॥ ईश्वरवादाधिकारे संक्षेपदूषणम् ॥

वार्तिकसप्तश्लोकीव्याख्यापेक्षप्रबन्धभीरूणाम् ।
ईश्वरवादे दूषणमात्रकथेयं समासेन ॥

इह यद्यपि बहुलं सहचारमात्रं कार्यस्य प्रयत्नवता दर्शितम्, दर्शितश्च तदभावे
क्वचिदभावः, तथापि प्रतिबन्धासिद्धेः कार्यमपि स्यात्, न च बुद्धिमत्कर्तृपूर्वकमित्या
शङ्का बाधवैधुर्यात् कार्यं बुद्धिमति साध्ये सन्दिग्धविपक्षव्यावृत्तिको हेत्वाभासः । न
च सपक्षविपक्षयोर्दर्शनादर्शनमात्रेण साधनस्य भावे साध्यस्यावश्यम्भावः, साध्या
भावे वा तदभाव इत्येवं रूपाया व्याप्तेः प्रतिबन्धशब्दवाच्यायाः साधनं भवितुमर्हति,
भाविव्यभिचारदर्शनेष्वपि तथोपलब्धेः । किमिदमिदानीमदर्शनमभावादेव व्यभिचारस्य,
अथ दर्शनसामग्रीसमवधानविरहादिति निर्णेतुमशक्यमेव सहचारमात्रदर्शिनो
विमर्शशीलस्य ।

अत एव वाचस्पतेः स्वाभाविकसम्बन्धधोषणमपि शब्दपुष्टिमात्रम्, तदतिरिक्तार्था
पोषणात् । भूयोदर्शने हि व्यभिचारादर्शने स्वाभाविकव्यवस्था । व्यभिचारादर्शनं च
विपक्षेऽदर्शनमात्रमुक्तं भवति । यत् पुनरेतदुपाधेरनुपलम्भेन व्यभिचारासिद्धिरिति, तत्र
नोपाधिर्नाम दृश्यचिह्नस्थानीयं किञ्चिदस्ति, यदनुपलम्भोऽव्यभिचारं व्यवहारयेत् । किं तु
व्यभिचारदर्शनमात्रेणैव तत्परिकल्पः । तददर्शनात् च स्वाभाविकत्वमिति विशेषाभावात्
न स्वाभाविकवादेन किञ्चित्, साध्येन सह भूयो दृष्टो हेतुर्व्यभिचारे च न हेतुरितीयतैव
पर्याप्तत्वात् । एतच्च सर्वं व्याप्तिचर्चायां विविच्य क्वचिदर्थान्तरस्य प्रतिबन्धो नाम
तदुत्पत्तिमन्तरेण, सा च प्रत्यक्षानुपलम्भसाधनैवेति व्यवस्थापितमिति तत एवावधार्यम् ।
एतेन शङ्करवाचस्पतिमतावलम्बिनः प्रत्युक्ताः ।

अस्तु तर्हि प्रयत्नवतापि कार्यस्य तदुत्पत्तिलक्षण एव प्रतिबन्धो धूमस्येव
वह्निना । यथोक्तं वित्तोकेन । तथा हि कुम्भकारव्यापारात् प्राक् मृत्पिण्डदण्ड
चक्रादिषु सत्स्वपि कार्यं कुम्भाख्यमुपलब्धिलक्षणप्राप्तमनुपलब्धं तद्व्यापारानन्तरम्
उपलभ्यत इति हेतुफलभावसिद्धौ कुतो विपक्षव्यावृत्तिसन्देहः ? सत्यमत्र पक्षविपक्ष
वृत्तिरेव न सन्देहः, अत्र हि प्रत्यक्षानुपलम्भयोग्यस्वरूपस्वीकारादभिव्यक्तोऽनुपलब्ध
पुरुषव्यापारैर्वृक्षवीरणादिभिर्व्यभिचारः । पक्षीकृतास्तृणादयः, न च पक्षीकृतेनैव
244
व्यभिचार इति चेत्—न, प्रतिक्षिप्तस्य पक्षीकरणे न्यायाभावात् । अन्यथा अनुष्णोऽग्निः
प्रमेयत्वादित्यादावपि पक्षीकरणमेव शरणं स्यात् । तथा हि,

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ।
प्र. वा. ४. ९१

इति न्यायः । अध्यक्षमेव प्रतियोगिनः प्रतियोग्यन्तरापेक्षयानुपलब्धिरुच्यते । 25a
ततोऽनुपलब्धिबाधितमपि प्रत्यक्षबाधितमेव । व्यवहारसाधनापेक्षया तु सानुमानम् ।
न चानुमानबाधितेऽप्यन्यावकाशः । सा तर्हि दृश्यविशेषणापन्नस्यैवाभावं व्यवहारयति,
दृश्यादृश्यशरीरेतरसाधारणं च बुद्धिमत्त्वमिति दृश्यतानियमानुपपत्तेर्बुद्धिमतः कथम्
अनुपलब्धिमात्रेण तृणादिजन्मनि निषेधः ? ततः सन्देहात् पक्षीकरणं न्याय्यमिति
चेत् ? तदेतद् विक्रोतगवीरक्षणम् । व्याप्तिसाधनायाध्यक्षानुपलब्ध्योरवकाशदानादेव
दृश्यविषयतास्वीकारस्य प्रसह्यायातत्वात् । न ह्यदृश्ये प्रत्यक्षमन्वयसाधनमनुपलब्धिर्वा
व्यतिरेकसाधनी भवितुमर्हति । तदयं भेदे सत्यन्वयव्यतिरेकरूपमध्यक्षानुपलम्भाभ्यां
हेतुफलभावमवतरन्न दृश्यतामतिवर्तितुं साध्यस्य शक्तः । दृश्यत्वे च नियततृणादिना
व्यभिचार इति साधारणानेकान्तः ॥

अथ व्यभिचारचमत्कारादध्यक्षागोचरेण प्रयत्नवता व्याप्तिं गृह्णीयात् ?
गृह्णातु, न तु प्रत्यक्षानुपलम्भाश्रयः श्रेयानस्य । ननु दृश्यादृश्यविशेषणमनपेक्ष्य प्रेक्षा
वन्मात्रेण व्याप्तिग्रहः ? नैवम्, तावतापि हि प्रत्यक्षकृताया व्याप्तेरनवकाश एव ।
दृश्यैकस्वभावनियता हि सा कथं दृश्यादृश्यविषया भवेत् ? तद्धि दृश्यमदृश्यं च
रूपमेकबुद्धिमत्त्वादिधर्मानुवृत्तावपि स्वभावविप्रकर्षेतराभ्यामत्यन्तं भिन्नजातिः । ततः
प्रत्यक्षं दृश्यैकजातिस्वीकारेण प्रवृत्तमितरवार्तानभिज्ञं तद्विशिष्टमेव साधारणमपि धर्मं
व्यापकमादर्शयति ।

यद्यपि देशकालविप्रकृष्टमपि न दृश्यम्, तथापि तददर्शनयोग्यतयैकजात्ये
वेति स्वभावविप्रकृष्टस्यैव प्रत्यक्षेण परिहारः । सर्वान्यवर्जने हि स्वलक्षणैकपर्यवसा
नाद् व्याप्तिरेव न स्यात्, धूमाग्निवत्, कम्पमारुतवच्च । यथा हि स्वप्रवृत्तियोग्यज्वलद्
भासुराकारपुरस्कारेण प्रवर्तमानाध्यक्षकृता व्याप्तिः सप्तार्चिषि न जठरानलसाधारण
रूपपर्यवसायिनी, अन्यथा तार्णादिभेदवदभिमतेऽपि रूपे सन्दिहानो न तत्साध्यार्थ
क्रियालाभैकाग्रबुद्धिः प्रवर्तेत । प्रतिबन्धवैकल्यवद् वासति जठर्यत्व इत्यामृशतः
245
प्रवृत्तिः स्यात् । यथा वा पल्लवोल्लासने समीरणेन व्याप्तिरध्यक्षजकृतास्पृश्यरूपपुरस्का
रान्नस्तिमितमारुतसाधारणरूपपर्यवसायिनी, अन्यथाद्यापि किसलयकम्पेन मातरि
श्वानमनुमापयन् स्पृश्यप्रभञ्जनानुरूपप्रवृत्तिनिवृत्ती निश्चयेनाचरेत्, तथा पुरुषेऽपि
प्रत्यक्षकृता व्यापितागृहीतिरदृश्यरूपपरिहारेणैव । तस्मात् प्रत्यक्षाव्याजेन यदि
परमिष्टमात्रमेव साधनं नाध्यक्षं दृश्यादृश्यसामान्येऽपीति व्याप्तेरभावात् सन्दिग्ध
विपक्षव्यावृत्तिकत्वमेव ।

प्रयोगः, यो यः प्रत्यक्षकृतः 25b कारणत्वनिश्चयः, नासौ दृश्यादृश्यरूपपर्यव
सायी, यथाग्नौ जठरजातजातवेदःसाधारणरूपं परिहरन् । प्रत्यक्षकृतश्चासौ बुद्धिमतीति
व्यापकविरुद्धव्याप्तोपलब्धिः । प्रत्यक्षकृतत्वं हि दृश्यविषयत्वेन व्याप्तमदृश्ये तस्या
प्रवृत्तेः, तद्विरुद्धं दृश्यादृश्यविषयत्वम्, तद्व्याप्तं दृश्यादृश्यरूपपर्यवसायित्वम् ।
किं च यदि दृश्यादृश्यविशेषणमवधूय धीमन्मात्रेण व्याप्तिर्विवक्षिता, एवं सति यदा
बुद्धिमदभावे कुम्भकार्यस्याभावमुपदर्शयेद् व्यतिरेकप्रतिपादनाय, तदा दृश्यादृश्य
विशेषणरहितचेतनमात्रस्याभावः केन प्रमाणेन सिद्धः, दृश्यानुपलब्धेर्दृश्यस्यैव
प्रतिषेधेऽधिकारात् ? अन्यथा तृणादिना व्यभिचारस्याशक्यपरिहारत्वाच्च ?

