201

६ ॥ अपोहप्रकरणम् ॥

अपोहः शब्दलिङ्गाभ्यां प्रकाश्यत इति स्थितिः ।
साध्यते सर्वधर्माणामवाच्यत्वप्रसिद्धये ॥

स्थितिर्व्यवस्था । प्रसाध्य? काश्यत इत्यन्तेनापोहोऽत्राभिधेय उक्तः । शेषेण
तत्प्रसाधनफलम् । अथवा यदाचार्यैरपोहः शब्दादिना प्रकाश्यत इति व्यवस्था क्रियते
तदेतदर्थमित्यर्थः । उभयथापि सर्वधर्मानभिलाप्यत्वप्रतिपादनपरमपोहव्यवस्थापन
मित्युक्तं भवति ।

नन्वपोहः शब्दलिङ्गाभ्यां प्रकाश्यत इत्यनुभवबाधितमेतत् । तथा हीह
महीधरोद्देशे वह्निरस्तीति शब्दाल्लिङ्गाद् वा प्रतीतिर्विधिरूपमेवोल्लिखन्ती लक्ष्यते ।
नानग्निर्न भवतीति निवृत्तिमात्रमामुखयन्ती । यच्चानुभवबाधितं न तत्र साधनान्तर
चिन्ता, सर्वप्रमाणपौरुषस्य तत्रैव विश्रामात् 8b तत्प्रसूतेस्तत्फलत्वाच्च । न हि
प्रत्यक्षोपकारनिरपेक्षः प्रमाणान्तरोदयः । नापि प्रमाणान्तरोदयमात्रेण कृतार्थः
प्रमाणानुसारी यावन्न तदुपनीतसाधनार्थक्रियानुभवः । तस्मात् तदनपेक्षायामसामर्थ्य
वैयर्थ्यग्रस्तं प्रमाणान्तरं स्वयमेव न किञ्चिदिति न तेन साधिते बाधिते वावकाश
मासादयति । तत्कथमपोहः शब्दादिगोचर उच्यते ?

अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः, तथापि निवृत्तपदार्थोल्लेख एव
निवृत्त्युल्लेखः । न ह्यनन्तर्भावितविशेषणप्रतीतिर्विशिष्टप्रतीतिः । ततो यथा सामान्य
महं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणाद् विकल्पबुद्धिः सामान्य
बुद्धिः परेषाम्, तथा निवृत्तप्रत्ययाक्षिप्ता निवृत्तिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति
चेत् ? ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था, तत्
किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः ? ततो निवृत्तिमहं
प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारणस्फुरणं यदि स्यात्, को नाम निवृत्तिप्रतीति
स्थितिमपलपेत् ? अन्यथा वा तत्प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि
202
तुरगबोध इत्यस्तु । अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तम्, तथापि
यद्यगवापोढ इतीदृशाकारो विकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु, किं तु
गौरति प्रतीतिः । तदा च सतोऽपि निवृत्तिलक्षणविशेषस्य तत्रानुत्कलनात् कथं
तत्प्रतीतिव्यवस्था2431 ?

तदेतदायातम्, स्फुरतोऽपि विधेर्न विषयस्थितिरपोहस्य पुनरस्फुरतोऽपीति क
एष न्यायः ? तथा च निश्चयैर्यन्न निश्चीयते रूपं तत्तेषां विषयः कथम् ? न च विकल्पे
अस्फुरतस्तेन निश्चयनं नाम । यद्विधिरूपं स्फुरितमन्तर्मात्रायां तस्य परापोहोऽप्यस्तीति
तत्प्रतीतिरुच्यते । तत्रापि सम्बन्धमात्रमपोहस्य । विधिस्तु साक्षान्निर्भासीति न
पूर्वदोषान्मुक्तिः । अपि चैवमध्यक्षस्याप्यपोहविषयत्वमनिवार्यम्, विशेषतो विकल्पाद्
एकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य । तस्माद् विध्याकारावग्रहाध्यक्षवद्
विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वम्2432

यत् पुनरन्यस्मादपोह्यते, अपोह्यतेऽन्यदस्मिन् वेति विजातिव्यावृत्तं बाह्यमेव
बुद्ध्याकारोऽन्यापोह इति गीयते । तेन न कश्चिदुपयोगः, अपोहनाम्ना विधेरेव
विवक्षितत्वात्, न च नामान्तरकरणे वस्तुनः स्वरूपपरावृत्तिः । तस्मादनुभवानुसाराद्
विधिरूपमेव बाह्यं शब्दादिगम्यमस्तु । शास्त्रं च, अत्र द्वौ वस्तुसाधनावेकः प्रतिषेध
हेतुः ।

अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेऽनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥
2433

यदि च नञप्रयोगवत् 9a 2434 अभावमात्रस्यैव हेत्वन्तरादपि प्रतीतिः, तदा
नानुपलम्भाद् भेद इति लिङ्गविभागपूर्वकाशेषव्यवस्थादौस्थ्यमायातमिति कथमपोहः
शब्दलिङ्गाभ्यां प्रकाश्यत इत्युच्यत इत्यत आह, स्थितिरिति । व्यवस्थामात्रमेतत् ।
मुख्यतयापोहः शब्दादेर्विषय इति नेदं वस्तुतत्त्वमित्यर्थः । किं पुनरत्र वस्तुतत्त्वमिति
चेत् ?
203

शब्दैस्तावन्मुख्यमाख्यायतेऽर्थ
स्तत्रापोहस्तद्गुणत्वेन गम्यः ।
अर्थश्चैकोऽध्यासतो भासतेऽन्यः
स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ॥

इति प्रकरणार्थसंग्रहः ।

न खलु शास्त्रमनुभवं परिभूय भवितुं क्षममिति विधिरूपमामुखयन्नेव विकल्प
उपजायत इति तावन्न शक्यमपह्नोतुमिति प्रथमपादार्थः । नञ्योगे विवादाभावान्न तत्र
चिन्ता । शब्दैरिति चोपलक्षणम् । लिङ्गः प्रतिपाद्यते विकल्पैर्विषयीक्रियत इत्यपि
द्रष्टव्यम् । एवं सत्यास्तामपोहस्य वाच्यता, तद्व्यवस्थामात्रमपि विलुप्तम् । सा
स्थितिरपि हि द्विधा विधीयते, सन्निकर्षात् प्रयोजकाच्च । तत्र यद्यपि सर्वधर्मानभिलाप्य
त्वप्रतिपादनं प्रयोजकमुक्तम्, न तु सन्निकर्षः कश्चिदित्याशङ्क्याह,—तत्रापोह इति ।
विधौ हि मुख्यतया प्रतिपाद्यमाने तद्विशेषणतयोपसर्जनत्वेन गम्यत एवापोहः । तत्र
तद्गुणत्वेनेत्यर्थसन्निकर्षः । गम्यत इति प्रतीतिसन्निकर्षः । ततश्चार्थसंबद्धः प्रतीयमानश्च
अपोहो मुख्यप्रतीतिकमपि विधिं तिरस्कृत्य प्राधान्येन स एवाभिधेय इत्युच्यते, उक्त
प्रयोजनात् । अथवा तद्गुणत्वेनैव गम्यो न मुखत्वेनेति साक्षादपोहवादिनो निरस्ताः ।
यद्यपि चान्यापोहादिशब्दानुल्लेख उक्तस्तथापि नाप्रतीतिरेव विशेषणभूतस्यापोहस्य,
अगवाद्यपोढ एव गवादिशब्दस्य निवेशितत्वात् । शास्त्रं हि,

निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् ।
2435

इत्यादि । यथा हि नीलोत्पले निवेशितादिन्दीवरशब्दात् तत्प्रतीतौ नीलिमस्फुरणमनि
वार्यम्, तथा गोशब्दादप्यगवापोढे निवेशिताद् गोप्रतीतावगोऽपोहस्फुरणम्
अनिवार्यम्2436

ये पुनरगोऽपोहे गोशब्दसङ्केतविधावन्योन्याश्रयणं ग्राम्यधन्धीकरणमुद्भाव
यन्ति, तेऽपि सामान्ये सामान्यवति वा सङ्केतवादिनः कथमतो दोषान्मुच्यमान
मात्मानं पश्यन्ति ? तथा हि सामान्यं नाम न सामान्यमात्रमभिप्रेतम्, तुरगेऽपि
गोशब्दसङ्केतप्रसङ्गात्, किं तु गोत्वसामान्यमभिप्रेतम् । तावता च गोत्वसामान्ये
204
तद्वति वा गोशब्दसङ्केत इत्यर्थनिष्ठायां स एव दोषः, गवापरिज्ञाने गोत्वसामान्या
परिज्ञानात्, गोत्वसामान्यापरिज्ञाने गोशब्दवाच्यापरिज्ञानात् । अथ गोत्वे तद्वति वा
गोशब्द इतीदृशाक्षरेण यदि सङ्केतस्तदा दोषः । यदा तु 9b पुरः स्थितं पिण्डमेक
मुपदर्श्य देशकालान्तरविप्रकीर्णाशेषव्यक्तिसाधारणरूपविकल्पस्थायिनं प्रकरणादेः
प्रतिपत्तारमवधार्यायं गौरिति सङ्केतः, तदा यत्रैवासौ तत् साधारणं रूपं निरूपयति
तमेव गोशब्देन व्यवहरतीति कथं मिथः प्रार्थनादोषः ? तावता च गोत्वे तद्वति वा सङ्केत
इति व्याख्यातॄणां सिद्धान्तानुवाद एषः, न तु सङ्केतकर्तॄणामुपदेशक्रमस्तादृगिति चेत् ?

एवं तर्हि यद्यगवापोढे गोशब्द इतीदृशाकारं सङ्केताकारकीर्तनं तदाऽयं दोषः ।
यदा तु विवक्षितव्यक्तिष्वेकाकारप्रत्यवमर्शवर्तिनि प्रकरणादवधारिते प्रतिपत्तरि
सङ्केतकरणमयं गौरिति, तदा क्व दोषावकाशः ? स हि स्वविकल्पतल्पशायिनीः सकल
व्यक्तीरगोव्यावृत्ताद्यक्षरमनपेक्ष्य स्वयं तद्विजातीयाशेषव्यक्तिव्यावृत्ता गोशब्दवाच्याः
प्रतिपद्यमानो यत्रैव विजातीयव्यावृतिं प्रतिपद्यते ता एव गोशब्देन व्यवहरतीति,
तावता अगाव्यावृत्ते गोशब्द इति सिद्धान्तानुवाद एव न सङ्केताकारः, अभिमते
गोशब्दवृत्तावगोशब्देन शेषस्याभिधातुं शक्यत्वात् । स तु विजातीयव्यावृत्तः साधा
रणाकारो विकल्पे सामान्यस्य प्रतिभासो व्यक्तेर्वा स्वात्मैवेति पश्चान्निश्चेष्यते ।
इतरेतराश्रयस्तु नास्तीति सिद्धम् । सिद्धं च पुण्डरीकशब्दश्रुतौ श्वेतशतपत्रप्रतिपत्तिवद्
गाशब्दश्रुतावप्यगवापोढप्रतीतौ जातिवादिनाप्यवश्याभ्युपगन्तव्यमपोहविशेषणशेमुषी
नान्तरीयकत्वं विधेरिति । न च संबन्धगन्धमात्रं साक्षादेव द्वयोः प्रतीतिर्मुख्योप
सर्जनभावेनेति भेदः । धर्मवाची वा गुणशब्दः, अन्यापोहधर्मणो विधिरूपस्य
प्रतीतेः ।

यत् तृतीयाकारस्यारोपितबाह्ययोरन्यनिवृत्तिकृतं सादृश्यं दूषयन् वाचस्पति
राह2437—न च स्वलक्षणधर्मो व्यावृत्तिर्भवद्भिरभ्युपेयत इति, तद् दुष्टमेव । अथ भावि
कीति विवक्षितं तत्रेति चेत् ? तथापि नोपयोगः, कल्पनारूढस्यैव धर्मिधर्मभावस्येष्ट
त्वात् । केवलं किं न विधिनैव व्यपदेशः प्रत्यक्षस्यापि वा परापोहविषयत्वव्यवहार
प्रसङ्ग इत्यवशिष्यते ।

अत्र ब्रूमः । इह काचिद् व्यवस्था तत्त्वलेशमाश्रित्य प्रयोजनबिशेषादन्यथा
स्थितावप्यन्यथा क्रियते, यथात्मतदुत्पाद इति । उत्पादो हि प्रागभावविशिष्टस्य वस्तुनः
205
सत एव धर्मः । अथ च प्रागभावलक्षणतत्त्वलेशमाश्रित्यासत इति व्यवस्थाप्यते
सत्कार्यवादशङ्कासङ्कोचाय । यथा वाऽनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यतीत्येक
सन्तानप्रज्ञप्तिमाश्रित्य कृतनाशाकृताभ्यागमवञ्चना विमोहाय, तथाद्यापि विधिविषया
भिधानं 10a वस्तुतो वस्तुन एव परारोपितवाच्यतास्वीकारशङ्कानिराकरणाय
नान्तरीयकप्रतीतिरप्यपोह एव विकल्पविषय इति व्यवस्थाप्यते । अतो न विधिनैव
व्यवहारः । यदा त्वपोह एव मुख्यार्थः शब्दस्येत्यारोपः, तदा विधिरपि पुरस्क्रियते ।
यथोक्तम्,

शब्दैस्तावन्मुख्यमाख्यायतेऽर्थ इति ।

प्रत्यक्षे तु विवादाभावान्नैवं व्यवस्थेति युक्तम् । अन्यापोहविशेषणं तु विधिस्तत्रातिशयो
नेत्युक्तमेव । शास्त्रं हि,
तत् परिच्छिनत्ति ततोऽन्यद् व्यवच्छिनत्तीत्यादि ।

