन् ।
न चोपाधेरुपाधिमतो भेदेनानुभवगन्धोऽपि समस्ति । व्यक्तिविनाशे वा विनाशलेशोऽपि
न सामान्यस्याभ्युपेयते परैः ।

व्यक्तिरूपेणेष्यत एवेति चेत् ? ननु व्यक्तिरूपेणेति न निजेन रूपेणेति
विवक्षितम्, अन्यथा विशेषणानर्थक्यात् । निजस्यैव रूपस्य भेदाभेदचिन्तायामयं
प्रसङ्ग इति किमनेन परिहृतम् ? अथ निजमस्य न रूपान्तरं संभवत्येव, कस्य तर्हि
भेदाभेदचिन्तेति सिद्धा निरुपाधयो धर्माः । ननु भिन्नस्याभेदसंभवेऽपि न शब्दान्तर
वैयर्थ्यं विद्म इति किमत्र कुर्मः ? एवं तर्हि भिन्नस्याप्युपाधेर्न भिन्नः प्रकाश इति
किमत्र कुर्म इति ब्रुवतो नैकान्तवादेऽपि दोष इति तथापि व्यर्थो द्वेतमताश्रयः, पर्यन्ते
पादप्रसारिकाया 2b अपरिहारात् । परिश्रमातिशयस्त्वतिरिच्यते, आहोपुरुषिका
वा ? अथापि स्यात् तादात्म्यमभ्युपगच्छतो यदा शब्दान्तरावृत्त्यादिदोषः परैः
प्रसज्यते, तदा भेदस्यापि संभवः परिहारः । भेदे च प्रतिभासभेदापादनेऽभेदोपनय
इति न शक्यमेकान्तवादे । न च पादप्रसारिकेति नाप्युभयदोषप्रसङ्गः । यदा हि पूर्वं
भेद उपनीतः, तदा तदासङ्गिदोषोत्खाते चाभेदस्योपनयात् ।

एवं पुनः पुनस्तदावर्तनपरम्परया पर्यवसानाभावेऽपि न क्षतिरिति चेत् ?
भवतोपनीयमानस्तर्हि बाधको धर्मः साधको वा न स्वसामर्थ्येनैवेत्यापन्नम् । उपनयश्च
वचनात्मन्यनभिधीयमानो भवत उषर्बुधोऽपि न बाधकः स्यात् । एतेन मया प्रसङ्गार्थ
मनङ्गीकारादित्यपि निरस्तम् । न हि जीवनाय भक्ष्यमाणं विषं न हिनस्तीति शक्यम् ।
तस्माद् भौतार्गलयुगलसमानमेतदुभयपरिजिहीर्षयोभयपक्षालम्बनं मन्दमेधसा
मिति ।

प्रयोगः, यद् यन्मात्रनिमित्तं तत् तस्मिन् सति भवत्येव, यथा चक्षुरादि
सामग्रीमात्रनिमित्तं ज्ञानजन्म, भेदाभेदमात्रापेक्षं च यथोक्तदोषजातमिति स्वभावहेतुः ।
तन्मात्रनिमित्तत्वमन्यानपेक्षत्वेन व्याप्तम्, तत्संभवेऽपि च तदभावे तद्विरुद्धमन्या
पेक्षत्वं स्यादिति व्यापकविरुद्धोपलब्ध्या विपर्ययान्निवर्तमानं तन्मात्रनिमित्तत्वं तस्मिन्
सति भावे नियम्यत इति व्याप्तिसिद्धिः । नाप्यसिद्धिस्तन्मात्रापेक्षायाः । न ह्यभेद
मात्रातिरिक्तं सहोत्पादनिमित्तमुपपद्यते । भेदमात्रातिरिक्तं वा पृथक्प्रकाशस्य दृश्यत्वे ।
182
अयोगुडदहनयोः क्षीरोदकयोर्वा भेदेऽप्यभवन् प्रकाशभेद इतरसापेक्षः सिद्ध इति
चेत्—न, अभ्रान्तेन्द्रियज्ञानस्य प्रकृतत्वात् । तत्र भिन्ने एव वस्तुनी एकीकृत्य प्रतिपद्यमानं
ज्ञानं कथमभ्रान्तं नाम ?

एतेन चन्द्रद्वयप्रतिभासो व्याख्यातः । अथोभयकारणारब्धमेकमेव तद् वस्तु
संजातमिति मतिः, तदा व्यभिचार एव नास्तीति सिद्धं तन्मात्रापेक्षत्वम् । स्यादेतत् ।
तन्मात्रापेक्षस्यापि तद्भावेनावश्यम्भावः, यथा कटुकमधुरद्रव्यभाविनोरपि पित्त
श्लेष्मणोः । तदयुक्तम्, वीर्यविपाकापेक्षयापि तदतत्कार्यकरणसंभवाद् द्रव्याणाम्,
रसमात्रापेक्षातिपातात् पित्तादेरिति ॥

॥ भेदाभेदपरीक्षा समाप्ता ॥