न च दृश्यपुरुषविषयैवानुपलब्धिर्बुद्धिमन्मात्रस्य व्यतिरेकबोधसाधनीभवितुम्
अर्हति, आत्यन्तिकविषयभेदस्य व्यक्तत्वात् । अन्यथा तृणादिजन्मन्यपि दृश्यपुरुष
विषयैवानुपलब्धिस्तद्व्यभिचारस्थिरीकरणकारणं स्यात् । न हि लाभे प्रवेशश्छेदे
निःसरणमिति न्याय्यम् । तस्माद् दृश्यविशेषणापोढपक्षे व्याप्तिग्रहणकाले व्यतिरेक
ग्रहणोपायाभावाद् अव्याप्तेः पुनरपि विपक्षव्यावृत्तिसन्देहः । न च नभस्युभयाभाव
विभावनमुपायो व्यतिरेकग्रहणस्य, कार्याभावस्य बुद्धिमद्व्यापाराभावप्रयुक्तत्वनिश्चया
नुपपत्तेः । तदपरकारणसाकल्ये हि तन्मात्राभावेऽभावः कार्यस्य तदभावप्रयुक्तः
प्रत्येतुं शक्यः । यथा त्रिकपञ्चकचिन्तायां चिन्तितम् । द्वयोस्तु क्वचिन्निवृत्तिमात्रम्
अकार्यकारणभूतयोरपि सुलभम् ।

किं च बुद्धिमत्कारणव्यापारविरहात् विहायसि कार्यत्वाभाव उत कारणमात्र
विप्रयोगादिति को निष्टङ्कः ? तथा च सति विफलः सकलो यत्नः । अन्वयोऽपि हि
कारणमात्रेण कार्यमात्रस्य गृह्यतामुतस्वित् पुरुषविशेषणेन कारणेनेति सन्देह एव ।
अथ दृष्ट एवायं विशेषः कथं परिहर्तु शक्यः, धूमे दहनात्मवत् । यद्येवं दृश्यशरीर

246
रूपोऽपि विशेषः प्रतीत एव, कथं परिहर्तुं शक्यः, चित्रभानोर्भासुराकारवत् ? स तर्हि
विशेषः कार्येण व्यभिचर्यत इति चेत् ? व्यभिचर्यताम् । कार्येऽपि कारणवद् यथा
परिदृष्टविशेषनिष्ठ एवान्वयो भवतु घटवत् सौधादावपि दृष्टत्वादिति किं नश्छिन्नम् ?
एतच्चान्वयमात्रं गजनिमोलितेन दूषणमवधीर्याभिधोयते । वस्तुतस्तु प्रत्यक्षानुप
लम्भयोरेकस्यापि व्यापारायोगान्नान्वयो न व्यतिरेकः । अस्ति च कार्यत्वमुर्वीधरादौ,
न च दर्शनातिक्रान्ते कर्तर्यन्वयव्यतिरेकौ स्पृशति । तादृक्चेतनकृतेतरत्वाभ्यां च
राश्यन्तराभावाद् गन्धादिवदसाधारणानेकान्त एव । तस्मान्न प्रत्यक्षेण कार्यमात्रस्य
व्याप्तिग्रहणमिति सिद्धम् ।

26a याताश्चैवं यदमी प्रत्यक्षानुपलम्भाविशिष्टकार्यजात्युल्लेखेनैव कार्य
कारणभावग्रहणप्रवृत्तयो न कार्यमात्रोल्लेखेन । तथा हि प्रत्यक्षानुपलम्भप्रवृत्तिसम
नन्तरमीदृशात् ज्वलद्भासुरस्वरूपवस्तुविशेषादीदृशं धवलिमलिप्तकण्ठाम्बकविकारकारि
वस्तु जायत इत्यनेनाकारेण हेतुफलभावव्यवहारः सर्वापरकार्यकारणजातिव्युदासेन
विशिष्टमेव जातियुग्ममुल्लिखन् प्रवर्तते । इयमेव गतिः सर्वत्र हेतुफलभावव्यवहृतौ,
ईश्वरानुरोधात् तु प्रसिद्धन्यायोल्लङ्घनमेतत् इति पश्यामः ॥

कः पुनरत्रापराधो यदि तार्णादिभेदमुदस्य वह्निना धूममात्रस्येव भूधरादि
भेदमप्युदस्य कार्यमात्रस्य बुद्धिमता व्याप्तिं प्रतीयात् प्रत्यक्षम् ? यथैव तर्हि वर्हिषा
कार्यजातिविशेषस्य धूमस्यावान्तरसूक्ष्मजातिमात्रमन्तर्भाव्य व्याप्तिग्रहो न तु तद्वि
जातीयस्पर्शः, तथा बुद्धिमताप्यस्तु वस्त्रादेः । यथा वात्यन्तविसदृशोरपि कार्यजातीः
अन्तर्भाव्य भूतिमन्मात्रस्य चेतनेन व्याप्तिं जिघृक्षसि, तथा वह्निनापि गृह्णीयाः ।
इन्द्रियप्रत्यक्षस्यैव हि व्यापार उभयत्र कथं भिन्नां वृत्तिमाश्रयेत ? व्यभिचारदर्शना
दर्शनकृतोऽयं विभाग इति चेत् ? तत्तर्हि दर्शनादर्शनं सङ्कल्पमनारूढं गच्छत्तृण
स्पर्शवदकिञ्चित्करमिति तदनुरूपविमर्शेनावश्यभाव्यम् । न चास्ति ।

न हि कश्चिदग्निधूमादिष्वन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भप्रवृत्तौ कार्यजातिः
अखिलानलादुत्पद्यत इति सङ्कल्पमनुभूय भूयो व्यभिचारदर्शनात् यतो वा कार्यान्तराणि
वह्निमन्तरेणाप्युपलब्धान्युपलभ्यन्ते वा ततो धूम एवानेन जन्यत इति निश्चयं परि
चिनोति, किं तु झगित्येव प्रत्यक्षानुपलम्भान्तरमस्मादग्न्यादेरिदं धूमादीति जाति
विशेषद्वयं हेतुफलभावव्यवहारभाजनीकुर्वन्ननुभूयतेऽनुसन्धानप्रत्ययः । प्रत्यक्षगोचरे
247 अन्वयव्यतिरेकयोर्न कश्चिद् विशेषः । यदा च विकल्पान्तरस्थितस्य झगिति कण्टकाद्
व्यथेत्यनुपलम्भपूर्विकाध्यक्षविहिता हेतुफलभावग्राहिणी मतिः, तदाभिव्यक्तो व्यभि
चारदर्शनविमर्शविरहः, समसमयासम्भवाद् विकल्पानाम् । तदिहाप्यस्मात् शिल्पिन
इदं पृथुबुध्नोदराद्याकारं कार्यमित्यवान्तरसूक्ष्मभेदमुदस्य व्यवहारः । यदा तु पट
शकटादिकमपि पुरुषादुत्पद्यमानं पश्यति, तदेदमपीदमपि पुरुषेण जन्यत इति
मतिरविसंवादिनी समुदेति ॥

किं च व्यभिचारो नाम किं सिद्धायामेव व्याप्तावनुमानमात्रं खण्डयति ?
अथ व्याप्तिरेव मिथ्येति व्यवस्थापयति ? अत्रापि पक्षे स्वसामर्थ्येन स्फुरत्येव व्याप्ति
ग्राहिणि प्रमाणे । यद् वा तस्यैव प्रामाण्यक्षयमादधानः, अद्यापि सर्वत्र विषये नियते वा ?
नियतेऽपि किमिष्टिवशात्, अथ प्रत्यक्षस्य तत्रैव प्रवृत्तेः ? प्रथमः पक्षस्तावन्न युक्तो
विरोधात् । न हि 26b साध्याविनाभावलक्षणा च व्याप्तिर्हेतोः साध्याभावसंभवकृत
श्चानुमानाभावः सङ्गच्छते, अन्यत्रापि व्याप्तावनाश्वासाच्च ।