निषेध्यापेक्षया तु तत्रानुपलब्धिशब्देन निषेधव्यापारः पुरस्क्रियत एव । यथा वा
विधिवृत्तेरग्रहणं नाम प्रसज्यपक्षे नियतरूपानुभवादभावविकल्पोत्पादनशक्तिरेव,
तथा विधिविकल्पानामपि तन्त्रेऽनुरूपानुष्ठानदानशक्तिरेव निषेधग्रहणमग्निर्मया प्रतीत
इत्यनुव्यवसायप्रसवशक्तिश्च । पर्युदासपक्षे च नियतस्वरूपसंवेदनमेवोभयत्र निषेध
ग्रहणम् । उभयं चैतदभिमतं शास्त्रकारस्य । क्वचित् तस्य प्रस्तावानुरूपं प्रसज्य
प्रतिषेधाधिकारेण,
रूपे तस्य न किञ्चनेत्यादीनि

वचनानि, क्वचित् त्वतद्रूपपरावृत्तवस्तुमात्रप्रसाधनादित्यादीनि पर्युदासाश्रयाणि ।
नत्वेकनियमः । ततो यट्टीकाकारः स्वापोहसिद्धौ तदर्थावतारतरलस्त्रिलोचनश्चा
वोचताम् आचार्यः प्रसज्यप्रतिषेधवल्लभ उन्नीयत इति तन्निराकृतम् । न च भेदाभावात्
विशेषणव्यवहारहानिः, राहोः शिरः गोत्वं सामान्यमित्यादिवद् विवक्षाकृतस्य
अनपायात् । किं च व्यवह्रियत एव भवतापि घटाभावप्रदेशयोः पिशाचत्वाभाव
स्तम्भयोर्वा विशेष्यविशेषणभावः । तत् कथमस्माकं निषेधे निःस्वभावाभाववादि
त्वादिति चेत् ? नेदानीं स्वरूपनिरूपणमभावस्य, किं तु प्रतीतिनिरूपणम् । सा च
शक्या अपह्नोतुम् । पर्युदासपक्षेऽपि तद्विधिरेवान्यनिषेध इति न प्रतीतिक्षतिः ।
नापि विशेषणभावस्य । अनेनैव वाक्येन विधिनिषेधयोः सामानाधिकरण्यप्रदर्शनात् ।
206
अतएव विरोधचोद्यमप्यवद्यं न, स्वाभावेन हि विधेर्विरोधो, नान्याभावेन, सहैव स्थानात् ।
तस्माद् युक्तमुक्तम्,
तत्रापोहस्तद्गुणत्वेन गम्य इति ।

अथवा तस्यार्थाख्यानस्य गुणोऽयमेव यदन्यनिषेधनं नाम, तेनासौ गम्यत इति
व्यवहर्तव्यम् । यच्छास्त्रम्, तदन्यपरिहारेण प्रवर्तेतेति शब्दनियोगः, व्यर्थोऽन्यथा
प्रयोगः स्यादिति । एतेन तात्पर्यार्थत्वमपोहस्य दर्शितमव्यापित्वपरिहारश्च । एष पन्थाः
श्रुध्नमुपतिष्ठत इत्यत्रापि प्रकृतपथान्तरापेक्षयैष एव । श्रुध्नप्रत्यनीकानिष्टस्थानापेक्षया
श्रुध्नमेव । अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव । सार्थदूतादिव्यवच्छेदेन पन्था
एवेति सुलभो नियमः2438 । तर्जनीनिर्देशाद् गतार्थः पन्था एवेति चेत् ? परव्यवच्छेदः
तावदस्तीष्टश्च । प्रयोगस्तु गतार्थस्यापि लोके दृश्यत एव । अभ्यागच्छति, 10b
ब्राह्मणौ द्वावित्यादिवत् । यथा हि सार्थपुरुषादिव्यवच्छेदेन कः पन्थाः श्रुध्नमुपतिष्ठत
इति प्रश्नः, तथोत्तरमप्येष पन्था इति । सर्वत्रैव हि प्रतिपाद्यशङ्काङ्कितस्यैव विधि
प्रतिषेधाविति । यदि च शब्दश्रुतिकाले कलितो न परापोहः कथमन्यपरिहारेण
प्रवृत्तिः ? ततो गां बधानेति चोदितोऽश्वादीनपि बध्नीयात्2439

यत्तु गोः प्रतीतौ न तदात्मा परात्मेति सामर्थ्यादन्यापोहः पश्चान्निश्चीयत इति
मतम्—तदसङ्गतम्, प्राथमिकस्यापि प्रतीतिक्रमादर्शनात् । न हि तत्कालव्युत्पन्न
सङ्केतोऽपि गामानयेत्युक्तः परतो निवृत्तावर्थापत्तिमनुसरति । न च गोशब्दादन्याव
कोर्णप्रतिपत्तौ गोनिश्चयो युक्तः । तथा प्रतिपत्तौ वा पश्चादपि कथमर्थापत्तेरुदयः ?
पररूपपरिकरो हि गौर्गृहीतः । कथं स तदनाकीर्णतासमर्थने समर्थः ? तस्माद् गोः
प्रतीतिरित्यगोऽपोढप्रतिपत्तिरुच्यते । अतः स्वार्थप्रतीतिकाल एवार्थान्तरापोहस्य प्रतीति
कालः, चन्द्रप्रयोगे चन्द्रप्रतीतिकालवदवदाततायाः । यथा च शुक्लिमाप्रतीतौ कीदृशीन्दु
प्रतीतिः, पररूपसङ्कीर्णप्रतीतावपि कीदृशी गोप्रतीतिरिति समानम् । नापि न सङ्कीर्णं
नासङ्कीर्णमवगन्तुं शक्यं वस्तु, पश्चादपि सामर्थ्यस्याशक्यत्वाच्च । तस्मान्न निषेध
बोधायार्थसामर्थ्यालम्बनं श्रेयः ।

यदप्युवाच वाचस्पतिः2440,—जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः,
तासां च तद्वतीनां रूपमतज्जातीयव्यावृत्तमित्यर्थतस्तदवगतेर्गा बधानेति चोदितो
207
नाश्वादीन् बध्नातीति, तदप्यनेनैव निरस्तम् । यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां
रूपमतज्जातीयव्यावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां
कथमतद्व्यावृत्तिप्रतोतिपरिहारः ? अथ न विजातीयव्यावृत्तं व्यक्तिरूपं तथाप्रतीतं
वा तदा जातिप्रसाद एष इति कथमर्थतोऽपि तदवगतिरित्युक्तप्रायम् ।

अथ जातिबलादेवान्यतो व्यावृत्तम्, सा तर्हि पूर्वमप्यासीदेवेति पूर्वं न समर्था,
तन्निश्चये पश्चादपि कथम् ? सङ्केतस्मरणसहकार्यपेक्षा हि नामयोजनायामेव, विजातीये
तरकल्पना तु दर्शनमात्राधीना बालादिवदिति यत्किञ्चिदेतत् ।

यदि वा गुण्यतेऽभ्यस्यत इति गुण उपादेयो धर्मस्तेन प्राधान्यमत्र लक्षणीयम्,
ततः स एव गुणोऽपोह एव प्रधानं येषु शब्देषु तद्भावेनापोह एव भाववाचिषु शब्देषु
गम्य उच्यते, न विधिः स्फुरन्नप्यप्रधानवत् । तथा हि विजातीये सर्वत्रादृष्ट्यपेक्षत्वात्,
क्वचित् तु दृष्ट्यपेक्षणात्मजातीये श्रुतौ संबध्यतेऽपोह इति शास्त्रम् । अपि च,
उभयावभासेऽपि यथावभासप्रमेयाभावादन्यनिवृत्तेस्तु भावनियमान्निवृत्तिरेव प्रधानम् ।
यच्छास्त्रम्,

वस्तुरूपस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं स हि तत्रेति ।
प्र. वा. ३. १३२

अभाववाचिषु 11a पुनर्वस्तुनोऽसत्त्वादेव । यच्छास्त्रम्,
रूपाभावादभावानां शब्दा रूपाभिधायिनः ।
नाशङ्क्या एव सिद्धास्ते व्यवच्छेदस्य बोधकाः ॥
प्र. वा. ३. १८४—५

इति । यद् वा तस्मिन्नपोहे पर्युदासेनापोढाकारे वा वाच्ये स्थितो गुणो दोषनिषेधो येषां
शब्दानां तद्भावेनापोढ एव वाच्य उच्यते । यथाह,
निवृत्तेर्निःस्वभावत्वान्न स्थानान्तरकल्पना ।
उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा ॥
प्र. वा. ३. १६८—९
208
इति । एवमपोहस्य वाच्यताव्यवस्थायां निमित्तान्यभिधीयमानानि शास्त्रेऽपोहस्य
शब्दान्मुख्यस्फुरणविरोधीन्यूहनीयानि भाववाचिषु । अभाववाचकाधिकारे चायमेव
मुख्यो विवेक इत्युक्तम् । भाववाचिषूपसर्जनतया विवेकस्यामुख्यतां ख्यापयति । विशेषतो
ह्येष बोद्धव्यः । अभाववाचिषु पदार्थ एवापोहः । भाववाचिषु पुनः पदार्थस्यान्यतः
अपोहः, पदार्थवच्चान्यस्य । एनयोश्चोक्तिमात्रेण भेद इति । यदि तथाविधनिबन्धना
धीनाऽपोहस्य वाच्यताव्यवस्था, अर्थ एव तु मुख्यमाख्यायते, हन्त तर्हि सर्वधर्मानभि
लाप्यतासमयोऽस्तमयमायातः, तदर्थश्च समारम्भ इति सूचितम् ।

यच्चोक्तं वस्तुवाच्यतारोपनिषेधार्थमपोहस्य प्राधान्येनाभिधानव्यवस्थेति, तत्रापि
स्वयमर्थवाच्यतैव स्वीक्रियते, परस्य त्वन्यथोपदिश्यत इति महती प्रेक्षतेत्याशङ्क्याह,

अर्थश्चैक इत्यादि ।

अयमर्थः, अर्थो हि द्विविधः बाह्य आन्तरश्च, अन्यस्याभावात् । तत्रैकस्तावद् बाह्यः
अध्यवसायादेव वाच्यो व्यवस्थाप्यते, न स्वलक्षणपरिस्फूर्त्त्या2441 । कथमिति चेत् ?
अनुभवादेव । यथा हि प्रत्यक्षचेतसि देशकालावस्थानियतानि परिस्फुटरूपाणि
स्वलक्षणानि प्रतिभान्त्यनुभूयन्ते, तथा न विकल्पकाले । विकल्पकाले हि विजाति
व्यावृत्तमेव परस्पराकाराकीर्णमिवास्फुटमिव प्रत्यक्षापरिचितं किञ्चिद्रूपमाभासमानम्
अनुभवविषयः । 2442यच्छास्त्रम्,
शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात्
अर्थस्य दृष्टाविवेति,

उपायभेदादेकस्यैव प्रतिभासभेदः एकत्र हि बुद्धाविन्द्रियमाश्रयोऽन्यत्र शब्दादीति चेत् ?
अत्राप्युक्तम्,
जातो नामाश्रयोन्यान्यश्चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥
प्र. वा. २. २३५

न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्धे एकस्य वस्तुनः स्तः, यत एकेनेन्द्रियबुद्धौ प्रति
भासेतान्येन विकल्पे, तथा सति वस्तुन एव भेदप्राप्तेः । न हि स्वरूपभेदादपरो
209
वस्तुभेदः, न च प्रतिभासभेदादपरः स्वरूपभेदः । अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात्2443
ननु दूरासन्नदेशवर्तिनोरेकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेऽपि न शाखिभेदः,
अर्थक्रियाभेदाभावादित्यर्थक्रियाभेदोपकृत एव प्रतिभासभेदो भेदकः ।

न चेहार्थक्रियाभेद इति कथमिन्द्रियशब्दाभ्यां जनितज्ञानविषयो गवादिर्भेद
भागिति चेत् ? न ब्रूमः प्रतिभासभेदो भिन्नवस्तुनियतः, किं तु एकविषयत्वाभाव
नियत इति । 11b तथा हि, यो यः क्वचिद् वस्तुनि प्रत्यक्षप्रतिभासाद् विपरीतः
प्रतिभासो नासौ तेनैकविषयः, यथा घटग्राहकात् पटप्रतिभासः, यथा वा शङ्खग्राहकात्
पीतप्रतिभासः । तथा च गवि प्रत्यक्षप्रतिभासाद् विपरीतः प्रतिभासो विकल्पकाले
इति व्यापकविरुद्धोपलब्धिः । एकविषयत्वं हि प्रतिभासाभेदेन व्याप्तम्, सव्येतर
नयनदृष्टवद् दृष्टम् । अव्याप्तितस्तु यदि प्रत्यक्षान्तरमपि विपरीतप्रतिभासं स्यात्, वस्तु
च द्विरूपं भवेत् । तच्च द्वयमपि नास्तीति व्याप्तिरेव । आश्रयभेदभाविनि च ज्ञाने
पक्षीकृते तद्विरुद्धः प्रतिभासभेदः सिद्धः । ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभास
भेदस्तत्र वस्तुभेदः घटपटवत् । तं पुनः सहायं विहाय प्रवृत्तो नियमेनैकविषयतां
परिहरतीत्येकोऽत्र भ्रान्त एव प्रतिभासः, शङ्खे पीतप्रतिभासवत् ।