एवं व्याप्तिग्राहिणि प्रमाणे प्रामाण्यादप्रच्युतिभृति व्याप्तिमृषात्वबोधनमप्य
सम्बद्धं बोद्धव्यम् । सर्वत्र च व्याप्तिग्राहिणः प्रामाण्यक्षये धूमादग्निरपि नानुमातव्यः,
अन्यस्य व्याप्तिग्राहिणोऽभावात् । किमिदानीं शरणमीश्वरानुमानस्य भविष्यति ?
स्वेच्छया च नियते विषये व्याप्तिविहितौ प्रमाणं वराकमुदासीनमिति न कश्चित्
हेतुरहेतुर्वा तत्त्वतः, धूमेऽपि स्वेच्छया व्याप्तिखण्डनप्रसङ्गात् । नियतविषयत्वं तु
व्यभिचारगोचरस्यापि प्रत्यक्षस्य कथम्, यावता यथा नियतजातिप्रवृत्तं व्याप्तिग्राहि
सर्वविषयमिष्टम्, तथा व्यभिचारगोचरमपि सर्वविषयमेवान्यूनानतिरिक्तशक्तित्वाद्
उभयोः ? तदेकविषय एव व्याप्तिग्रहो व्यभिचारवेदनं चेति किमधुना साधनमसाधनं
वा स्यात् ? भवतु वा भवदुपरोधाद् बाधबोधिनः प्रमाणस्य नियतविषयत्वम् ।
तथापि न खलु सकृदेव व्यभिचारवतां बाधबोधः, किं तु क्रमेण । तदा च व्यभिचारिणा
मपि व्यभिचारदर्शनमाहत्य नास्तीति धूमस्य ततो विशेषाभावात् पुनरहेतुत्वम्, हेतुत्वं
वान्यस्यापि ।

न च सर्वस्यान्यस्य व्यभिचारदर्शनैर्धूमे व्याप्तिविश्वास इति वाच्यम् । एवं हि
पुरस्ताद् धूमे व्याप्तिग्रहणानन्तरमेव पर्वतनितम्बे धूमाद् दहनानुमानं न शार्दूलादिति
न स्यात्, व्यभिचारदर्शनविलम्बापेक्षणात् । अशक्यं चैतदन्यत्र व्यभिचारदर्शनैरभि

248
मते व्याप्तिविश्राम इति । व्यभिचारविषयाणामप्यनन्तत्वाद् देशादिविप्रकर्षवतां
गोचरीकरणकालापेक्षया पुरुषायुषस्य कनीयस्त्वात् । तस्माद् व्यभिचारदर्शनवन्नियत
विषय एव व्याप्तिग्रहो निरपवादः, शुद्धेकाध्यवसायस्य विभागेन प्रवृत्तेः । अतएव च
स्वाभाविकविकल्पस्यैव कार्यकारणभावग्रहणेऽधिकारो नौपाधिकस्य ।

अस्ति हि शुद्धविषयजनितालोचनाज्ञानमात्रापेक्षो बालतिर्यक्साधारणो विकल्पः ।
स शुद्धः स्वाभाविक इति चोच्यते, यद्वशात् पशवोऽपि क्षुत्पिपासाप्रशमादिसाधनानि तत्रैव
समर्थान्यवधारयन्तः पुनस्तदन्वितया तथैव ततस्तत्र प्रवर्तन्ते, निवर्तन्ते वानन्वितया ।
अस्ति च सङ्केतस्मरणसचिवालोचनाज्ञानजनितो विकल्पः, यथा दीपात् कज्जलमा
लोकयतो नीलमिदं रञ्जनाद्युपयोगीत्येव विकल्पः पूर्वदृष्टार्थक्रियास्मरणसहायानुभवभा
वितस्तादृगौपाधिक उच्यते । न च तदा नीलविकल्प इत्येव प्रदीपादखिलं नीलमुत्पद्यत
इति प्रेक्षः कश्चिन्निश्चिनोति । किं तु यदेव कज्जलावलोकनमात्रानुरूपविकल्पपुरस्कृतं
27a वस्तु कज्जलशब्दसङ्केतयोग्यं जातियोगात् स्वरूपविशेषाद् वा तदेव प्रदीपकार्यं
व्यभिचारालम्बने चोक्तम् ।

एवं धूमेऽपि धवलमिदं वस्तु वह्नेर्जायत इति सङ्केतानुसारी विकल्प औपाधिक
एवाक्षिपति कार्यत्वेन तुहिनादिकम् । शुद्धे तु विकल्पे धूमजातिरेव परिस्फुरतीति तत
एव तुहिनादेर्व्याप्तौ निरासो न व्यभिचारालम्बनं साध्विति बोद्धव्यम् । तद्वत् कार्य
विकल्पोऽपि सर्वत्र औपाधिक एव । अपेक्षितपरव्यापारो हि स्वोत्पत्तावन्धः । कार्य
मिति सङ्केतस्मरणसहायादिन्द्रियज्ञानादुत्पत्तिरिति न हेतुफलभावव्यवहारस्याङ्गम् ।
ततो यद्यपि पुरुषात् घटोदयदर्शने घटोऽयमस्मादिति विकल्पवत् कार्यमिदमस्मादित्यपि
सुलभो विकल्पः, तथापि स्वाभाविकत्वाभावान्न तत्पुरस्कृतस्वरूपस्य तत्कार्यत्वव्यवस्था ।
नैसर्गिकविकल्पविषयीकृतस्य तु भवतु ।

ननु शुद्धावसायगोचरेऽपि विकल्पः सङ्केतस्मृतिजनितो दृश्यतेऽयं घटः पौरुषेय
इति नामोल्लेखात् । ततः सोऽप्यौपाधिकः प्राप्तः । न, तन्मात्रविकल्पने स्मरणस्य
अप्रयोजकत्वात्, वाचकांशोल्लेख एव तस्य सामर्थ्यात् । यद्यपि च वाच्यवाचका
कारोत्कलिताखण्डविकल्पोदयः स्मरणसाहायकेन, तथाप्यपोद्धारद्वारेण तन्मात्रे तद्
व्यापार उच्यते, मृन्मयत्वमात्रे कुलालस्येव । जात्यन्तरसमवायिकार्यत्वधवलतादि
धर्मकल्पनं तु सङ्केतसम्बन्धग्रहणादिप्राचीनव्यापारस्मरणमन्तरेण शुद्धाध्यवसायस्य
249
तन्मात्रजात्युल्लेखेनैव कृतार्थत्वाद् बालकादिवत्, अतस्तन्मात्रविषयैव प्रत्यक्षकृता
व्याप्तिरित्यनवद्यम् । तस्माद् व्याप्तिग्रहः प्रत्यक्षकृतो व्यभिचारप्रत्ययो वा भिन्नविषय
एवेति सिद्धम् ।

एवं तर्हि व्यभिचारदर्शनेन साधारणानेकान्तव्यवस्था दुःस्थेति चेत् ? एव
मेतद् यदि बुद्धिपाटवनियमः सर्वेषाम् । मन्दबुद्धिस्तु सादृश्यादिना जातिविशेष
प्रवृत्तेऽपि प्रत्यक्षे जात्यन्तरेणैकीकृत्य व्याप्तिग्रहाभिमानादनुमानमातिष्ठमानः पटुना
परेण व्यभिचारमादर्श्य व्याप्तिदुर्ग्रहमापाद्यते । अतः साधारणानेकान्तव्यवस्था ।
यथा धूमे प्रवृत्तेऽपि प्रत्यक्षे व्याप्तिग्राहिण्युच्छलद्वहलरूपमनलव्याप्तिमनुस्मरन् मारुतो
द्धूतधूलिपटलादनलमनुमापयन् वाष्पोदयेन प्रसिद्धोषर्बुधवैधुर्येण व्यभिचारमादर्श्य
वार्यते, ततोऽपि कारणात् जातिविशेषविषयैव व्याप्तिः प्रत्यक्षेण गृह्यत इति सिद्धम् ।

यदि हि धूमैकजातिप्रतिबद्धप्रतिबन्धबोधमध्यक्षम्, तदा सादृश्यापेक्षोऽन्यत्र
तद्रूपारोपः, सदृशान्तरव्यभिचारेण च वारणं युक्तम् । यदा तु कार्यजातौ सर्वत्र
व्याप्तिग्रहः, तदा किं सादृश्यापेक्षयेति ? यदि तर्हि जातिविशेषप्रतिबद्ध एवाध्यक्षेण प्रति
बन्धबोधः कथमत्यन्तविजातीयोऽपि ०तीया अपि घटकुटकुड्यादयः साधारणरागयोगिनो
27b हरिद्रादिद्रव्यसंस्कारमनुमापयन्ति ? कथं वा कुठारादि च्छेदक्रियायां दृष्ट
व्यापारं करणमत्यन्तविजातीयापि बुद्धिः क्रियात्वेनानुमापयति ?

एवमत्यन्तविजातीया अपि कैलासकुलिशादयः साधारणकार्यत्वादिधर्मकाः
पुरुषमनुमापयिष्यन्तीति चेत् ? नैवम्, व्याप्यस्य गमकत्वात्, तदपेक्षयैव सजातीय
विजातीयतायाश्चिन्त्यत्वात् । व्याप्यं च निर्वर्त्यविकार्यकर्मापेक्षया द्विविधं धर्मिरूपं
धर्मरूपं च । तत्र सर्वथापूर्वोत्पत्तौ धर्मिणो व्याप्तिरुच्यते, धूमादिवत् । तदा च
धूमान्तरमेव सजातीयम्, विजातीयमन्यद् वस्तु । यदा तु पूर्वस्थितस्यैव धर्मान्तरो
त्पत्तिव्यवसायः, तदा धर्मव्याप्तिरुच्यते, पयसि औष्ण्यादिवत्, तदा च औष्ण्यान्तर
मेव सजातीयो धर्मः, नाधुना धर्मिजातेरपेक्षा ।

एवं रागोऽपि घटकुटादिद्रव्यवैजात्यमवमत्य स्वयं स्वजातीयकार्यापेक्षयैव
रागद्रव्यसंस्कारस्य गमकः । अतएव तद्विशेषे क्वचित् कुङ्कुमस्य सम्पर्कः क्वचित् हरिद्रा
देरनुमीयते । न चैवं पूर्वस्थिते भूधराम्भोधरादौ कार्यत्वादिमात्रनिर्वर्तकः पुरुष
इष्टः, किं तु कुम्भादिवदपूर्वकोत्पादक एव । तदा च धूमे धवलतादिवत् कार्यतादयः
250
सन्तोऽपि जात्यन्तरसमवायिनो धर्मा व्याप्तेर्बहिर्भावादकिञ्चित्करा एव । तस्माद्
धर्मिवस्तुव्याप्तिग्रहो न धर्ममात्रप्रत्यासत्तिमनुरुध्यते । नापि धर्मव्याप्तेर्धर्मिणः स
जातीयताम् । शुद्धैकविमर्शापेक्षया च सजातीयेतरव्यवस्थानमुक्तम् । नातो रागवद्धर्मि
वैजात्येऽपि कार्यत्वादीनां गमकत्वम् । अन्यथा पाण्डुद्रव्यादपि हव्याशनानुमान
प्रसङ्गो दुष्परिहरः, व्यभिचारोत्तरस्य दूषितत्वात् ।

इन्द्रिये त्वेवमनुमानम् । यदन्यकारणसन्निधौ कादाचित्कम्, तत् कारणान्तरा
पेक्षम्, यथा पाथःपृथ्वीसन्निधावङ्कुरः, विषयमनस्कारालोकसन्निधौ च कादाचित्की
बुद्धिरिति स्वभावहेतुः । अनपेक्षत्वे विपक्षे कादाचित्कं विरोधादनवस्थायीति
बाधकात् व्याप्तिसिद्धिः । यत् तदन्यदपेक्ष्यं तदिन्द्रियमिति व्यवस्था, ततो न क्रिया
त्वेन कारणानुमानं, नापि प्रत्यक्षं व्याप्तिग्राहि । अवश्यं च स्वाभाविकविकल्पामुखी
कृतजातिभेदपुरस्कारेणैव सामान्यग्रहणमेषितव्यमध्यक्षस्य, अन्यथा यदा प्रत्यक्षेण
व्याप्तिमेकामुपदर्श्यायं घट इति सङ्केतः क्रियते, तदा किमसौ कार्यत्वादिधर्मयोगि
विश्वमाविशति ? व्यभिचारदर्शनेन च नियतविषयतामुपनीयते ? उपदेष्टैव वा सर्वान्य
जातिषु निषेधन् विषयनियमे निष्ठापयति ? अथ सामान्यविषय एव नासौ समयः ?

एवं वाचकजातिभेदेऽपि द्रष्टव्यम् । कार्यशब्दस्तु प्रत्यक्षमनपेक्ष्य विकल्पमात्र
गोचरिते परापेक्षोदयमात्रे निवेशित इति न विशेषवृत्तिः । यदि तु सोऽपि प्रत्यक्ष
वर्तिन्ययं कार्य 28a इति निवेश्येत, सोऽपि तत्पर्यायान्तरवान्नियतवृत्तिरेव स्यात् ।
तस्मात् कायजातिविशेषविषयीकरणमेव निसर्गः प्रत्यक्षस्य । यदि च कार्यजातिभेदे
प्रवृत्तमपि प्रत्यक्षं कार्यमात्रमधिष्ठानीकरोति, कारणे तर्हि प्रवर्तमानं कारणमात्रमेव
व्यापकमवधारयतु, कस्मादुपादानादिवेदनविशिष्टमवलम्बते ? ततो यदि न भवदभि
प्रायानुरोधोऽध्यक्षस्योभयत्र सामान्यावलम्बिना विशेषावलम्बिना वा भवितव्यमनेन,
सामान्यालम्बने कार्यात् कारणानुमानमिति का वार्तेश्वरसिद्धेः ? विशेषावलम्बने च
कार्यमात्रव्याप्तेरसिद्धेरिति । तस्मादनुभवाद् युक्तश्च विशिष्टामेव कार्यजातिं हेतुविशेष
व्याप्तामुपदर्शयति प्रत्यक्षमिति ।

प्रयोगः । यद् यत् कार्यकारणभावग्राहि प्रत्यक्षम्, तद् विशिष्टजातिप्रति
नियतव्यापारम्, यथाग्निधूमयोः । तथा चेदं बुद्धिमता कार्यस्य व्याप्तिसाधनमिति स्व
भावहेतुः । नास्यान्यथाव्यापाराशङ्कयानेकान्तः, कारणानुपलब्धिबाधितत्वात् । कारण
भेदो हि कार्यभेदस्य कारणम्, अन्यथा सर्वस्याहेतुकत्वप्रसङ्गात् । न चास्य कारण

251
भेदोऽस्ति, विषयेन्द्रियालोकादिलक्षणसमानसामग्रीप्रभवत्वादिति । दृष्टान्ते साध्य
शून्यताशङ्कायां च यद् यत् प्रत्यक्षम्, तत् तद् विशिष्टजात्यैव सामान्यावलम्बनम्,
यथा व्यभिचारग्राहि प्रत्यक्षम्, प्रत्यक्षं च व्याप्तिग्राहीति स्वभाव एव । स एवानेकान्त
परिहारः । बुद्धिमत्कार्ययोरपि व्याप्तिग्राहिणि धर्मिण्ययमेव वा प्रयोगः । अथवोभय
त्रापि यद् यत् सम्बन्धग्राहि प्रत्यक्षं तद् विशिष्टजात्यैव, यथा वाच्यवाचकयोः,
सम्बन्धग्राहि च प्रत्यक्षं कार्यकारणयोरपि पूर्ववत् । तदयं यदि तत्त्वतः कृत्स्नोऽपि
कार्यग्रामः प्रयत्नवन्नान्तरीयकः, तथापि कार्यजातीनामत्यन्तविलक्षणानामानन्त्यात्,
प्रतिजातिभेदं च व्याप्तिग्रहणापेक्षणात्, यावज्जातिकं कार्यं पुरुषपूर्वकं परिच्छिन्नम्,
तावत एव तदनुमानमाञ्जसमिति युक्तमुक्तम्,

सिद्धं यादृगित्यादि ।

तथा च वह्नेरेव धूमभस्माङ्गारपाकपारदोत्सारणवीक्षणक्षतिप्रभृतिषु कार्येषु
यत्र यत्रैव प्रतिबन्धसाधकमध्यक्षं प्रवृत्तम्, तत एव तदनुमानम्, नान्यस्मात् । एवं
देवकुलकलसप्रासादस्यन्दनदुकूलादिषु वस्तुवृत्त्या पौरुषेयेष्वपि यज्जातीयेष्वेव पुरुषक्रियोप
लब्धिरासीत्, तज्जातिकादेव कार्यात् तदनुमानमनुमन्यामहे । धाराधरधराधरादिजातौ
पुनस्तद्व्यापारानवधारणात् कानुमानवार्ता, जातिवैजात्यस्यात्यन्तिकस्य सम्भवेन
व्याप्तेरग्रहात् ? गृहीतव्याप्तेश्च कार्यस्यादर्शनात् ॥

क्रीडापर्वतकादिनिर्मितिदृशां शैलादिषु ज्ञानुमा
नापि न्यायसहा स्खलद्गति यतस्तन्नाममात्रं समम् ।
किं चानेकसमानमानवकृताः सिध्यन्ति चेदीशिनः
का वार्ता फलसाम्यसंविदि कुतो हेतोर्विशेषस्थितिः ॥
28b इति ह्यन्तरश्लोकः ॥