तत्रापि शङ्ख एव विषय इति चेत् ? शुक्लतामस्पृशन्ती बुद्धिः शङ्खविषयेति
सुव्याहृतम् । शङ्खमात्रं प्रत्येतीति चेत्—न, ततः परस्य शङ्खमात्रस्यास्फुरणात् । पृष्ठ
भाविनि विकल्पे स्फुरतीति चेत् ? अस्तु, न तु निर्विकल्पः पीतप्रतिभासः शङ्खविषय
इति सिद्धम् । एवं दूरतः शिखरिणि पिण्डाकारप्रतिपत्तिरपि न पिप्पलादिभेदावसाय
समर्थपत्रादिविशेषविरहिणी वृक्षविषयेति प्रकृतसममेतत् । अर्थक्रियाभेदाद्यभावाच्च
न भिन्नोऽर्थं इत्येकस्यार्पिते भ्रान्तिभावे यदि न प्रत्यक्षप्रतिभासो भ्रान्तः, तदान्य
प्रतिभास एव भ्रम इति ब्रूमः । एवं पीताभासे गोविकल्पे च समानो न्यायः । ननु
क्वचित् कस्यचिदारोपः कुतश्चिद् सादृश्याद् भवति । न च विकल्पप्रतिभासवत्
संभिन्नाकारं जन्मान्तरेऽपि किञ्चिदुपलब्धम् ।

तत् कुतः कस्य क्व समारोपाद् भ्रमोऽयमिति चेत् ? अयमपरस्तवैव दोषः,
यदयं विकल्पेनाध्यक्षगम्य एव गोचरो नान्यगोचर इति निर्विषयोऽपि न भ्रमोऽभिधा
तव्यः । अस्माकं तु तद्विषयो न भवतीत्येतावतैव प्रकृतसिद्धिः । तदेवान्यथाख्यातीति
तद्गोचर एवेति चेत् ? यथा प्रत्यक्षपुरस्कृतेन रूपेणास्ति ततोऽतिरिक्तस्य वस्तुनोऽभावात्
210
कस्यान्यथाख्याने कर्तृत्वम् ? तत्तु न ख्यात्येवेत्यलं बहुभाषितया । तस्मान्न स्वलक्षण
प्रतिभासो विकल्पेष्विति न्यायः ।

तेन यदाह वाचस्पतिः2444, न च शाब्दप्रत्यक्षोयोर्वस्तुगोचरत्वे प्रत्ययाभेदः
कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति, तन्नोपयोगि । परोक्षप्रत्ययस्य वस्तु
गोचरत्वासमर्थनात् । परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः ।
ननु वस्तुविषयत्वे प्रत्ययाभेदप्रसङ्गः त्वयैवोक्त इति तत्परिहारेणैव वस्तुविषयत्वं
सिद्धम्, न चान्यद् वस्त्वस्तीति तद्विषयत्वं चेति चेत्—नैवं, यतः प्रतिभास 12a
वैजात्यस्यातद्विषयत्वेन व्याप्तिसाधनादसौ प्रसङ्गोऽस्मदीयः । अस्माकमपि व्याप्ति
विघटनायैव प्रयत्न एषः । कारणवैजात्यकृते प्रतिभासवैजात्ये संभविनि कुतो वा
तद्विषयत्वेन व्याप्तिरिति ? एतदपि कदा युज्यते ? तद्विषयत्वमात्रेण वा कारण
भेदो व्याप्तः शक्यो दर्शयितुम् । तत्तावन्नास्ति, कारणभेदस्य वस्तुनोऽप्रतीत्यैव
चरितार्थत्वात् । अथ न गवो? सत्योद्भावनमेतत् कारणभेदादपि संभाव्यते प्रति
भासभेदस्तद्विषयत्वेऽपीति । संभाव्यतां तर्हि गान्धारमधुरबोधयोरप्येकविषयत्वं,
कारणभेदस्य तत्रापि संभवात् । निर्विकल्पसविकल्पयोरग्नित्वमात्रोल्लेखोऽस्तीत्येक
विषयताश्वासः । तत्र तु न गान्धारत्वस्य न वा मधुरत्वस्य तदुभयबोधयोरुल्लेख इति
चेत् ? अहो निरुढता महती । आत्यन्तिककारणवैजात्यस्य हि फलमेतत् । एकविषय
त्वाश्वासः पुनरन्ततो वस्तुन उल्लेखाद् भविष्यति । सन्देहे कारणवैजात्येऽवान्तरस्याग्नि
त्वादेरुल्लेखः । आत्यन्तिके तु सर्वसाधारणस्य धर्मस्येति न तावतैवातद्विषयत्वम् ।
अस्ति चावास्तवधर्मस्य माधुर्यस्यानुवृत्तिर्गान्धारेऽपि ।

अन्यादृशं तन्माधुर्यमिति चेत् ? विकल्पन्यस्तस्याप्यग्नित्वमन्यदेव । न चैकरूपे
अप्युल्लिख्यमानेऽवान्तरधर्मप्रतिभासयोरेकविषयत्वम्, शुक्तिरजतवत् । न हि शुक्ति
प्रतिभासो रजतविषयो रजतप्रतिभासो वा शुक्तिविषयः साधारणधवलतोल्लेखेऽपि ।
तस्माद् यथाऽग्निविकल्पे वस्तुस्फुरणेऽप्यवान्तरधर्मस्य गर्दभत्वस्यास्फुरणात् न गर्दभ
विषयता, तथावान्तरस्याग्नित्वस्य स्फुरणेऽपि स्वलक्षणाकारस्य प्रतिनियतस्यास्फुरणात्
नान्यद्रव्यस्फुरणमिति न्यायः, स्वलक्षणस्यैवाग्निद्रव्यत्वात् । ततः कारणभेदो ज्ञान
प्रतिभासस्य भेदकोऽस्तु । वस्तुविषयत्वं तु न द्वयोरपि प्रतिभासयोरिति स्थितमेतत् ।
तस्मान्न स्वलक्षणं विषयः शब्दादेरिति सिद्धम् ।

211

किं च एवं विधिनिषेधयोरपोहत्वादुच्चारणमेव न स्यात् । तौ हि धर्मिणो
वा स्याताम्, धर्माणां वा यथा वृक्षोऽस्ति नास्ति वा, वृक्षो नीलो न वा नील इति ।
तत्र प्रथमः पक्षस्तावन्नास्ति । भावाभावनियतो हि वृक्षो वृक्षशब्देन चोदित इति भाव
नियमपक्षेऽस्तीति व्यर्थम्, नास्तीत्यसमर्थम्, विरोधात् । अभावनिरूपणे तु विपर्ययः ।
अस्ति च वृक्षपदश्रुती विधिनिषेधापेक्षेति, भावाभावसाधारणीऽयं वृक्षपदाद् वृक्ष
प्रतिभासो न बाह्यो वृक्ष इति न्यायः ।

यत्तु न्यायदर्शने तात्पर्यटीकाकारेण जातिमद्व्यक्तिवाच्यतां स्ववाचैव प्रस्तुत्य
अनन्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते, सा हि स्वरूपतो
नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणी भवन्त्यस्ति
नास्तिसंबन्धयोग्या । वर्तमानव्यक्तिसंबन्धिता हि जातेरस्तिता । अतीतानागतसंब
न्धिता च नास्तितेति । सन्दिग्धव्यतिरेकित्वात् 12b अनैकान्तिकं भावाभाव
साधारण्यमन्यथासिद्धं वेति2445 विलपितम्, तावता तावन्न प्रकृतक्षतिः । जातौ भरं
न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात् ।

अपि च जातिरप्यस्त्यादिपदप्रयोगात् प्रागभिधीयमाना शब्देन वर्तमानव्यक्ति
संबद्धा वा अभिधेया, अतीतानागतव्यक्तिसंबद्धा वा, उभयसंबद्धा वा, असंबद्धा वेति
पक्षाः । न चैकत्रापि त्राणं प्राचीनचोद्यचतुरः क्षमते । प्रथमे पक्षे हि भावनियमः
द्वितीये त्वभाबनियमः । तृतीयेऽपि यदि सदसद्व्यक्तियोगादस्याः सत्त्वासत्त्वव्यव
हारमनोरथः, तथा यैर्यैराश्रयैर्वर्तमानव्यक्तियोगोऽस्या व्यवह्रियते, यैर्यैर्वातीता
नागतव्यक्तियोगः, तानाश्रयांस्तथैव प्रतिपादयेत् शब्दः । न ह्यन्यथोभयव्यक्तिसंबद्धा
प्रतिपादिता भवति । तथा च सति स एवास्त्यादिपदाप्रयोगप्रसङ्गः ॥

अथैवं मतिः यत् तदुभयव्यक्तिसंबन्धिरूपं तदस्याः शब्देन चोदितमेव, न तु
तत्संबन्धिनीनामुभयीनां व्यक्तीनां प्रतीतिः । न ह्येकसंबन्धिप्रतीतिः संबन्ध्यन्तरप्रतीति
मवश्यमन्वाकर्षति पुत्रादिप्रतीतिवदिति चेत् ? एवं सति संबन्धिनामप्रतीतौ न संबन्ध
स्यापि प्रतीतिः । यतः,

द्विष्ठसंबन्धसंवित्तिर्नैकरूपप्रवेदनात् ।
द्वयस्वरूपग्रहणे सति संबन्धवेदनम् ॥
2446
212
ततो यथा तत्त्वतः कस्यचित् पुत्रोऽपि पितृसंबन्धानवधारणे पुरुषमात्ररूपः प्रतीतो
धटवत् स्वतन्त्रः, तथा सामान्यसङ्खातमपि वस्तु स्वतन्त्रं प्रतीयमानं न सामान्यरूपतया
प्रतीतं भवतीति चतुर्थपक्षप्रतिक्षेपः । तदापि संबन्धिनामनाक्षेपादस्त्यादिपदाप्रयोगः
सिद्धः, स्वतन्त्रे हि तस्मिन्निश्चीयमाने तस्यैव भावाभावाभ्यामस्त्यादिप्रयोगेण भाव्यम्,
नान्यस्य । संबन्धावधारणेऽपि हि नैकसंबन्धिनो भावाभावाभ्यामितरस्यास्त्यादिपद
प्रयोगः । न हि चैत्रस्य भावाभावाभ्यां तत्पुत्रत्वेनावधारितोऽपि मैत्रोऽस्ति नास्ति
वेति संबन्धमर्हति, किं पुनः संबन्धाबोधि सामान्यम् ? अन्यादृशस्तत्र संबन्ध इति
चेत् ? कीदृशोऽपि वा भवतु, प्रतीतिमनारूढः पुनरसत्कल्प एवेति नान्यदोयभावा
भावाभ्यामयःशलाकाकल्पस्य प्रतीतस्यास्त्यादिपदप्रयोगो योगमन्वेति, अतिप्रसङ्गात् ।
स्वरूपं चास्य सदावस्थायि प्रतिपादितमित्यस्तिपदवैयर्थ्यं, नास्तिपदविरोधश्च तदवस्थः ।

तस्मान्नान्यथासिद्धं भावाभावसाधारण्यमैकान्तिकं च बाह्यविषयत्वसाधने
विकल्पप्रतिभासस्य । नियमवती हि विषयव्यवस्था निमित्तवत्तया व्याप्ता2447
न च विषयसदसत्ताप्रसाधनादन्यत् निमित्तमुपपद्यते, अतिप्रसङ्गाद् । ततस्तदभावे
व्यापकाभावादभवन्ती विषयवत्ता सदसत्त्वप्रसाधन एव नियम्यमाना तेन व्याप्तेति
तद्विरोधिनि कथमवतिष्ठेत् ? यज्ज्ञानं यत्र भावाभावसाधारणप्रतिभासं, न तेन तस्य
विषयवत्त्वम्, 13a यथा गोज्ञानस्याश्वेन । बाह्ये च भावाभावसाधारणप्रतिभासं
वृक्षविकल्पज्ञानमिति व्यापकविरुद्धोपलब्धिः । तद्विषयत्वव्यापकस्य भावाभावप्रसाधनस्य
हि विरुद्धं तदप्रसाधनरूपं साधारण्यम् । एवं जातिमद्व्यक्तिवचनेऽपि दोष एव ।
व्यक्तेश्चेत् प्रतीतिसिद्धिः, जातिरधिका प्रतीयतां मा वा, न तु तद्दोषान्मुक्तिः ।

यच्चोक्तं कौमारिलैः, सभागत्वादेव वस्तुनो न साधारण्यदोषः, वृक्षत्वं ह्यनिर्धारित
भावाभावं शब्दादवगम्यते, तयोरन्यतरेण शब्दान्तरावगतेन संबध्यत इति2448 । तत्रापि
वृक्षत्वमिति यदि जातिर्विवक्षिता, तदा तद्दषणेनैव निर्वृतिः । अथापरामृष्टभेदाभेदमेव
वृक्षत्वम्, तदा तदवश्यम्भावेऽभावे वा नियतं, शब्देन च तथैव ख्यापितमिति
किमस्त्यादिपदेनाद्यापि ?