कीदृशी पुनः कार्यजातिः प्रयत्नवता व्याप्तेत्याशङ्क्य तस्या अप्यानन्त्यात्
संक्षेपार्थमुच्यते, यद्दृष्टेरर्थक्रियादर्शिनोऽपि कृतबुद्धिर्भवतीति । तत्र च कृतबुद्धिरिति
न साधनबुद्धिः, नाप्युपादानाद्यभिज्ञलक्षणप्रकृतसाध्यबुद्धिः, किं तु कुविन्दादिस्वभाव
साध्यबुद्धिः । तदभावाच्च न साक्षाद्भवदीयहेत्वसिद्धिः प्रकृतसाध्यसिद्धिर्वा विवक्षिता,
किं तु आत्यन्तिकवैजात्यप्रदर्शनमेतत् । तद्द्वारेण च हेतोरसिद्धिरव्याप्तिर्वाभिमतैव ।

252

तथा हि शून्यनगरपरिदृष्टदेवकुलादौ कुलालादिसमशिल्पिबुद्धिराविरस्ति,
न मलयमकरालयादौ । तस्याः शिल्पिबुद्धेर्भावाभावौ न जातिभेदमात्यन्तिकमन्तरेण
इत्यभिप्रायः । व्याप्तेरग्रहणे स्मरणसंस्कारभ्रंशे वा देवकुलादावपि न स्यादियं समानं
शिल्पिबुद्धिः । ततो यथा धूमादग्निबुद्धिर्भवन्ती गर्दभादभवन्ती धूमाद् गर्दभस्य नियतं
जातिभेदमापादयति, तथेयमपि परिनिश्चितपौरुषेयभावेभ्यो भावेभ्यः कैलासकुलिशा
दीनाम् ।

कथं पुनरनुमानाभाव एव प्रत्येतव्य इति चेत्, कुम्भकारादम्भोददम्भोलि
प्रभृतिसम्भव इति स्वप्नेऽपि शङ्काविरहात् । अन्यथा कुविन्दपादमर्दनादनावृष्टिकष्टम्
आविशेत् न लोकः, परचक्राक्रान्तिकातरो वा क्षितिधरजलधिव्यवधिमभिलषंस्तत
एव निर्वृत्तिमासादयेत् । कुविन्दस्थानीयस्तत्रापरोऽपेक्ष्यत एवेति चेत्—न, समाने
कार्यजन्मनि विजातीयकारणगवेषणानुपपत्तेः, कुविन्देनैव साध्यसिद्धेः । न हि पटान्तरे
अपि कुविन्दादपरस्यापेक्षा ।

अस्ति च वस्त्रविशेषे विशिष्टशिल्पिनोऽपेक्षेति चेत् ? अस्ति, यावदेव तु
वस्त्रान्तरेणैकजातिपरामर्शो दृढः, अत एव कुविन्दस्यैव शिल्पिनः कल्पनम् । तद्वि
मर्शाभावे पौरुषेयताया एव सन्देहः । मेरुमन्दरादयस्तु न केनचित् पौरुषेयेणैक
प्रत्यवमर्शभाजः । तदेषामध्यक्षसिद्धमत्यन्तवैजात्यं शाठ्यादपह्नवानः समानशिल्प्यनु
मानविरहेण स्वीकार्यते । सिद्धे च जातिभेदे यादृक् कार्यं कुम्भादि पुरुषप्रतिबद्धं
सिद्धम्, न तादृग्गर्भार्भकादि । यादृक् चेदं न तादृक् पुरुषव्याप्तमिति सिद्धा असिद्धिः
अव्याप्तिश्च द्वयोः । एवं च स्थिते प्रकृतसाध्यबुद्ध्यजननद्वाराणि दूषणानि दूरम्
अपास्तानि ॥

न हि वयं प्रकृतसाध्यबुद्धेरभावात् कार्यत्वादिहेतोरसिद्धिं ब्रूमः । किं तर्हि ?
मन्दरादौ कुविन्दसमशिल्पिबुद्धेरभावादम्बरादिसजातीयकार्यत्वासिद्धिम् । ततश्च
प्रकृतसाध्यबुद्धिवैधुर्यमिति न कश्चिद् दोषः । कुविन्दसाध्यापेक्षया च व्याप्तिग्रहण
स्मरणसंस्कारभ्रंश एवेष्ट इति न भूषणविकल्पावकाशः । कृतकत्वमात्रप्रतीतिस्तु न
विवक्षितैव । अभ्रष्टस्मरणानां तावद् भवत्येव पुरुषकृतबुद्धिः क्षित्यादिष्विति तु
दूरमपकृष्टम् ।

बौद्धकृतस्य हि 29a कृतबुद्धिनिषेधस्यासिद्धिः प्रस्तुता अभिधातुम् । न च
सा शक्या, कृतबुद्धिशब्देन शिल्पिबुद्धेरस्य विवक्षितत्वात् । पुरुषकृतबुद्धिभावविभावनं
253
पुनरनुपयोगि । प्रतीत एव तस्मिन् दूषणचिन्तेयम् । तत्राप्यभ्रष्टस्मरणानामित्यसङ्गतम्,
अत्यन्तवैजात्यसिद्धेः सिन्ध्वादेरन्यतो न व्याप्तिप्रतीतेः, स्मरणसंस्कारभ्रंशस्य परि
हर्तुमशक्यत्वात् । अत एव जगत् केनचित् सृष्टमिति प्रलापमात्रे क आश्वासः ?
प्रकृतसाध्यबुद्ध्यासिद्धिचोदनपरिहारादेव च वेदेष्वपीत्यादि प्रत्यादिष्टम् ।

यदि तु पौरुषेयवाक्यादेरत्यन्तं वेदस्य वैजात्यमुपदर्शयेत् मीमांसकः, तत् किं
समयमात्रेण पराजेतव्यः ? न तु तयोः स्वरूपद्वारकः शक्तिद्वारको वा कश्चिद्
विशेषोऽस्ति । तथा च तत् द्वयमगृहीतसंकेतस्य पुरः पठित्वा प्रतीहि कस्य कीदृशं
विशेषं व्याकुर्वीत श्रोता, किं न वा पश्यसि गरुडादिमन्त्रकृतं विषापाकरणादि ?
तदेतदायातम्,

एकः कार्यविशेषमेव कलयन् हेतोर्विशिष्टं निजं
लक्ष्याग्नेरिव कार्यमात्रममुना व्याप्तं समुत्पश्यति ।
तज्जातीयकमेव कार्यमपरो नावैति तद्धेतुकं
हन्त ध्वान्तविशेष एष विदुषामध्यक्षवस्तुन्यपि ॥

तस्मात्,

यद् वाचः पुरुषान्वयव्यतिरिचोस्तद्भावभाजः स्थिता
नान्यस्माद् वचसश्च वदिकगिरां भेदोऽस्ति शक्यात्मनोः ।
तुल्यातीन्द्रियसूचना च नियतं नैकत्र चाश्वासनं
वेदस्तेन न पौरुषेयपदवीमप्राप्य विश्राम्यति ॥

यदि तत्, का कथा विचारगोचरातीतात्यन्तिकजातिभेदेषु कुम्भादम्भोद
दम्भोलिप्रभृतिषु तज्जातिनियतप्रतीतेः पौरुषेयतायाः ? यदप्यनित्यतासाधनायोपा
लब्धम्, तदपि न्यायबाह्यम् । प्रत्यक्षेण प्रतिबन्धबोधाधिकारे हि तादृशी सजातीये
तरत्वमीमांसा । अनित्यत्वे कृतकत्वमात्रस्य विपर्ययबाधकप्रमाणादनुमानस्वभावात्
प्रतिबन्धसिद्धिरिति न तत्र जातिविशेषानुरोधः । जातिविशेषानवच्छिन्ने तु कृतकमात्रे
व्याप्तिसाधनसमर्थमसमर्थं वा तत् प्रमाणमिति चिन्तनीयम् । शक्तौ न दोषस्पर्शः ।
अत एव तत्र घटशब्दभेदेन भेदोद्भावनं दृष्टान्तदार्ष्टान्तिकवैधर्म्याभिधानमिति न
युक्तम् । यतो धर्मिरूपादाकृष्टधर्मद्वयस्य व्याप्तिव्यवस्थापनाद् धर्मवस्त्वेव धर्मीति
तद्भेदाभिधानस्य धर्मिमात्रभेद एवार्थः ।

254

इहापि तर्हि कार्येषु धर्मिषु पौरुषेयत्वं साध्यं कार्यत्वमात्रं हेतुरिति न विशेषः
कश्चिदिति चेत् ? उच्यते, कार्यत्वमात्रं हेतुरिति कोऽस्य भाषितस्यार्थः ? किं तावन्मुख्य
तया धर्ममात्रे कारणस्य कुङ्कुमादेरेव रागे व्यापारादेवमुच्यते ? उतस्वित् कार्त्स्न्येन
कार्ये व्याप्तिसिद्धेः, धूमत्वमात्रं हेतुरितिवत् ? यथा कृत्स्नो धूमः साध्यव्याप्तः, तथा
यावत् कार्यं तत् कृत्स्नं पुरुषव्यापारजन्मकमिति निश्चयात् । तदेतदुभयमपि निरस्तम् ।
कृतकत्वमात्रमनित्यत्वव्याप्तमिति तु कार्त्स्न्यपर एव भावनिर्देशः, यावत् कृतकं तत्
सर्वमनित्यमित्ययमेवार्थः । 29b अत्रार्थे प्रमाणबले मिलिते सिद्धे च ध्वनेः कृत
कत्वे घट एव कृतकोऽनित्यो दृष्टः कथं शब्दः स्यादिति निरवकाशमेवेत्ययमेवार्थो
धर्मिमात्रभेदोऽयमित्यनया रीत्या प्रकाश्यते ।

यथा हि स्वभावहेत्वधिकारप्रस्तावात् साध्यसाधनधर्मौ विकल्पारूढरूपापेक्षया
भिन्नौ व्यवस्थापितौ तथा धर्म्यपि शब्दादिः, अन्यस्य तद्धर्मणोऽभावात् । न चान्यत्र
धर्मिणि कृतकवस्तुना अनित्यवस्तुसाधने ध्वनेरनित्यतासिद्धिः । तस्य च धर्मिणो घट
शब्दभावेन भेदमापादयन् दूषणमभिधाय निगृह्यते धर्मिमात्रभेदद्वारेण । प्रस्तुते तु
कार्यहेत्वभिमानाद् धूमस्थानीयः कार्यराशिः साध्यश्च भिन्नोऽग्निवत् पुरुषः । केवलं
नाग्निवत् तद्देशकाल एव । किं तु जन्मदेशकाले सन्निहितो निश्चेयः, भस्मकुम्भाभ्याम्
इवानलकुलालौ । ततो यथा कुलालपूर्वोऽयं घटो घटत्वादित्युपन्यासेऽप्युत्पत्तिकाल
देशसन्निहितव्यापारः कुलालो निश्चीयते, घटश्च हेतुर्वस्तुतः, तथा पुरुषेऽपि साध्ये
वस्त्वेव हेतुर्न कार्यत्वधर्मः, तथा सति पुरुषव्याप्तात् कार्याद् विलक्षणं क्षीणीधरादि
कार्यामति वदता साधनवैसदृश्यमुद्भावितम्, न धर्मिवेसदृश्यम् । तदा हि तदुदयदेश
कालमेव धर्मि, न च कलसादिकालदेशात् कैलासादिकालदेशवैसदृश्यं कश्चिद् वक्तुमुप
क्रान्तो येन धर्मिवैसदृश्योद्भावनं भवेत् ।

तस्माद् दहनरूपमात्राद् दहनानुमानवत् साधनवैसदृश्योद्भावनमेतदसिद्धिम्
अव्याप्तिं वा दर्शयितुं धर्मिण इति तु विप्लवः परेषाम् । अयमेवार्थो यादृक् कार्यत्वं
देवकुलादौ पुरुषव्याप्तं प्रतीतम्, न तादृग् युगन्धरादावित्यनया दिशोपदिश्यते ।
यज्जातीयं देवकुलादि पुरुषव्याप्तं न तज्जातीयं युगन्धरादीत्यर्थः । अत्यन्तवेजात्याच्च
कार्यशब्दमात्रसाम्यमुच्यते न पुनरकार्यव्यावृत्तेः क्वचित् न्यूनभावः । व्याप्तौ तु कार्य
त्वादेरनन्तर्भावं ब्रूमः । अतएव तन्मात्रेण साम्यं नोपयोगि, मूर्तत्वादिनेव दहना
नुमाने ।

255

मञ्जर्यास्तु पर्यनुयोगोऽस्थानपतितः । घटादिजातिरेव पुरुषव्याप्ता सिद्धेति
वदतान्यत्र संशयमात्रस्य विवक्षितत्वात् । कुलालादिमनुष्यकृतबुद्धिश्च कृतबुद्धिरुक्ता ।
तदभावश्च जातिभेदे उत्तरीकृतः । स चोभयसिद्धतया न विसर्जनान्यवकाशयति ।
न चात्यन्तिकजातिभेदमन्तरेणोपपद्यत इति निवेदितम् ।

एवं वाचस्पतेरपि विशेषगवेषणं कृतबुद्धिवैधुर्यस्याभिधेयप्रयोजनयोरपरिज्ञान
प्रयुक्तमिति वेदितव्यम् । यदि हि कृतबुद्धिर्नास्तीति प्रकृतसाध्यबुद्धिर्नास्तीति विवक्षि
तम्, तदा प्रतीतिकलहेऽमुष्मिन् कुतो विशेषादन्यत्र सा भवति पर्वतादौ तदभावान्नेति
चिन्त्यते । यदा तु कृतबुद्धिर्नास्तीति 30a समानशिल्पिकृतबुद्धिर्नास्तीत्यभिधेयम्,
तत्र च न विवादः । प्रयोजनं च कुम्भादिभ्योऽम्भोधरादेरत्यन्तवैजात्यख्यापनम् ।
तदप्यशक्यपरिहारम् । ततो गृहीतव्याप्तिकेभ्योऽत्यन्तविलक्षणात् कथं प्रकृतसाध्य
बुद्धिरित्यभिप्रेतम् ? तदा प्लवत एव सकलमेवंविधम् । उत्पत्तिमन्मात्रे च व्याप्ति
निरसतात् हन्तोत्पत्तिमदित्याद्युत्तरं कालदण्डखण्डितमेव । तेन घटे दृष्टव्याप्तिकस्य
घटसजातीयमेव बुद्धिमत्पूर्वकम् । यदा तु प्रासादादावपि व्याप्तिग्रहस्तदा तज्जातेरपि
तत्पूर्वकत्वसिद्धिरित्यप्युक्तम् ।

यच्चाथ यज्जातीयमित्याशङ्क्य, किं कार्यजातीयम् ? तथा न दृष्टमित्युत्तरम्,
तदपि स्वाभाविकविकल्पावभासिनः सामान्यस्य प्रत्यक्षेण व्याप्तिग्रहणयोग्यतासमर्थ
नात् कदर्थितम् । तस्माद् यदपि औपाधिकविकल्पप्रतिभासिनापि रूपेण तज्जातीय
व्यवहारो दुष्परिहरः, व्याप्तिग्रहणे तु प्रतिक्षिप्तत्वान्महान् विशेष इति ।

अत एव वित्तोकविकल्पा अपि न किञ्चित् । तथा हि, यद्यस्मदभिप्रायप्रश्नः,
तदा विशिष्टैव कार्यजातिर्देवकुलकलसादिलक्षणा बुद्धिमद्व्याप्ता यद्दृष्टेर्हि परोक्षक्रिय
स्याप्यनुभूतसजातीयशिल्प्यनुमानम्, सा न सिद्धा सिन्धुभूधरादौ । कार्यत्वमात्रं तु
न व्याप्तमित्युच्चैस्तरां तन्वन्त एवास्महे । तत्र किमेभिर्विकल्पैरिति चिन्तय । यद्विशेषाद्
विशिष्टा कार्यजातिः स विशेषः किमनिरूपितरूप एवेत्यपि पापीयः, प्रत्यक्षसिद्धानां
कार्यजातीनां परस्परवैसदृश्यस्यापह्नोतुमशक्यत्वात् । व्याप्तिस्तु विशिष्टायां जातौ
भवतु कार्यमात्रे वेत्यत्र परमापाततो विमन्तुमर्हति । कथमन्यथा स्वयमपि वस्तुत्व
स्याग्निकार्यत्वासंजननं व्यभिचारमालम्ब्य परिहृतम् ? व्यभिचारबुद्धीनां नियतजाति
विषयत्वे विवादाभावादित्याविर्भावितमेव । तस्मादाकारार्थक्रियासामर्थ्यादिवेदनात्
256
चित्राकारे जगति नियतमीश्वरप्रसादादेवालौकिकमेकाकारमालोकितमस्येत्युपेक्षैव
ज्यायसी ।

यदपि प्राचीनमुपादानोदाहरणमस्य कार्यमात्रे व्याप्तिसमीहया, तदपि नौप
यिकम्, तत्रापि प्रत्यक्षव्यापारस्याशक्यसाधनत्वात्, नैसर्गिकविकल्पविषयत्वात्,
उपादानस्य दृश्यादृश्यस्वभावत्वाच्च । तत् किमिदानीमुपादानेन कार्यराशेर्व्याप्तिरेव
नास्ति ? आहोस्वित् प्रमाणान्तरगम्या भवत्विति चेत् ? उभयत्र संशयः, सतोऽपि
व्यभिचारस्य विपर्ययबाधकानुमानस्य वानुल्लेखसंभवादिदानीमेकान्तहेतोरभावात् ।
तदयं सोपादानं सर्वोत्पत्तिरिति सर्वतन्त्रसिद्धान्तोऽविरोधादनुवृत्तः, यावच्च कार्यम्
आलोकयामस्तावदुपादानवदेवेत्यविगानेन व्यवहारोऽपि । न च कार्यपर्यन्तबोधः
पृथग्जनस्येति तनीयसापि विपरीतांशेन संशयो दुर्वारः । बुद्धेश्च बुद्धिरुपादानं निश्चिता
इति विज्ञानस्य विज्ञानान्यानुपादानाच्च सिध्यतीति न विरुध्यते, ततो यदि सिद्धान्ता
दपि 30b तद्व्याप्तिव्यवसायो न काचित् क्षतिः । प्रत्यक्षात् तु मा भूत्, केवलमत्र
पक्षेऽचेतनोपादानत्वहेतुरेकदेशसिद्धः शङ्क्येतेति व्यवस्था । सा चायातैव, किं क्रिय
ताम् ? विपर्ययबाधकप्रमाणलाभे तु सापि न स्यात् । केवलं प्रत्यक्षेण कृत्स्नकार्य
व्याप्तिवादेऽनुदाहरणमेवेदम् । अतः प्रत्यक्षस्य जातिविशेषे व्यापारनियमप्रसाधनाद्
विशेषहेत्वभावादित्याद्यपि ध्वस्तम् ?