स्यादेतत् । तन्नियतत्वेऽपि वृक्षत्वाङ्ग एव शब्देन चोदितो न सत्त्वासत्त्वाङ्ग
इति चेत् ? तयोरंशयोस्तर्हि भेदः काल्पनिकस्तात्त्विको वा ? काल्पनिकत्वे इयं
213
गव्यवस्तुनोव प्रतियती शाब्दी बुद्धिः कथं वस्तुविषयेति सिद्धम् । तात्त्विकत्वे वृक्षः
सन्निति सामानाधिकरण्यानुपपत्तिः, घटपटवत् । एकवस्तुनियतौ धर्माविति न्याय
दर्शनवित्प्रतिक्षेपो वक्ष्यते । भेदाभेदपक्षोऽपि क्षिप्तोऽन्यत्र । यच्चेदं न च प्रत्यक्षस्येव
शब्दानामर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्, विचित्रशक्ति
त्वात् प्रमाणानामिति । तदप्येकार्थत्वे भिन्नावभासदूषणेन दूषितम् । ततो यदि
प्रत्यक्षार्थप्रतिपादनं शब्देन तद्वदेवावभासः स्यात्, अभवंश्च न तद्विषयख्यापनं क्षमते ।
तदस्यापि विचित्रशक्तित्वं प्रमाणानां वस्तुस्वरूपानुभवाध्यवसायमात्रकृतमेव, नैकार्थत्वेऽपि
प्रतिभासभेदकृते, तद्भेदे एकार्थतायाः प्रमाणबाधितत्वादिति । तस्मादवस्थितमेतन्न
स्वलक्षणाभिधाने धर्मिणो विधिनिषेधायोग इति कृतं पदप्रयोगेणेति ।

नापि धर्माणां, वृक्षपदेन हि धर्मिणोऽध्यक्षवत् सर्वात्मना प्रतिपादितत्वात्
कोऽवकाशः पदान्तरेण नीलत्वादिविधिनिषेधयोः प्रमाणान्तरेण वा ? प्रत्यक्षेऽपि
प्रमाणान्तरापेक्षा दृष्टेति चेत् ? भवतु तस्याप्यनिश्चयात्मकत्वादनभ्यस्तस्वरूपविषये ।
विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तत्र किमपरेण ? अस्ति च शब्दलिङ्गान्तरा
पेक्षा । ततो न वस्तुस्वरूपग्रहः, किं त्वेकधर्मच्छायानुकारिविकल्पोदयसंवेदनमेवेति
सिद्धम् । न सिद्धम्, भिन्ना हि जात्यादयो धर्माः परस्परं धर्मिणश्चेति जात्येकधर्म
द्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्रतीतिरिति किं न भिन्नाभिधानाधीनो
धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरवबोधः ?

तदयुक्तम्, यदि हि भेदाद् धर्मिणः प्रतीतावपि न धर्माणां शब्दलिङ्गद्वारेण
बोधः, इन्द्रियद्वारेणापि मा भूत् । अथेन्द्रियस्य संयोगसमवायबलात् सन्निकृष्टे धर्मिणि
13b समवायादिसन्निकर्षभाजो धर्मा अपि प्रतीतिगोच रीभवन्तीत्युच्यते, लिङ्गस्यापीयं
सामग्री न खलु कलयापि हीयते । शब्दस्य तु यद्यपि न वाच्येन सह संयोगसमवायौ,
वाच्यवाचकभावलक्षणा तु प्रत्यासत्तिरिष्टैव, तदभावे वाच्यप्रतीतेरेवाभावप्रसङ्गात् ।
प्रतीतौ वा कीदृशी संयोगादेरपेक्षा ? एतच्च स्वाभाविकसंबन्धावलम्बिनामपि लिङ्गाद्
वस्तुप्रतीतौ तुल्यम् । न च शब्दद्वारेण प्रतीतौ प्रवृत्तिनिमित्तरोधिनी व्यवधानशङ्का ।
जातिमती हि व्यक्तिः सकृदेव शब्दादवसीयते भवताम् । क्रमेण त्वेकैकबोधान्न कदापि
जातिमद्व्यक्तिबोधः स्यात् । न च निश्चयक्रमोपलम्भः । तस्मात् जातिरधिका प्रतीयतां
नाम, व्यक्तिस्तु धर्मिणी प्रतीयमाना न स्वसमवेतगुणक्रियादीन् अप्रतिपाद्य स्वास्थ्यमासा
दयेत् । अन्यथा प्रत्यक्षेऽप्यपरोपाधिबुद्धिरनिबन्धना स्यात् ।

214

अथैवं सति शब्दैर्व्यक्तिबोधनमेवास्तु किमुपाधिसाहित्यस्वीकारेणेति चेत् ?
तत् किमिदानीं भवदुपगमवैयर्थ्यभयाद् भावैः स्वभावपरित्यागः कर्तव्यः ? तदय
मपरस्तवास्तु दोषो न वा, न तु क्वचिद् गोचरे ज्ञानसाधनैस्तत्संबन्धिनां बोधमसाध
यित्वा स्थातव्यमिन्द्रियवत् । अथेन्द्रियादेव तथा दृष्टमिति नान्यत्र प्रसङ्ग इति चेत् ?
एवं तर्हि तृणवह्निरिन्धनविकारक्रियानान्तरीयकधूमोत्पादनसमर्थो दृष्ट इति खादिर
स्तथा न स्यात् । सामान्येन तु व्याप्तिरुभयत्रापीति न विशेषः । ततो यदि खादिरे
विकारविरहस्तदा नासौ धूमोऽपि तु वात्यासंवलितधूलिनिवहः । न वा तत्र धूमध्वजः,
किं तु कान्तिमत्पद्मरागरत्नराशिरश्मिसंहतिरुच्छ्रायवती । यदि पुनरसौ धूमः स च
धूमध्वजः खादिरे वावश्यं विकार इति, तथा यद्यसौ धर्मिबोधस्तत्साधनश्च शब्दो,
नियतं तदाश्रयधर्मबोधदोषः । न चेत् तदाश्रयधर्मबोधः, तदा नासौ धर्मिबोधो नापि
धर्मिबोधनः शब्दः । यत् क्वचित् ज्ञानसाधनं तत् तदीयधर्माणां प्रतीतिसाधननियतं
यथेन्द्रियम् । तथा च लिङ्गशब्दौ परोक्षाभिमतस्य प्रतीतिसाधनाविष्टौ तवेति स्वभावः
प्रसङ्गहेतुः । न चैवं, शब्दलिङ्गान्तरापेक्षणात् । यन्न यत्समवेतधर्मबोधसाधनं न तत्
तस्य स्वरूपज्ञानजनकम्, यथा गोशब्दस्तुरगे, तुरगो वा गर्दभे, न बोधयतश्च गोधुलिधूमौ
स्वविषयाभिमतसमवेतधर्मान्तरमिति विपर्यये व्यापकानुपलब्धिः । जातिगुणक्रियादि
रहितस्य स्वप्नेऽपि दर्शनशङ्काविरहाद् वस्तुदर्शनं तत्सत्तामात्रभाविना धर्मान्तरज्ञानेन
व्याप्यत इत्युभयोरपि प्रयोगयोर्नानेकान्तः । भेदे एव हि जात्यादीनां विवादः ।
समवेतशब्दस्त्वभेदपक्षेऽपि कल्पनाबुद्धौ भिन्नवदाभासमानानामपृथक्प्रथनपरः । तद्
वरमभेद एव धर्माणामस्तु, 14a सर्वथा वस्तुप्रतीतिस्वीकारे धर्माणां प्रतीति
चोद्यस्य दुष्परिहरत्वात्, किमनुभवभ्रष्टभेदाभ्युपगमेन ? स्वभावा एव भावस्य
जात्यादयः ।

यत्तु भाषणं भूषणस्य, न च यत्स्वभावसंबन्धि स स्वभावः, तथा सत्यसंबन्धि
त्वमेव, न हि तदेव तेन साध्यत इति । तदसत् । स्वभावसंबन्धीत्यत्रैव स्वभावः
कस्यचिद्वस्तुनो विवक्षितः, न च तयोर्भेदः । भेदे हि स्वभावत्वमित्यलौकिकमेतत् ।
तत् कथं तदेव तेन संबद्धमिति परिहृतम्, अन्यथास्य स्वभाव इति षष्ठीनिर्देशानुप
पत्तेः । अथ स्वभाव इति जात्यादिरेवोच्यत इति न दोष एव, यदा जात्यादिकं
विविच्य वस्तुमात्रस्वभावपरामर्शः । न ह्यसौ वस्तुनः केवलस्य स्वभावो न वक्तव्यः ।
स एव च यत्स्वभावसंबन्धीत्यत्र विवक्षितः, संबन्धिशब्देन जात्यादेर्विवक्षितत्वात् ।
215
तस्माद् यतो यदभिन्नमपि कल्पनया भिन्नमेव दर्शितम्, तत् तस्य संबन्धीति व्यवहारो
दुष्परिहरः ॥

यच्च वाचस्पतिः2449, न चैकोपाधिना सत्त्वेन विशिष्टेऽस्मिन् गृहीते उपाध्यन्तर
विशिष्टतद्ग्रहः, स्वभावो हि द्रव्यस्योपाधिर्विशिष्यते, न तूपाधयो विशेष्यत्वं वा तस्य
स्वभाव इति । तदपि प्लवत एव । न ह्यभेदादुपाध्यन्तरग्रहणमासञ्जितम्, आकरेऽप्युप
कार्योपकारद्वारेण भेदं पुरस्कृत्यैव सर्वाकारग्रहणप्रसञ्जनात् । शक्तीनां तु शक्तिमतोः
अभेद उक्तः । तदनेनापि न स्पृष्टम् ।

यत्पुनस्तत्र दूषणं भूषणेन, 2450सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रसञ्जन
मुक्तम्, तदभिप्रायानवगाहनफलम्, तथा हीदमाकूतम् । स्वयं वक्ष्यमाणसमवाय
निषेधं स्थिरीकृत्य भवता नैयायिकप्रवरेण प्रत्यक्षकालेऽक्षसंबन्धमनुभवितरि धर्मिणि
धर्माणां जात्यादीनां भेदाभ्युपगमादुपकार्यतयैव तदुपकारकशक्त्यभेदात् प्रतिपत्तिरेषि
तव्या । न ह्यनुपकारे क्वचित् कस्यचित् प्रतिबन्धो भेदवत इति शक्त्यभेदापादन
मुखेनाह,

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥
प्र. वा. ३. ५३

इति । यत्तु शक्तिर्नाम सहजा जातिरौपाधिकी च सहकारिसाकल्यमतो भिन्नैवेत्या
लम्बनम्, तद्दूषयित्वा क्षणाभङ्गाध्याये कार्यक्रियाप्रवृत्त एव स्वभावः शक्तिरित्येव
निर्वाहितम् । उपकारश्च समानकार्यार्जनस्वभावोऽकार्यस्यापि संभवतीत्यपि तत्रैव
ध्वस्तम् । कार्योपकार्ययोरपि तत्त्वतो नास्त्येव भेदः, व्यवहारे पुनरपूर्वोत्पत्तौ सोहा
पोहात् कार्यता । पूर्वस्थिताभिमानविषये तु विशेषानुभवादुपकार्यतोच्यते । तत्त्वतस्तु
पूर्वस्थितश्चाधुना विशिष्टश्चेति विरुद्धमेव । तदिह स्थिराभिमतजातिपुरस्कारेण
चिन्तायां कार्यतानिष्ठ एवोपकार्यव्यवहारः, तत्त्वत एकार्थतया वेति न दोषः । तदेवम्
अवश्याभ्युपगन्तव्यायामुपकारलक्षणायां प्रत्यासत्तौ सूर्योपकार्यादिभिरनुभवव्यभिचारः
14b प्रसज्यायातः साधारण एवावयोः ।

216

यत्तु वाचस्पतिः, स्वाभाविकश्च संबन्धो व्यक्तेर्जात्या सह नोपकारमपेक्षत इति ।
तत्र न स्वाभाविको नाम यथा प्रसिद्धादन्य एव कश्चित् संबन्धः, किं तु संयोगादि
सत्तायामेव संबन्धिनोर्व्यभिचाराव्यभिचारेण वृत्तिभेदादौपाधिकः, स्वाभाविकश्च
सम्बन्ध इति व्यवस्थामात्रम् । एतद्विचारश्च व्याप्तिचर्चायामपेक्षितव्यः । यथा च
जात्था सह व्यक्तेस्तदव्यभिचारात् स्वाभाविकः संबन्धस्तथा जातेरपि व्यक्त्या सहा
व्यभिचारादेव,

निर्विशेषं न सामान्यं भवेत् शशविषाणवत्

इति न्यायात् । तदनयोः प्रत्यासत्त्यन्तराभावात् समवायस्य च कल्पनामात्रत्वाद्
यद्युपकार्योपकारकभावोऽपि परस्परमसन्नवनिबीजादिवत्, अव्यभिचारनियम एव
भेदाभ्युपगमव्यसनिनामतिप्रसङ्गादनुपपन्नः । उपकारे हि स्वभावस्तद्विशेषो वा
तन्नान्तरीयक इत्येवाव्यभिचारार्थो नान्यत्रेति नातिप्रसङ्गः ।

तदभावे तु द्विधा तत्परिहारः स्वभाववादं समवायबलं वावलम्ब्य । नाद्यः
पक्षः, सर्वस्य यत्र क्वचन दृष्टशक्तेर्विपर्यासनप्रसङ्गात् । दृष्टश्चोपकारो वह्निशिल्पिजलादौ
धूमकुम्भबलाकादेरव्यभिचारहेतुः । केवलं कालदेशाद्यपेक्षयेति विशेषः । ततो भेदेऽपि
स्वभावादेवाव्यभिचारो नोपकार इति ब्रुवता नियमेन सामर्थ्यमपोहितम् । द्वितीय
पक्षश्चासम्भवी, समवायस्यैवाभावात् । इहेदमिति बुद्धिसाधनो हि समवायोऽभ्युप
गतः, सा च बुद्धिर्न समानसङ्केतग्रहतिमिरनिकुरम्बकरम्बितदृशामुपादेया, सर्वस्य
सर्वार्थसिद्धिप्रसङ्गात् । इच्छामात्रपरतन्त्रोदयत्वाद् विकल्पानाम् । अन्यस्य च लोकस्य
नास्त्येव विवादपदे सर्वत्र सा बुद्धिः, कारणाभावात् । परस्पररूपासङ्कीर्णवस्तुद्वय
प्रतिभासो हि कारणमिहेदमिति सप्तमीप्रथमार्थविभागमुत्कलयतो विकल्पस्य,
कुम्भेऽम्भःसंभवेऽपि कुम्भमात्रोपलम्भिनः सकलान्यकारणकलापवतस्तदभावात् ।
तादृगवस्थस्य च पश्चाद् द्वितीयोपलम्भमात्रे भावात् । न चासौ द्वयप्रतिभासः
क्वचिदपि समवायविषयेऽस्तीति संयोगकल्पनाविषय एव तद्विकल्पविषयः । यत्रानात्म
रूपपरिहारेण नोभयोपलम्भो न तत्रेदमिहेति प्रतीतिरनुन्मत्तस्य, यथा पात्रवदरयो
रेकानुपलम्भे । नास्ति चात्मात्मीयरूपप्रतिभासभेदेन जातितद्वतोरनुभव इति कारणा
नुपलब्धिः । धूमाग्निवत् कार्यकारणभावस्य विवक्षितयोः साधनान्नानेकान्तः । तदमी
स्वयंकृतशब्देनार्थान्तरमुपकल्पयन्तस्तुरगतुलामनुपतन्तीत्येतदेव वक्ष्यति,
217

पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ।
प्र. वा. २. १४९

इति । ननु निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणमित्युक्तम्, तत् कथं न
स्वरूपद्वयप्रतिभास 15a इत्यसिद्धा कारणानुपलब्धिः ? तदेतत् पापीयः । न हि
प्रत्यक्षगम्येऽर्थे परोपदेशो गरीयान् । प्रतिभासोऽपि तथेति चेत् ? तदेतदायातम्,
एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु ।
साधारणं षष्ठमिहेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः ॥

इति । वयं हि तावच्चर्मचक्षुषः चक्षुषी सुदूरमुन्मील्य शतकृत्वो निरूपयन्तोऽपि नापरम्
उपलभामहे, भवतस्त्वदृष्टदेवताप्रसादात् तथा प्रतिभासेऽपि नेतरस्य तथा बोधसिद्धिः ।

तेन प्रत्यक्षमेव द्रष्टव्यं यदेकमनेकसाधारणं द्रट्रष्णां दर्शयतीत्याचक्षाणः
त्रिलोचनोऽप्यन्यलोचनेनेव वीक्षत इति लक्ष्यते । यच्चाह दृश्यमानापि जातिरपृथग्देश
वर्तित्वाद् व्यक्तितो भेदेन व्यक्त्यन्तरवन्न दृश्यत इति । तत्रापि दृश्यते जातिर्न तु
भेदेनेति ब्रुवता नियमादभेदेन प्रत्यक्षगोचर इत्युक्तं भवति । यथा च प्रत्यक्षेण गृहीतं
तवैव समस्तं वस्तु, न खलु तत्र बाधकसाधकयोर्योगः । ततश्च प्रत्ययानुवृत्तिस्तु
व्यक्तितः सामान्यं भेत्स्यतीत्युपपत्तिवर्णनमनवकाशम् । यथा स्पार्शनः प्रत्ययो
गन्धादिभ्यः स्पर्शं भिनत्तीत्यपि न युक्तमुक्तम् । न हि गन्धस्पर्शयोरप्यभेदग्राहि
प्रत्यक्षम् ।

एवं तर्हि भेदेन न दृश्यत इति भेदेन न व्यवसीयत इति व्याख्यायताम्, तदापि
दृश्यमानापि जातिरिति किं भेदेनाभेदेन वेति विवक्षितम् ? यद्यभेदेन, तदा व्यवसायो
भेदेनाभेदेन वास्तु, किमस्य चिन्तया, प्रत्यक्षेणाभेदस्य सिद्धत्वात् ? अथ भेदेन दृश्यमानेति
विवक्षितम् ? तत् पुनरशक्यम्, प्रतिभासभेदाभावस्योक्तत्वात् । युक्त्या साध्यते प्रतिभास
भेद इति चेत् ? तदेतत् लज्जाकरम् । यतः,

कस्यचित् प्रतिभासेन साध्यतेऽप्रतिभासि यत् ।
प्रतिभासोऽस्य नास्येति नोपपत्तेस्तु गोचरः2451
क्षणभङ्गाध्याये पृः १११
218
इति विवेचितमस्माभिरहेतुकाभावप्रस्तावे ।

किं च यद्येकाकारप्रतिभासेऽपि प्रतिभासान्तरं युक्तिसाध्यमभ्युपेयते, तदाऽनुष्णो
वह्निरिति न प्रत्यक्षबाध्यमभिधेयम्, अनुष्णप्रतिभासस्यापि तत्र संभवात्, व्यक्तौ
जातिप्रतिभासवत् ।

अनुष्णप्रतिभासस्य चित्रभानौ साधनाभावान्न साम्यमिति चेत् ? तथापि
संशयोऽस्त्विति कथमनुष्णस्य बाधकमध्यक्षम्, कथं च साधनाभावः, प्रमेयत्वस्य
विद्यमानत्वात् ? अव्यभिचारी हेतुरिति चेत् ? व्यभिचारोऽपि साक्षात् परम्परया
वा प्रत्यक्षादेव । तत्र च विपरीतप्रतिभासो निषेद्धुमशक्य इत्युक्तम् । यदि चानै
कान्तिकतया प्रमेयत्वान्न सिद्धिरनुष्णताया हेतुदोषात् तर्हि दृष्टमनुष्णोऽग्निरिति नायं
पक्षदोषः, ततोऽनुष्णत्वाबाधनात् । साधनमपि नाध्यक्षम् । उष्णमेव हि उष्णम् ।
न पुनरुष्णानुष्णम् । तस्मान्नियतप्रतिभाससंवेदनमन्यप्रतिभासस्य नियमेन बाधकम्
अभ्युपगन्तव्यमकामकेनापि, अन्यथा प्रवृत्तिसङ्करप्राप्तेः । तथा च,

न ह्ययमनलं 15b पश्यन्नित्यादि ।

ततो यदोधपतितैरुद्घुष्यते, जातिमतीषु व्यक्तिषु सङ्केते कृते यत्र यत्र जातिदर्शनं
तत्र तत्र तच्छब्दवाच्यताप्रतीतिरिति, तदसूत्रमम्बरं विडम्बयति, स्वलक्षणविलक्षणस्य
स्वप्नेऽप्यनुपलक्षणात् । अतएव स्वरूपमात्रेण गृहीतावुपाधितद्वन्तौ योजयतो विकल्पस्य
प्रामाण्यमिष्टं यत् तत्प्रत्यादिष्टम्, पूर्वं द्वयदर्शनस्यैवाभावात् । तस्मान्न कारणानुपलब्धेर
सिद्धिः । असिद्धिः पुनरिहेति प्रत्ययस्येति क्व समवायवार्ता ? वार्तं चैतद् व्यक्तेर्जात्या
सह स्वाभाविकः संबन्ध इति ? ततश्च यद्यप्युपाधितद्वतां भेदवादो दुष्परिहरः, तदा
उपकारलक्षणायामपि प्रत्यासत्तौ समानदेशस्यैव ग्रहणे वस्तुग्राहिणः शक्तिंरिति समानः
सूक्ष्मोपकार्यव्यभिचारपरिहारः ।

तस्मादेकधर्मद्वारेणापि वस्तुस्वरूपप्रतीतौ सर्वात्मप्रतीतेः क्व शब्दान्तरेण
विधिनिषेधावकाश इति किमद्यापि केवलवृक्षपदेन ? ततश्च क्व सामान्यसामानाधिकरण्य
विशेषणविशेष्यभावव्यवस्था ? यदा तु,

एकार्थश्लेषविच्छेदे एको व्याप्रियते ध्वनिः ।
लिङ्गं वा तव विच्छिन्नं वाच्यं वस्तु न किञ्चन ॥
219
यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ।
भवेन्नानाफलः शब्द एकाधारो भवत्यतः ॥
प्र० वा० ३, १२८—३०

वस्तुनि हि वाच्ये सर्वात्मना प्रतिपत्तेर्विधिनिषेधयोरयोगः । यदा पुनरनादिवितथ
विकल्पाभ्यासवासनावशादेकव्यावृत्त्याकारशेखरा बुद्धिरेव कुतश्चिद् वासनाप्रबोधाद्
उदयमासादयति, तदा वस्तुग्रहणसामर्थ्यभाविनामुक्तदोषाणां क्वावकाशः ? तथा हि
वृक्ष इत्युक्ते धवखदिरादिसाधारणरूपप्रतिभासवशात् सामान्यमवृक्षापोहपरमार्थम्
अवस्थाप्यते । तच्च रूपमप्रतिक्षिप्तानुपात्तसत्तासाद्वलत्वादिभेदतया पदान्तरप्रयोगसापेक्षम्
इत्येकत्र धर्मिणि धर्म्यन्तरनिबन्धनैरिव सन्नीलचलादिपदैः सामानाधिकरण्यं च,
तदा बुद्ध्यनुरोधतः एकभेदचोदनापेक्षायां वृक्षस्य सत्त्वमिति भेदनिर्देशश्चेति
द्विविधोऽपि विशेषणविशेष्यभावः सिद्धः । एवं च सति यथा पृथ्वीरुहे पाथोऽग्नि
सङ्गमादुपचयापचयौ दृष्टौ, एकत्वारोपाच्च स एवायं पादप ईदृशो जात इति प्रतीतिः,
स च धर्माणां तत्संबन्धयोग्यानामनुदयेऽपि तद्योग्य इव व्यवसीयते, तथा विकल्पेऽपि
वृक्षाकारो धर्मान्तराप्रतिभासेऽपि तद्योग्य इति नीलो न फलिन इत्यादिप्रयोगे चोप
चयापचयभागिव भासते स एवेति चावसीयते, न तथा बाह्यो जलादिसम्पर्कवच्छब्दो
च्चारणकालेऽप्युपचयापचयवान् । एतच्च न बाह्यविषयत्वे युक्तम्, यथाप्रतिभासम्
अतत्त्वात्, यथातत्त्वं चाप्रतिभासनात् । अतएव चैत्रस्य गौर्गोमान् मैत्रो नाश्ववानिति
भिन्नविशेषणापेक्षयापि न पदान्तरप्रयोगयोगः, तत्कृतोपचयापचयप्रतिभासस्य बहिर
भावात् ।

तस्माद् बुद्धिविलास एवैषः । यत्र चायं विप्लवः परम्परया परापोढवस्तुनान्तरी
यकः 16a तत्राभिमतार्थक्रियाकृतार्थो जनस्तादृशं विशेषमूहितुं न प्रयत्नवान्, नापि
क्षम इत्यनवच्छिन्नो व्यवहारः विसंवादेऽपि मृषेदमिति न व्यवस्थापयति । न पुनरन्यदापि
बाह्येनाबिषयत्वमिति शास्त्रकाराणामप्यभ्यूहसंभवात् का परस्य कथा ? तस्मान्न
स्वलक्षणस्य शब्दादिगोचरत्वमिति स्थितम् ॥

एकं धर्मिणमाकलय्य विविधव्यावृत्तिधर्माश्रयं
तत्रैकैकविधानबाधनविधावायव्ययाभासिनम् ।
मुख्या बुद्धिरियं यथा भ्रमयति भ्राम्यंस्तथायं जन
स्तत्त्वांशेन कृतार्थतामुपगतो नोपप्लवं मन्यते ॥
220
इति संग्रहश्लोकः ॥

2452नापि सामान्यलक्षणस्य । तथाहि उत्तरतीरे सरितश्चरन्ति गाव इति वाक्ये
गवादिशब्दात् सास्नाशृङ्गलाङ्गूलादयोऽक्षराकारपरिकराः सजातीयभेदापरामर्शात्
संपिण्डितप्रायाः प्रतिभासन्ते, न च तदेव सामान्यम्,

वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते ।
प्र. वा. २. १४७

न चापरमाकाशवत् किञ्चित् प्रतिभाति । अन्यथा गोत्वाश्वत्वविकल्पयोरविशेष
प्रसङ्गात् । तदेव हि ज्वलद्भासुराकारमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेन
एकीक्रियमाणं सामान्यमित्युच्यते । न तु तत्सामान्यमेव तासाम्, बुद्ध्याकारत्वेनान्यत्रा
नुगमात् । शास्त्रं हि,
बुद्धेरव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् ।
2453

न चालोचनानन्तरजन्मनीन्द्रियार्थजन्यतयाभिमते सोऽयं, तादृशोऽयं, गौरयमिति वा
विकल्पेऽर्थान्तरप्रतिभासः । यथा तु संपिण्डिताकारमलौकिकमात्मनि प्रतिभासमानं
पुरः प्रतिभासिनि पिण्डे योजयति, तथा तस्य बाह्यस्याभावाद् भ्रान्तिरेवासौ, केश
प्रकाशवत् ।

बाधकादेवमिति चेत् ? ननु प्रयत्नप्रणिहितपाणिप्रतिघाताद्यभावात् केशपाशे
विसंवादः, प्रस्तुते तु यदि परिभावको भवति स एव व्यक्तव्यक्त्यनुभवो बाधकः किम्
अपरेण ? जनस्य तु विवेचनासामर्थ्यमित्युक्तमेव । कथं वा करप्रतिघातादिविरहोऽद्यापि
न बाधकः ? त एव हि शृङ्गादयो यथास्थाननिवेशिनोऽस्पष्टरूपा अप्रतिष्ठितदेशदशा
विशेषा देशकालादिभेदादनन्तमूर्तयः सङ्कीर्यमाणा इवाद्यापि भासन्ते, तेषां प्रतिधातादि
नियतत्वात् कीदृशः केशादिभ्यो भेदः, यतो नात्र बाधकमिति स्यात् ?