यत्पुनरपरस्य2471 विपर्ययबाधकप्रमाणोपन्यासपौरुषम्, तत्रापि प्रथमद्वितयं
तावद् बाधकं धूमस्येव सिद्धायामेव तदुत्पत्तौ तत्साधकप्रत्यक्षानुपलम्भस्य विशिष्ट
जात्यधिकारेण प्रवृत्तिसाधनाद् विशिष्टमेव घटादिकार्यं प्रति शक्यम् । एवं च यदि
बुद्धिमन्तमन्तरेण जायेत सकृदपि ततो न भवेत्, अनियतहेतुत्वे वाहेतुत्वमिति न
कार्यमात्रं प्रति, तस्य पुरुषादुत्पत्तिप्रसाधनाभावात् । ततश्च तत् कार्यं यत् पुरुषपूर्वम्
इत्यपि निरवकाशम् ॥

नापि कार्याविरामप्रसङ्गसङ्गतिः, स्वकारणायत्तसन्निधेरदृष्टपरिणामसहकारिणः
कारणावस्थाविशेषस्य सततमभावेऽपि कार्याणां कादाचित्कतोपपत्तेः, यदपेक्षया नित्य
शक्तेरपि ईश्वरस्य शश्वन्न करणत्वम् । एकावस्थानियमे हि कारणान्तराणां प्रवृत्ति
निवृत्तिसाधनीच्छा प्रार्थ्येत । स च नास्ति, बीजस्योच्छूनतरतमादिभाववत् परिणाम

257
परम्परापरिचयस्य तेषामपह्नोतुमशक्यत्वात् । अस्तु वा एकावस्थानियम ईश्वरस्य
इच्छाया अपि नित्यत्वात् तदवस्थः कार्याविरामः, अनित्ये तु यदपेक्षोऽस्याः कदाचिद्
भावः, तदपेक्षया कार्यग्रामस्य यदि स्यात् कीदृशो दोषः ? कुम्भादिकार्यक्रमेऽपि तर्हि
किं पुरुषेच्छया, यदपेक्षोऽस्याः क्रमः, तदपेक्ष एव कुम्भादेरप्यस्तीति वक्तुं शक्तेः ?
तदयुक्तम्, प्रमाणेन दृष्टसामर्थ्यस्य हेतोरपोहितुमशक्यत्वात् । प्रस्तुते तु प्रमाणा
भावात् कार्यकादाचित्कतामात्रमाश्रितं तदन्यथाप्युपपत्स्यत इति कुतः पुरुषापत्ति
नियमः कार्यस्य ?

अथ कुम्भादेः कदाचिद्भावः पुरुषाधीनो दृष्ट इति कार्यान्तरस्यापि तथेति
चेत् ? एवं तर्हि तदेव दर्शनादर्शनमात्रं व्याप्तिसाधनमायातम्, किमत्र विपर्ययबाधको
पन्यासशौटीर्येणेति तृतीयमपि निरस्तम् ॥

यच्चोच्यते, कारणसन्निधेर्धीधनाधीनो निश्चित इति, तत्रापि तथा दर्शनमात्रा
श्रये एतदेव वाच्यम् । विपर्ययबाधकं च न किञ्चिदुक्तम् । प्रत्यक्षानुपलम्भशरणीकरणे
च वातोपघातादिमिलज्जम्बालबीजादिसामग्र्या अनैकान्तिकत्वादि सर्वमाक्षेपपरिहार
समेतं कार्यबदवगन्तव्यं सामग्रीविशेष एव व्याप्तियोग्य इत्येतत्पर्यन्तम् । तन्न कारण
सामग्र्याः पुरुषेण व्याप्तिसिद्धिः, यतो विपक्षे व्यापकानुपलम्भादसम्भव इति चतुर्थ
मपि कदर्थितम् ॥

तावतैव वाचस्पतेरपि 31a हृदयशून्यः प्रलापोऽपहस्तितः । यथा हि वि
ततानां तावदजननबीजमुक्तमवस्थाविशेषाभावो नाम । यद्यपि दण्डचक्रादीनां पुरुषा
देव मिलनमुपलब्धं तत्प्रयत्नसचिवानां च कार्यारम्भः, तथापि सर्वत्र सर्वदा वा
तथैवेति नियमयितुः प्रमाणस्याभावात् कार्योत्पादव्यापकस्यापि कारणसमवधानस्य
बुद्धिमदधीनत्वेन व्याप्त्यसिद्धेस्तदवस्थो दोषः । यथा च कारणान्तरदशाविशेषाश्रये
णैव कार्याणां कदाचिद् भावस्तथा प्रकृतविशेषोऽपीति पञ्चमं च पञ्चतामञ्चितम् ॥

कारणमात्रापत्तिसाधनं पुनरेतदिति दर्शितं शास्त्रे ॥

एतेनैव शङ्करोक्तमपि नापि कश्चिद् विशेष इत्यादि काव्यरचनामात्रमा
पादितम्, प्रतिबन्धसाधकप्रमाणपर्यादानात् । यद्यपि च निरभिप्रायव्यापारत्वेन प्रासा
दादिहेतुभ्यो भूभूधरादिहेतूनां न विशेषस्तथापि प्रयत्नवदपेक्षानपेक्षाभ्यां यदि स्यात्
को दोषः ? यथा पार्थिवत्वाविशेषेऽपि लोहलेख्यत्वालोहलेख्यत्वे । अवश्यं च निरभि

258
प्रायत्वाविशेषेऽपि विशेष एषामेषितव्यः शक्तेः, कथमन्यथा कार्यवैजात्यमात्यन्तिकम् ?
तदसौ शक्तिः प्रयत्नवदपेक्षावैमुख्यमपि यदि क्षमेत का क्षतिः ? किं च कर्तुरपि
करादिव्यापारमन्तरेण समीहामात्रात् न मूर्तकार्यसिद्धिरुपलब्धा, तमतिवर्तमानानां
भूधरादीनां का गणना समीहामात्रे ?

करादयोऽपि समीहया प्रवर्त्थन्त इति चेत् ? समीहापि सन्निवेशिनि शयादि
व्यापारविरहे न किञ्चित्करीत्युक्तम् । ततो यया शक्त्या करादिव्यापारपारवश्यमपास्य
महीधरादिहेतवो निरभिप्रायत्वे सत्यपि न कार्यकर्मणि प्रतिहन्यन्ते, तया समीहामपि
नातिक्रमेयुरिति क एवं श्रद्दधीत ? न हि धूमोदयकाले उच्छलद्बहलरूपं वस्तु वह्नी
न्धनजन्यतया सम्भावितमेकाभावनिश्चये निश्चीयमानमन्याभावेऽपि न भावशङ्कायां
निवेशयति, तादृगेतदपि ॥

शरीरस्वीकारे तु प्रादेशिककार्यानित्यानेकासर्वज्ञत्वात् साधु साधितः सुधी
भिरीश्वरः । एतेनैव वा व्यभिचारः कार्यत्वादेः । न ह्यनधिष्ठितानामित्यादिवचनाद्
दर्शनादर्शनमात्रादन्यमुपायमस्य व्याप्तिसाधनाय स्पृशति, तच्च कृतोत्तरम् । यदि च
दर्शनादर्शनमेव शरणम्, तदा यथा समीहावतः कार्यक्रिया दृष्टेति कार्ये सति समीहा
वतोऽनुमानमिष्टम्, तथा करादिमत एव मूर्तक्रिया दृष्टेति करादिव्यापारानुपपत्तौ
पुरुषस्याक्रियैव कस्मात् न निश्चीयते ? न खलु कार्यहेतुव्यापकानुपलम्भयोः प्रामाण्ये
कश्चिद् विशेषः । यदि तु दर्शनादर्शनमात्रमनास्थाय प्रमाणान्तरमेकनियतं स्यात्,
स्यादेकसाध्यबुद्धिः, तदभावे तु प्रतिबन्ध 31b एव तयोः परस्परम्, न बाधा तुल्य
कक्षत्वादिति प्रकरणसमः पराभिप्रायात् ।