तस्माद् वासनावशाद् बुद्धेरेव तदात्मना विवर्तोऽयमस्तु, असदेव वा तद्रूपं
ख्यातु, व्यक्तय एव वा सजातीयभेदतिरष्कारेणान्यथा भासन्ताम्, अनुभवव्यवधा

221
नात् स्मृतिप्रमोषो वाभिधीयताम्, सर्वथा भ्रान्तिरेवेयं बहिरपेक्षया सामान्यवार्ता,
इदन्तया च पुरोवर्तिवस्त्वनुभवप्रभवतया भवितुं युक्तैव । ननु भ्रान्तिहेतवस्तिमिराशु
भ्रमणादय इन्द्रियविकारकारिणः परिगणिता एव । न च तत्रैकस्यापि सन्निधिरिति
कथमियमाकस्मिकी भ्रान्तिः ? अथ निर्विकल्पकभ्रान्तेरेव हेतवस्ते, इयं च मानसी
भ्रान्तिरिति मन्यसे ? 16b साप्यारोप्यारोपविषययोः सादृश्यदर्शननिबन्धनैवेति
तादृगविभागाभावात् कथं मानस्यपि भ्रान्तिः ? सर्वा च भ्रान्तिः सादृश्यनिबन्धनैव,
न खलु जन्मान्तरेऽपि सदृशदर्शनमन्तरेण भवितुमर्हति । न च संभिन्नाकारं किञ्चिज्
जन्मान्तरेऽपि दृष्टमिति कथं तदारोपः ? अहो महत् पौरुषम् ! तथा हि निर्विषयत्वं
तावदुक्तेन क्रमेण न चेत्परिहर्तुं शक्यते, भ्रान्तिव्यवहारं कुर्यात् मा वा, तावतैव
प्रकृतसिद्धेः किमत्र निर्बन्धेन ?

यत् पुनराकस्मिकत्वमुक्तं तदयुक्तम्, जनकसामग्रीभेदस्य भवताप्यवश्यस्वी
करणीयत्वात् । कथमन्यथा इन्द्रियार्थौ निर्विकल्पकज्ञानजनननियतौ दृष्टौ विकल्पम्
उत्पादयतः ? तस्मात् पूर्वपिण्डदर्शनस्मरणसहकारिणातिरिच्यमानसामर्थ्येयं सामग्री
विकल्पमुत्पादयतीति निर्विषयं ज्ञानमुत्पादयत्येवार्थः, निर्विषयतानिष्ठत्वाद् विकल्प
तायास्तदंशेन । तद् वरं विजातीयविकल्पवद् विस्पष्टप्रतिभासादनुभवाद् भिन्न एव
सजातीयविकल्पोऽपोत्येव साधु, तस्मान्न जातिसिद्धिरध्यक्षात् ।

नाप्यनुमानात्, अध्यक्षगोचरतयैव केनचिदग्निधूमवत् कार्यकारणभावस्य
ग्रहीतुमशक्यत्वात् । सामान्येन तु ज्ञानजन्मनि यथा परिदृष्टकारणेभ्यः कारणान्तरम्
अपेक्षणीयमिन्द्रियवत् कदाचित् सिध्येत् यदि सकलान्यकारणसन्निधौ कदाचिदभि
मतज्ञानकार्याभावं विभावयेत् । न चैवं प्रस्तुते शक्यम् । यदा हि पिण्डान्तरेऽन्तराले
वा गोबुद्धेरभावं दर्शयेत्, तदा गोपिण्डस्यैवाभावात् अभावो गोबुद्धेरुपपद्यमानः
कथमर्थान्तरापेक्षामाक्षिपेत्, यतस्तदेव गोत्वमिति प्रत्याशा स्यात् ? ननु गो
पिण्ड इति गोत्वादेव सामान्यादन्यथा तुरगपिण्डोऽपि गोपिण्डः स्यात् । यद्येवं
गोत्वमपि सामान्यं गोपिण्डादेव, अन्यथा तुरगत्वमपि गोत्वं स्यादिति समानम् । न
चादृश्यस्य सामान्यस्य भावाभावौ क्वचित् निश्चेतुं शक्यौ पिण्डवदिति न किञ्चिदेतत् ।
अथापि स्याद् यदि बाहुलेयपिण्डाभावात् तुरगे न गोबुद्धिः, शाबलेयेऽपि मा भूत्,
स्वलक्षणस्य क्वचिदनन्वयात् । सत्यमनन्वयि स्वलक्षणम्, यथा तु स्वजातीय
पिण्डान्तरदर्शनस्मरणवति प्रत्तिपत्तरि तदाकारप्रत्यवमर्शजननसामर्थ्यं बाहुलेयस्य
222
तथा शाबलेयस्यापि । ततो नैक एव गोपिण्डोऽपि तु तादृग् विकल्पारोहिणः सर्व एव
पिण्डाः । अतस्तुरगे न गोप्रत्ययः ।

ननु सामर्थ्यं शक्तिरिति जातिरेवोच्यते । सा हि शक्तिर्भिन्ना वा स्यादभिन्ना
वा ? यद्यभिन्ना, तदा स्वलक्षणवदननुगामिनीति नेतरः शक्तः । अथ भिन्ना, अन्य
साधारणी च, तदा जातिरेवासाविति नाम्नि विवादः । अत्रोच्यते । अभिन्नैव सा
प्रतिवस्तु, यथा त्वेकः शक्तस्वभावो भावस्तथाऽन्योऽपि भवन् कीदृशं 17a दोषम्
आवहति ? यथा हि भवतां जातिरेकापि समानधीध्वनिप्रसवहेतुरन्यापि स्वरूपेणैव
जात्यन्तरविरहात्, तथाऽस्माकं व्यक्तिरपि निरपेक्षा स्वरूपेणैव भिन्नापि हेतुः । तत्
तु स्वरूपं व्यक्तेः कारणपरम्पराप्रतिबद्धम् ।

यत्तु त्रिलोचनः, अश्वत्वगोत्वादीनां सामान्यविशेषाणां स्वाश्रयेषु समवायः
सामान्यमित्यभिधानप्रत्यययोर्निमित्तमिति2454 । तत् समवायनिराकरणेनैवापहस्तितम् ।
समवाय एव वा स्वरूपेणैव निमित्तमिति न दृष्टान्तक्षतिः । न च जातिसमवाययोः
सहक्रियाकल्पनेनान्योन्यशक्तित्वम्, तदा हि स्वरूपेणैकस्यापि जनकत्वमिति सामान्या
भिधानधियोर्दत्तो जलाञ्जलिः । स्वरूपेण जनकानामेव हि बीजादीनां सहकारि
साकल्यमौपाधिकी शक्तिरिति स्वरूपेण जनकत्वमवश्यवाच्यमिति समवायावलम्बनं
विडम्बः । न च तद्व्यापारविरहे तदाकारवेदनोदयः कारणान्तरमात्रात्, अन्यथानु
वृत्ताकारस्यापि प्रत्ययस्य जन्मनि स्वलक्षणैरेव किं न निर्वृत्तिरिति चिन्तापि जातेः
समूलकाषं कषिता स्यात् । आकस्मिकत्वेऽपि स एव दोष इति गले पादिकया जाति
स्वीकारिणोऽनुवृत्तप्रत्यये स्वरूपेणैव जातिव्यापारमनवस्थाभयात् स्वयमेवानारोपित
जात्यन्तराः स्वीकारयितव्या इति कथं समवायेन परिहारः ? स पुनरधिकः सहकारी
भवतु मा वा भूत्, जातिस्तु जातिनिरपेक्षा स्वरूपेण शक्तिमती अनुवृत्तप्रत्ययं जनयति,
स्वभावस्यापर्यनुयोज्यत्वान्न व्यक्तिरिति न राज्ञामाज्ञामन्तरेण शक्यमभिधातुम् ।

एतेन सेयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीषु व्यक्तिषु
व्यावृत्तप्रत्ययविषयभावानुपातिनीषु भवितुमर्हतीत्यप्यूहप्रवर्तनमस्य प्रत्याख्यातम्,
जातिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् । अथ
जातीनामदर्शनात् क्वानुवृत्तप्रत्ययो यतो व्यभिचार इति चेत्—न, अभ्युपगमविरोधस्य
223
अनेन क्रमेण प्रतिपादनात् । तथा हि प्रत्ययानुवृत्तिरनुवृत्तवस्तुसाधनायोपनीयते,
सा चानुवृत्तवस्त्वभावनान्तरीयिका यद्यनुवृत्तवस्तुसिद्धिरिति क इमं व्याघातमुद्वोढुं
शक्तोऽन्यत्र जाड्यात् ? किं च कल्पितास्वपि जातिषु व्यभिचारस्तदवस्थ एव किमत्र
दर्शनेन ?

अथ दृश्यमानेष्वर्थेषु नियम उच्यते—न, तत्रापि विपर्ययबाधकाभावात् प्रति
बन्धानुपपत्तेः । सामान्येन च व्यभिचारदर्शनादन्यत्रापि शङ्काबीजम् । यदि च
दृश्यविशेषापेक्षया सामान्यव्यभिचारपरिहारः, तदा न वक्तव्यं या भिन्नेष्वभिधान
प्रत्ययानुवृत्तिरसावनुवृत्तवस्तुनिमित्ता, यथा कुसुमेषु सूत्रमित्यभिधानप्रत्ययानुवृत्तिस्तथा
च गोषु भिन्नेषु गौरित्यभिधानप्रत्ययानुवृत्तिरिति । दृश्यमाननिमित्ततायामेवाभिधान
प्रत्ययानुवृत्तेरनुवृत्तवस्तुनिमित्ततया व्याप्तेर्विश्रामनियमात् । युक्तं चैतत् । न खलु
सूत्रेऽपि 17b दर्शनाविषयीकृतेषु सूत्रप्रत्ययानुवृत्तिः । सवस्तुको हि विकल्पोऽनुमानं
विना वस्तुदर्शनकार्यः सिद्ध इति विपर्ययात् कारणानुपलब्ध्या निवर्तमानानुवृत्त
वस्तुना प्रत्ययानुवृत्तिव्याप्तिर्दृश्यनिमित्ततायामेव विश्राम्यति, सति वस्तुविषयत्वे ।
वस्तुविषयत्वविवादे तु नायं नियमः ।

यत् पुनरनेन विपर्ययबाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य
क्वचिदेव भवन्ती निमित्तवती । न चान्यन्निमित्तमित्यादि । तन्न सम्यक् । अनुवृत्त
मन्तरेणाप्यभिधानप्रत्ययानुवृत्तेः अतद्रूपपरावृत्तस्वरूपविशेषादवश्यं स्वीकारस्य
साधितत्वात् । तस्मात् यथा स्वलक्षणान्निवृत्त्य गोत्वाश्वत्वादावेव सामान्यं सामान्य
मित्यभिधानप्रत्ययानुवृत्तिः कयाचित् प्रत्यासत्त्या भवति, तथा व्यक्तिष्वपि भवतु,
एतेनानुनृत्तवस्तुनि साध्येऽभिधानप्रत्ययानुवृत्तिः, तेनास्या व्याप्तौ च विपर्ययबाधिका
व्यापकानुपलब्धिरित्युभयमनैकान्तिकमिति वेदितव्यम् । प्रत्यासत्तिरित्यपि नास्त्य
न्यव्यावृत्तेरन्या । यथाहि गोत्वमश्वसामान्याद्व्यावृत्तं तथाश्वत्वद्रव्यत्वादिकमपि,
एवं यथैका गोव्यक्तिरगोतः परावृत्ता तथाऽन्यापि । अस्या अपि भेदाभेदचिन्ता
मौखर्ये शक्तिवदेवोत्तरम् । ततश्च येऽर्था अतद्रूपपरावृत्त्या परस्परं प्रत्यासन्नास्ते
तेष्वेकदर्शनानन्तरमपरदृष्टौ अनुवृत्तप्रत्ययमुत्पादयन्ति नान्ये । सैव च शक्तिः, न
जात्यात्मा । अन्यथा,

आत्मैकत्रापि सोऽस्तीति व्यर्थाः स्युः सहकारिणः
2455
224

एतच्च क्षणभङ्गे सहकारिवादादवधार्यम् । सा च प्रत्यासत्तिः कारणपरम्परा
यातेत्यनन्तरमुक्तमेव । अवश्यं च हेतुकृतः प्रत्यासत्तिविशेष एषितव्यः, यतः काश्चिदेव
व्यक्तयो जात्यधिष्ठानभाजनीभवन्ति नेतराः । अन्यथात्वे तु सामग्रीनियमाच्च नियत
जातिमत् कार्य भवतीति उक्तमपरित्राणं भूषणस्य स्यात् ।
तथा च सति,

तुल्ये भेदे यथा जातिः प्रत्यासत्त्या प्रसर्पति ।
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ॥
प्र. वा. ३. १६१—२

किमत्र जात्या ?

यत् पुनरत्र तेनोक्तमपरमपि कुवोद्यम्, न ह्येवं भवति, यथा प्रत्यासत्त्या
दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र, सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादि
व्यवहारनिबन्धनमस्तु किं दण्डसूत्रादिनेति2456 ? एतत् कदा शोभते ? यदि प्रमाणसिद्धं
सामर्थ्यं किञ्चित् क्वचिदपलप्येत । यथा हि, उपसर्पणप्रत्ययाद्याश्रया प्रत्यासत्तिर्दण्ड
सूत्रयोः पुंसि स्फटिके च प्रसर्पणहेतुः प्रत्यक्षादिप्रमाणसिद्धा, तत्संपृक्तपुरुषस्फटिकानु
भवश्च दण्डिसूत्रिबुद्धेर्निबन्धनं सिद्धं समयस्मरणवतः प्रतिपत्तुः, तथा न गोत्वभावा
भावावनुविधीयमानेयं गोबुद्धिरुपलब्धा, किं त्वन्धकारे करामर्षमात्रमेतदीदृशा केन
चिद् भवितव्यं गोबुद्धिनिबन्धनेनेति । तत्र यद्यवश्याभ्युपगन्तव्येन प्रकारान्तरेण
तत्सिद्धौ न 18a बाधस्तत् किं गुर्वितरया परिकल्पनयेत्युच्यते ? अन्यथा तदपि
कल्पयित्वानर्थकार्थशतकल्पनमनिवार्यम् । यदि तु यथोपसर्पणप्रत्ययादेः पुरुषादौ
दण्डादिसन्निधिर्भावाभावमनुविदधानो दृष्टः दृष्टश्च पुरुषादौ दण्डादिसन्निधानानु
भवभावाभावानुविधायी दण्ड्यादिप्रत्ययस्तथा कारणकलापस्य नियतजातिकतायामेव
परं व्यापारो नैकामर्शे । एकामर्शे पुनरियमसौ जातिरेव संप्रति व्यापारवतीत्यनुभूयेत,
स्यात् तदपवदितुरपराधः, यावता समयमात्रमेतत्, जातेरनुभवातिक्रान्तिप्रतिपादनात्
इति कुतस्तद्वैयर्थ्यचोदनं दण्डादिकमपि विषयीकुर्यात् ? एवमन्यत्रापीदृशि प्रतिविधौ
बाधनमूह्यम् ।

225

अथैवमनुमानम्, यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम्, यथा दण्डिज्ञानम् ।
विशिष्टज्ञानं चेदं गौरयमिति प्रत्यय इत्यर्थतः कार्यहेतुः । विशेषणानुभवकार्यं हि दृष्टान्ते
विशिष्टबुद्धिः सिद्धेति । अत्रानुयोगः, विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा
साध्यम्, विशेषणमात्रानुभवनान्तरीयकत्वं वा ? प्रथमपक्षे पक्षस्य प्रत्यक्षबाधा
साधनावधानमनवकाशयति, वस्तुग्राहिणः प्रत्यक्षस्योभयप्रतिभासाभावात् । विशिष्टज्ञानत्वं
च सामान्यं हेतुरनैकान्तिकः, भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात् । यथा स्वरूपवान्
घटः, गोत्वं सामान्यमिति वा । द्वितीयपक्षे तु सिद्धसाधनम्, स्वरूपवान् घट इत्यादिवत्
गोत्वजातिमान् पिण्ड इति कल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वादगोव्यावृत्तानु
भवभावित्वाद् गौरयमिति व्यवहारस्येति । तदेवं शाब्दादिबुद्धौ न बाह्यस्य स्वलक्षणस्य
सामान्यलक्षणस्य वा प्रतिभासः । न च सामान्यं प्रमाणसिद्धमिति प्रतिपादितम् ।
तद्वदुपाध्यन्तराणि चिन्त्यानि ॥

यद्येवं कथं तर्हि,

शब्दैस्तावन्मुख्यमाख्यायतेऽर्थः ।

इति शास्त्रं सङ्गतियुक्तम् ? न हि तच्च तेन प्रतिपाद्यते, न च तज्ज्ञाने तत्प्रकाश इति
सङ्गतिः काचिदित्याह,
अध्यासत इति ।

द्विधा विषयव्यवहारः प्रतिभासादध्यवसायाच्च । तदिह प्रतिभासाभावेऽपि परापोढस्वलक्षण
स्याध्यवसायमात्रेण विषयत्वमुक्तम् । तथा च ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव
प्रवृत्तेरिति । अथ कोऽयमध्यवसायो नाम विकल्पादन्यः, विकल्पितमध्यवसितमित्यनर्थान्त
रत्वात् ? तत् कथं विकल्पादध्यवसायेनेति भेदनिर्देशः ? अन्यापोढं च स्वलक्षणं न
विकल्पे परिस्फुरति । अध्यवसिते विकल्पित इति क एष न्यायः, यतोऽध्यवसायापेक्षतया
तदपि विकल्पस्य विषय इति व्यवस्थाप्यते ? किं च विकल्पस्याविषयश्च बाह्यम्, ग्रहणं
चास्य शब्देन संयोज्येति दुर्योजम् । आत्मनि च तन्नास्तीति विकल्पो नाम नास्त्येव,
18b तत् कस्य विषयचिन्ता ? अगृहीते च स्वलक्षणे शब्दात् प्रवृत्तिरिति सर्वत्रा
विशेषेण प्रसज्येत, सर्वस्यागृहीतत्वेन विशेषाभावात् । ततः प्राप्तिरपि नाभिमतस्य
नियमेनेत्यनुमानस्यापि विप्लव इति ।

226

अत्रोच्यते, सत्यमेकार्थौ विकल्पाध्यवसायौ केवलं विकल्पशब्दः शब्दादि
योजनानिमित्तकः । अध्यवसायस्त्वगृहीतेऽपि प्रवर्तनयोग्यतानिमित्तः । यद्यपि च
विश्वमगृहीतम्, तथापि नियतविषया प्रवृत्तिर्नियताकारत्वाद् विकल्पस्य । नियत
शक्तयो हि भावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसाङ्कर्यपर्यनुयोगभाजः,
असदुत्पत्तिवत् । सर्वस्य तत्रासत्त्वेऽपि हि बीजादङ्कुरस्यैवोत्पत्तिः, तत्रैव तस्य शक्तेः
प्रमाणेन निरूपणात् । तथेहापि हुतवहाकारस्य विकल्पस्य हुतवहार्थक्रियार्थिनः,
तत्स्मरणवतो हुतवहविषयायामेव प्रवृत्तौ सामर्थ्य प्रमाणप्रतीतं कथमतिप्रसङ्गभागि ?
प्रत्यासत्तिचिन्तया च तात्त्विकस्यापि वह्नेर्ज्वलद्भासुराकारत्वं विकल्पोल्लेखस्यापीति,
तावता तत्रैव प्रवर्तनशक्तिर्ज्वलनविकल्पस्य न जलादौ । न च सादृश्यारोपेण प्रवृत्तिं
ब्रूमः, येनाकारे बाह्यस्य बाह्ये वाकारस्यारोपद्वारदूषणावकाशः । किं तर्हि ? स्ववासना
परिपाकवशादुपजायमानैव सा बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातनोतीति
विप्लुतैव ।

यच्छास्त्रम्,

देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधाया अन्यत्र तत्रानुपगमाद् धियः ॥
प्र. वा., २. १३

इति । तस्मान्न रूप्यादिवदारोपद्वारेण प्रवृत्तिरपि तु तथाविधाकारोत्पत्तिप्रतिबद्धशक्ति
नियमात्, यथा शालित्वेन शालिबीजमुपादानं निरन्वयोदयेऽपिं शाल्यङ्कुर उपादेये,
शलित्वादिस्थितेः स्थैर्यदूषणेन निरस्तत्वात् । न च विचारकस्य वस्त्वदर्शनं निश्चिन्वतः
अप्रवृत्तिप्रसङ्गः सङ्गच्छते, दर्शनेऽपि हि प्रवृत्तिरर्थक्रिययान्वितया, अर्थक्रियाप्राप्तिश्च
वस्तुसत्तानियमे । स च नियमो यथा दर्शनाद् वस्तुप्रतिबन्धकृतस्तथा विकल्पविशेषाद्
अपि पारम्पर्येणेति, नानुमानमनवस्थितम् । शब्दात् तु क्वचिदर्थसंशयेनेति प्राप्तेरपि
तत्रानियमः । तस्मादध्यवसितमित्यप्रतिभासेऽपि प्रवृत्तिविषयीकृतमित्यर्थः ।

ततो विकल्पबुद्धावप्रतिभासेऽप्यध्यवसितत्वं न बाह्यस्य बाध्यते । अयमेव
चार्थो दृश्यविकल्पयोरेकीकरणस्याभेदप्रतिपत्त्यादेश्च । ततश्च तच्च न प्रतीयते तेन
चाभेदभासनमित्युपालम्भोऽसंभवोति दर्शितम्, तदर्थनिष्ठायाः कृतत्वात् । स चाग्निर
त्रेति व्यवसायो यथा कायिकीं प्रवृत्तिं प्रसूते, तथाग्निर्मया प्रतीत इति वाचिकीमपि
227
प्रसूते । एतदाकारानुव्यवसायरूपां मानसीमपि प्रसवति । एवं सति यथा विकल्पेन
अयमर्थो गृहीत इति निश्चयस्तथा शब्देन संयोज्येत्यपि, अर्थाकारलेशवच्छब्दाकारस्यापि
स्फुरणात् । तस्माद् यावदर्थग्रहणाभिमानवान् मानवः 19a तावदभिधानसंयुक्तग्रहणा
भिमानवानपीत्यवसायानुरोधादेव विकल्पव्यवस्था न तत्त्वतः ।

आह च,

न शब्देः संसर्गः क्वचिदपि बहिर्वा मनसि वा
क्षराकाराकीर्णः स्फुरति पुनरर्थाकृतिलवः ।
उभावप्यात्मानौ यदपि धिय एवाध्यवसिति
र्निधत्ते तौ बाह्ये वचसि च विकल्पस्थितिरतः ॥

अतएव च तदभिमानम्लानमानसं व्यावहारिकं प्रति प्रत्यक्षलक्षणे कल्पनापोढ
विशेषणमुपादीयते, सूत्रतोऽपि विकल्पादध्यवसायेनेति भेदनिर्देशः । तत्रापि नायम्
अध्यवसायध्वनिर्धर्मिण एव विकल्पस्याभिधायकः प्रयुक्तः, किं तु तद्गतस्याध्यवसान
लक्षणस्य धर्मस्य । तदयमर्थः, अदृष्टेऽपि प्रवर्तनयोग्यता नाम यो धर्मस्तया विकल्पात्
प्रवृत्तिरिति । ज्ञातश्चेदर्थो व्यवस्थापितोऽध्यवसायात् संवृत्त्या, ततो विषयव्यवहारोऽपि
लब्ध इत्यवसायमात्रेण विषयत्वमिति युक्तम् ।

अत उक्तम्,

अर्थश्चैकोऽध्यासतो वाच्य इति ।

यदाह भाष्यकारः,

कथं तद्विषयत्वं तत्र प्रवर्तनादिति ।
2457

यस्तु कथमदृष्टे प्रवर्तनमित्याशङ्क्यादृष्ट एव सर्वत्र प्रवर्तनमित्यादिसिंहनादः, स
न विपञ्चितोऽस्माभिर्ग्रन्थगौरवभयात् ।

एवं स्वप्रतिभासेऽनर्थाध्यवसायेन प्रवृत्तेरित्यत्राप्यनर्थे स्वप्रतिभासे सति
अध्यवसायः पूर्ववत्, अर्थस्त्वर्थक्रियासमर्थो बाह्य उक्तः । तत्पर्युदासेनानर्थो बुद्ध्या
कारः । एवं स वस्त्विति असन्निति च द्रष्टव्यम् । एतच्च वार्त्तिकवाचैव स्फुटीकृतं
228
साकारसिद्धौ । अर्थाध्यवसायेन प्रवृत्तिरनुमानस्येत्यपि हि अर्थाध्यवसायानुमानमित्यर्थः ।
टीकाकारस्य2458 तु यथाऽत्र व्याख्यानं स्वापोहसिद्धौ तद्धेयमेव, विस्तरप्रसङ्गभीत्या
नोद्भावितमस्माभिः ।

यदि तर्हि बाह्यस्याध्यवसायेन वाच्यता, कथं बुद्ध्याकारस्य ? यच्छास्त्रम्,

अनादिवासनोद्भतविकल्पपरिनिष्ठितः ।
शब्दार्थः त्रिविधो धर्मी भावाभावोभयाश्रयः ॥
प्र. वा. ३. २०४—५

इत्यादि ।
विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते ।
ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृच्छ्रतिः ॥
व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् ।
शब्दात् तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥
प्र. वा. २. १६४—५

इति । न हि बुद्ध्याकारेऽप्यध्यवसायः शक्योऽभिधातुम्, प्रवृत्तिविषये तस्य व्यवस्थाप
नात् । स चार्थक्रियार्थिनो बाह्य एवेत्याह,
भासतेऽन्योऽर्थो वाच्य इति ।

बाह्यादन्यो बुद्ध्याकार इत्यर्थः । शब्दादिजन्यायां बुद्धावाकारमात्रस्य प्रतिभासनात् स
एव विषय उच्यते, चक्षुष इव रूपं विषयः, न पुनरध्यवसायादिति भावः । उक्तं च,
यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि
प्र. वा. ३. ८३

इति । असन्निति तु यथाप्रतिभासं बहिरभावात्, बहिर्मुखापेक्षया च चिन्तायाः
प्रक्रमात् । अयमेवार्थो यथाध्यवसायमतत्त्वात्, यथातत्त्वं चानध्यवसायादिति ।
अध्यवसायस्य विकल्पपर्यायत्वाद् यथाविकल्पस्फुरणमित्यर्थनिष्ठानात् । असदर्थ
प्रकाशनादेरपि यथाप्रतीति बहिरसत्त्वमेवार्थः । भ्रान्तित्वमपि बहिरपेक्षयैवेति सर्वम्
229
अनाकुलम् । न तु स्वसंवेदनगोचरस्य ज्ञानरूपतयार्थत्वात् केशाद्याकारस्येवासत्ताभि
धानं 19b साधु । अतएव वाच्यत्वेऽपि,

नाकारस्य न बाह्यस्य तत्त्वतो विधिसाधनम् ।
बहिरेव हि संवृत्त्या संवृत्यापि तु नाकृतेः ॥
2459

न ह्यसन्देहस्य विषयस्य स्वसंवेद्यस्याकारस्य शब्दादिना विधिनिषेधयोगः
वैयर्थ्यादसामर्थ्याच्च । नापि विकल्पाप्रतिभासिनो बाह्यस्य । विषयाप्रतिपत्तेर्हि कस्य
विधिर्निषेधो वा स्यात् ? तस्माद् यथा वृक्षशब्देन बाह्यो वृक्षोऽध्यवसायादभिधेयो
व्यवस्थापितः, तथाध्यवसायादेव बाह्यस्य विधिर्निषेधो वा व्यवह्रियते । यदापि
कुतश्चित् प्रकरणाद् बुद्ध्याकारं कञ्चिद् विकल्पान्तरेणादाय परीक्षा, तदापि तद्विकल्पाद्
बाह्य एव विधिनिषेधौ ।

तं हि पतत्यर्थे विवेचयन् ।
प्र. वा. २. २२०

इति हि शास्त्रम् । तस्मात् तत्त्वतो नोभयोरपि विधिनिषेधौ, संवृत्त्या हि बाह्यस्यैव
दुष्परिहरौ च । अन्यथा संव्यवहारहानिप्रसङ्गात् ।

एतेन 2460यट्टीकाकारः आरोपितस्य बाह्यत्वविषयौ विधिनिषेधावित्यलौकिकमना
गममतार्किकीयं कथयति, तदपहस्तितम् । न हि संवृतिपरमार्थसत्यद्वयमनाश्रित्य
काचिद् व्यवस्था । तत्र न तावदियं संवृतिः, लोकाभिमानरूपत्वात् तस्याः, लोकस्य
च बाह्य एव पदस्यार्थो विहितः प्रतिषिद्धो वेत्यविगानेन व्यापी प्रवृत्तिनिवृत्त्याश्रयः
अभिमानः, नारोपितस्य बाह्यत्वादिकं स्पृशति लोकः । नाप्येष परमार्थः । न ह्यवाच्यस्य
विधिनिषेधौ । न च वाच्यं किञ्चित् तत्त्वत इत्यागमः2461 । तर्कस्यापि नान्या दिक् ।
किं च नानध्यवसेयस्य विधिनिषेधौ, न च शब्दादध्यवसायः स्वलक्षणादन्यत्रेति
स्वयमप्युद्घुष्यते । अतः किमायातमारोपितबाह्यत्वविधिनिषेधयोः ? प्रतिभासाध्यव
सायद्वारा च सर्वा व्यवस्थितिस्तत्त्वमस्पृशती । तत्रारोपितमारोपितबाह्यत्वं वा न
प्रतिभासस्य विषयो, नाप्यध्यवसायस्य । तत्रारोपितं तावन्न प्रतिभासस्पर्शि, यत् स्वयम्
230
एवाह, उल्लेखानुभवसमानकालं समारोपणमप्रतिभासरूपमेवावस्तु विकल्पविषय
इति । अतएव तद्वाह्यत्वमपि न प्रतिभासि, तद्धर्मत्वात् । अध्यवसायवस्तु बाह्यस्वलक्षण
नियमादेव नैनयोरित्यलमेनामुत्थाप्य ।

आरोपितमित्यपि कल्पितमेबोच्यते, कल्पनाकर्म च प्रतिभासमवसितं चेति
द्वयम् । तत् कुतस्त्योऽयमारोपिताख्यो राशिरपरः ? तस्माद् बुद्ध्याकारबाह्याश्रयैव
संवृतिपरमार्थाभ्यां चिन्तोचितेति । तथाविधार्थक्रियाविवक्षायां च किं वक्रदुर्गमार्गा
श्रयेणेत्यलमतिनिर्बन्धेन । स्थितमेतदध्यवसायेन बाह्यस्य बुद्ध्याकारस्य तु प्रतिभासेन
शब्दवाच्यत्वमुच्यते इति । नन्वेवंव्याचक्षाणेन भवतोभयार्थराशेरशेषस्य वाच्यता
स्वीकृतेति कथं सर्वधर्मानभिलाप्यतासमर्थनार्थमिदमवतारितमित्याह,

स्थाप्यत इति

प्रयोजनान्तरमुद्दिश्य व्यवस्थामात्रमेतत् क्रियते, अध्यवसायमात्रेण प्रतिभासमात्रेण
20a वा वाच्यत्वमिति । तथा च बहिर्विषयीकरणं तत्त्वव्यवस्थानमात्रं गृह्णतः
तावदन्यापोढं स्वलक्षणमेव विषय इत्युच्यते उपाधिराशिनिरशनपरं, एवमन्यापोढाकारो
विकल्पस्यात्मा विषय इति समस्तबाह्यनिरसनपरम्, न तु स्वस्मिन् विषयत्वस्य
विश्रामायेति न विरोधः ।

कुतः पुनरेतत् ? तत्र तत्र विषयताप्रतिपादनेऽपि न विश्रामो विवक्षितः,
किं त्वन्यनिरसने तात्पर्यमित्याह,

वाच्यस्तत्त्वतो नैव कश्चिदर्थः ।

इति । अध्यवसायसहापोहिप्रतिभासः सांव्यवहारिकापेक्षया तत्त्वतो ज्ञेयस्य ज्ञान
विषयतामुपनयति प्रत्यक्षवत् । न हि प्रतिभासमात्रमवसायशून्यमन्यावसायाक्रान्त
व्यापारं वा प्रवृत्तिकामस्य विषयव्यवस्थामर्थे क्षमते, गच्छत्तृणस्पर्शवत्, मरीचावुद
कारोपवत् । नाप्यवसायमात्रमपेतप्रतिभासम्, उदकारोपवदेव । तस्मात् प्रवृत्ति
योग्यतया व्याप्तं विषयव्यवस्थानमुभयाभावो व्यापकाभावेन परिभूयमानमुभयसंभव
प्रतिबद्धमेकविवेके स्वीक्रियमाणं सांवृतमेव । यत्र ज्ञाने यन्न प्रतिभासते येन वा
यन्नावसीयते स न तस्य विषयो यथा गोज्ञानस्याश्वः । न प्रतिभासते च शाब्दज्ञाने
स्वलक्षणं, नावसीयते चानेन बुद्ध्याकार इति व्यापकानुपलब्धिः । प्रतिबन्धसाधनात्
नानेकान्तः । यद्यपि चात्यन्ताभ्यासे प्रतिभासमात्रेणापि प्रवृत्तिर्विषयत्वं च दृष्टम्,
231
तथापि स एवाभ्यासो नावसायाद् विनेत्यवसायस्यैव तत् पौरुषम्, ततो येन यन्ना
वसीयतेऽसत्यभ्यास इति विशेषणमपेक्ष्यम् ।

ननु प्रत्यक्षेऽपि न गृहीतक्षणस्यावसायः, किं तु सन्ततेः, न चास्याः प्रतिभास
इति केनास्यापि सविषयत्वं, क्षणे सन्ततौ चोभयाभावात् । अनुमाने तु परीक्षैव
वर्तते । न चान्यत् प्रमाणमस्ति, यस्योभयसंभवेन विषयः कश्चिदित्यसंभवमेतत् ।
तदेकैकेन विधेयत्वे स्थितविषयकस्थितिरखिलस्य बाह्यस्यान्तरस्य वा वाच्यत्वमिति ।

अत्रोच्यते । तत्त्वव्यवस्थामाह, उभयसंभवेनैव विषयत्वं, केवलं सांव्यव
हारिकापेक्षया संवृतेरेवाधरसंवृतिमपेक्ष्य तत्त्वमिति व्यवह्रियते, क्षणभेदावतारे संव्यव
हारविलोपात् व्यावहारिकं प्रति प्रतिक्षणक्षीणताया अभावात्, तत्त्वतः प्रत्यक्षेणोभय
संभवाभावः, इति न दोषः । अथ पृथग्जनस्य दृश्यविकल्प्ययोरप्यभेदग्रहो नियत
एवेत्यवसितो वह्निः प्रतिभासित एवेति चेत्—न, प्रतिभासान्तरस्मरणेन तत्प्रतिभास
भ्रमभ्रंशस्य कृतत्वात् । यथा च विकल्पप्रतिभासादन्य एव वस्तुप्रतिभासो दर्शयितुम्
अध्यक्षे शक्यः, तथा नाध्यक्षप्रतिभासादन्योऽस्तीति तत्रैव वस्तुप्रतिभासविश्रामात्
तद्विजातीयस्य वस्तुप्रतिभासताव्युदासः श्रेयान् । तस्माद् युक्तमुक्तम्,

स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ।

इति । 20b अथवा वस्त्वन्तरावाच्यत्वेऽपि तत्रापोहस्तद्विशेषणत्वेन गम्य इति
अपोहस्य वाच्यता स्वीकृतैव । तथापि कथं सर्वधर्मानभिलप्यत्वमित्याह,

वाच्यस्तत्त्वतो नैव कश्चिदर्थ इति ।

अयमभिप्रायः । पर्युदासपक्षे तावद् वस्तुरूपवत् तस्याप्यध्यवसायमात्रकृतं वाच्य
त्वम्, न प्रतिभासादध्यक्षवत् । प्रसज्यपक्षे पुनरन्यनिवृत्तिमात्रस्यान्यदापि न विशेषः,
तथाप्यसौ नार्थ इति नोक्तदोषः । यद वा यः शास्त्रे, तस्मात् सिद्धमेतत् सर्वशब्दा
विवेकविषया विकल्पाश्चेत्युपसंहारः, तस्यार्थनिष्ठामुपसंहारेणैव दर्शयति,—

वाच्यस्तत्त्वतो नैव कश्चिदर्थ इति ।

संवृतौ प्रतिभासाध्यवसायमात्रेण वाच्यताया दर्शितत्वात्,
तत्त्वत इत्याह ।
232
तदयमर्थः । यदेतच्छास्त्रे विवेक एव वाच्य इत्युपसंहृतं तस्य न किञ्चिद् वाच्यमेवार्थः,
यथा अभावो भवतीति भावो न भवतीत्येवार्थः, तथा अपोहस्य वाच्यतेति वाच्यताया
एवापोह इत्यर्थः । एतच्च हेतुत्रयविभागकरणादिना स्वयमेव शास्त्रेण स्फुटीकृतमित्युप
पादितम् ।

तदेवं कथमपोहः शब्दवाच्य इति प्रश्ने तद्गुणत्वेन यथोक्तार्थेनेत्युत्तरम् । अथ
बुद्ध्याकारः स्वलक्षणमुपाधयो वा कस्मान्न वाच्या इति प्रश्नः, तदध्यवसायस्य प्रति
भासस्य उभयस्य चाभावादिति क्रमेण विसर्जनानि । यदा तु शब्दैः किं वाच्यमित्यनु
योगः, तदा प्रतिभासादर्थाध्यवसायात्, यद् वा तत्त्वत इति विकल्प्य विकल्पस्थेऽन्या
पोढाकारः, अन्यापोढस्वलक्षणं न किञ्चिदिति प्रतिवचनानि क्रमेणैवेत्युक्तं भवति ।
तस्मात् शब्दलिङ्गयोरपोहविषयतास्थितिप्रसाधनं सर्वधर्मावाच्यत्वप्रतिपादनपरमिति
प्रथमश्लोकार्थोपसंहारः ॥

भवत्वपोहे कृतिनां प्रपञ्चो
वस्तुस्वरूपास्फुरणं तु मर्म ।
तत्रादृढे सर्वमयत्नशीर्णं
दृढे तु सौस्थ्यं ननु तावतैव ॥
समर्थनैतस्य दिशः प्रकाशः
कृतोऽयमस्माभिरविस्तरेण ।
तद्विस्तरस्त्वाकर एव चिन्त्यः
परोदितं तूलमिव क्षिपद्भिः ॥
॥ अपोहप्रकरणं समाप्तम् ॥
  1. अथ यद्यपीत्यतः तत्प्रतीतिव्यवस्थेत्यन्तोऽनुच्छेदो रत्नकीर्तिनिबन्धावलावुद्धृतः, पृः ५३

  2. यद्विधिरूपं...नान्यापोहविषयत्वम् तुल० रत्नकीर्तिनिबन्धावली, पृः ५३, पं १९—२२

  3. प्र. वा. ४. २६२
  4. नवमादाषोडशपत्रं पाठो नितरामस्पष्टः ।

  5. तुल० रत्न० निब० पृः ५४

  6. ता० टी० पृः ६८४

  7. तुल० रत्न० निब० पृः ५५ पं ६-९.

  8. तुल० सैव पृः ५४. पं० १४-१५; ता० टी० पृः ६८४.

  9. ता० टी० पृः ६८४.

  10. तुल० रत्न० निब० पृः ५५. पं० १६-१७ ।

  11. तत्रैव धृतम् पं० १८ तः ।

  12. तुल० रत्न० निब० पृः ५५

  13. तुल० रत्न० निब० पृः ५६

  14. तुल० ता० टी० पृः ६८४ तथा रत्न० निब० पृः ५६, पं ११-१६

  15. नियमवती...व्याप्तेति प्रान्तयोजना ।

  16. तुल० रत्न० निब० पृः ५६ पं० १८—२१

  17. तुल० रत्न० निब० पृः ५७, पं १६—१९

  18. तुल० रत्न० निब० पृः ५७, पं २३

  19. साध्यते नोपपत्तिभिरिति क्षणभङ्गाध्यायस्थः पाठः ।

  20. तुल० रत्न० निब० पृः ५८. पं १-४

  21. तुल० रत्न० निब० पृः ५८, पं २०—२५

  22. प्र. वा. ३. १६४
  23. तुल० रत्न० निब० पृः ५९, पं ९—१७

  24. धर्मोत्तरस्य ।

  25. धर्मोत्तर एव, द्र० रत्न० निब० पृः ६०, पं १२

  26. न रूपं तस्य किञ्चन । प्र. वा. २. ३०