प्रयोगः, यो न स्वाङ्गव्यापारवान् नासौ मूर्तनिर्वर्तनसमर्थो दृष्टः, यथा कुलाल
एव संहृतकरादिव्यापारदशायाम् । नास्ति च स्वाङ्गव्यापारः प्रकृते पुंसीति व्यापका
नुपलब्धिः । नाश्रयासिद्धिः क्षणभङ्गाध्यायन्यायेनेति वस्तुतस्तर्हि दूषणान्तरमेव युक्तं,
कः प्रतिहेतोरवकाश इति चेत्—न, भूयोदर्शनस्य व्याप्तिसिद्धावनङ्गत्वप्रतिपादनार्थमस्यो
पन्यासात् । यदि भूयोदर्शनमुपायः तदैवमपि स्यादित्युक्तेरिति व्याप्तिग्रहप्रकाराणाम्
अयोगादनेकान्त इति स्थितम् ।

अस्तु वा व्याप्तिग्रहः कथञ्चित्, तथापि नेश्वरसिद्धिप्रत्याशा फलवती, बुद्धि
मतः साध्यस्यैकत्वनियमनिश्चयाभावात् । एकत्वे हि तस्य सिद्धे नित्यविभुसर्वज्ञत्व

259
सिद्धिरीश्वरव्यवहारमारोपयेत् । यदा तु भिन्नदेशकालकलितं कार्यजातमनेकेन संख्याति
क्रान्तेन कर्त्रा कृतं सम्भाव्येत, न तदा विभुत्वनित्यत्वे, स्वस्वविषयोपादानादिमात्रवेदन
सिद्धौ च क्व सर्वज्ञत्वम् ?

अथ बहूनां व्याहतमनसां व्यापारे कार्यस्यानुत्पत्तिरुपन्यस्य विलोपादिप्रसङ्गश्च
स्यादिति चेत् ? प्रत्येकं वैभवादिगुणयोगादीश्वराणां व्यापारे स्यादपीयमाशङ्का, अद्य
पुनरेकोऽपि तादृङ् न सिध्यतीत्युच्यते । अर्वाचीनशक्तयश्च भूयांस एकमनेकं च कार्यम्
आरभ्य निष्पादयन्तो दृश्यन्त एव । नन्वनेकत्रापि प्रधानभूतेनैकेन भाव्यम्, बलीयसा
वा, सूत्रधारवत्, सेनानीवद् वा । अतस्तस्यैव कर्तृत्वमितरेषां तदनुवृत्तित्वादिति चेत्—न,
तत्रापि नियमाभावात्, स्वस्वप्रयोजनानुरोधेन स्वतन्त्राणामपि केषाञ्चिदेकसत्त्वादिधटना
दर्शनात् । तत्रापि कश्चिदेव प्रथमः प्रयोजक इत्यपि नास्ति, अनेकस्य तथा हृदयोत्कलिकाया
अनिवारणात्, नीचस्यापि प्रयोजकत्वसम्भवात् ।

तस्माद् भ्रमरमधुमक्षिकावल्मीकजन्तुवत् क्षुद्रप्राणिभिरप्येकैकमैनाकादिकरण
सम्भावनायां का वार्ता विश्वस्यैकेन क्रियायाः ? तत्रादृष्टजन्मानस्तावत् तावतैव
कृतार्थीकृतचेतनानुमितयः क्षितिधरादयः । ते च क्षुद्रजन्तव उपादानमतिक्षुद्रं पृथिव्या
दिद्रव्यमुपकरणं सुखादिसम्प्रदानमात्मानं स्थितिसुखादि च प्रयोजनं जानन्त एव
वल्मीकजन्तुवत् प्रवर्तेरन् । सिद्धे च नावश्यमधिष्ठायका दृश्येरन्, विचित्रशक्ति
कर्माक्षेपात् स्वभावविप्रकर्षाद् वा । येऽपि दृष्टजन्मानो वृक्षादयः पौरुषेयाः, तत्र
चिन्तैव नास्ति । अदृष्टपुरुषव्यापारास्तु ये बिन्ध्ययुगन्धरादिपरिसरद्भावास्तेऽपि पिशा
चादिप्रकारैरधिष्ठातृभिरसंख्यैः कर्तृमन्त इति कः सर्ववेदी भवतु ? देशकालयोश्च
भिन्ना एवेप्रि क्व विभुत्वनित्यत्वे ? न चैवं शङ्काया 32a बाधकं किञ्चिदस्ति वस्तुबल
प्रवृत्तमनुमानम् ।

ननु चैवं तावद् भवद्भिरपि न स्वीकृतमेव । एतावच्चातिकष्टतरं कल्पयतो वरम्
ईश्वरकल्पनैव लाघवादिति चेत् ? सत्यम्, यदि कल्पनामात्रेतरन्यासः, तदा भवदुप
न्यासमेव पुरस्करिष्यामः । यावत् पुनरनुमानव्याजं न वर्जयसि, तावदवश्यमस्माकं
दृढनिरूपणाभियोगः । अथ क्षुद्रैरसंख्यैर्निर्मिता नर्मदादय इति दुनोति चेतश्चेत् ?
एकेनाशरीरेण निर्मिता इति सुष्ठुतराम् । तस्मात् प्रमाणमेव सर्वतो बलवद् यथा स्था
पयति तथार्थस्थितिः । अतएव तद् दृढं निरूप्यते । न च क्षुद्रेष्वनुरोधः कश्चित् ।
260
क्षुद्रैरक्षुद्रैरदृश्यैः समानशक्तिभिरधिकशक्तिभिः स्वतन्त्रैः प्रधानसम्मतैकैकजन्तुसनाथापरि
मितयूथैर्वा स्थूलाणुकैकानेकस्वकार्यभागोपादानादिमात्रवेदिभिः षड्गतिपर्यापन्नैः कृतो
भवतु भुवनसन्निवेशः, एक एव तु कर्ताऽस्य मा भूत् ।

नापि बौद्धैस्तथानुपगमात् ततो हेतुव्यावृत्तिः, एकतोऽपि व्यावृत्तिप्रसङ्गात् ।
न च वस्तुबलप्रवृत्तेऽनुमाने परोपगमापेक्षा । उपगममात्रस्य त्यागेनाविरोधात् । तदेवं
बुद्धिमन्मात्रे साध्ये उपादानाद्यभिज्ञतालक्षणविशेषनान्तरीयकतया साक्षादुपादानाद्य
भिज्ञकर्तृसाधनाद् वाभिमतसिद्धिर्नैकान्तिकी, सर्वकार्यक्रियाया एककर्तृत्वासिद्धेः ।
उपादानाद्यभिज्ञमात्रसाधने च वैफल्यम्, भारतादिकथावत् । ततः साधनान्तरा
भावादस्मादेव सर्वज्ञादिगुणवतः सिद्धिरिष्टेति तदपेक्षयैव दूषणमभिधानीयमनेकान्त
लक्षणमिति स्थितम् ।

अतो यावतीमर्थगतिमित्यादि दुर्लङ्घ्यम् । साध्यसामान्यप्रतिबन्धाकृष्टत्वेऽपि
विशेषस्य सिद्धिः साधनाधीनैव, तदेकपरतया साधनोपन्यासादन्यसाधनाभावाच्च ।
बौद्धस्यापि हि नैरात्म्यसिद्धिः साधनाधीनैव । यदि हि नैरात्म्यत्यागेऽपि क्षणभङ्ग
साधनं चरितार्थं भवेत्, तदा किं क्षणभङ्गसाधने नैरात्म्यसिद्धिः स्यात् ? भवतस्तु
सार्वज्ञ्यादिसिद्धिमुद्धूयान्यथाप्युपादानाद्यभिज्ञानलक्षणो विशेष उपपादितः । अतएव
नात्मोपन्यासपूर्वकोऽन्वयो दृष्टान्ते प्रदर्श्यत इति अनुपयुक्तम् । साक्षात् तदन्वयदर्शने
अपि तन्नान्तरीयकत्वं साध्यसामान्यस्य दर्शयितव्यमेव । तच्चैकत्वेन सकलक्रियाधारस्य
व्याप्तेरभावादशक्यम् ।

एतेनैव वाचस्पत्योऽपि सार्वज्ञ्यसाधनाभिनयः प्रतिव्यूढः । सिद्धे तु सर्वज्ञे कर्तरि
कर्तुरेकत्वनिरूपणश्रमोऽस्माकमनुपयोगीत्युपरम्यते । यदप्ययं व्यतिरेकिप्रयोगमाह,
तदप्येकत्वानिश्चयादेव दूषितम्, अनित्यासर्वविषयबुद्धित्वेऽप्युपादानादिवेदनसम्भवस्योप
पादितत्वात् ।

वित्तोकसमाधाने तु धूमाद्धराधरायोगव्यवच्छेदवत् अग्नेः पञ्चवर्णशिखाकला
पताया अप्यनुमानप्रसङ्गः । नात्र सामर्थ्यमिति चेत् ? तत्रापि पक्षायोगव्यवच्छेद एव
सामर्थ्यात् । पृथ्वीभृति प्रयत्नवतः सिद्धावप्येकत्वानिश्चयात् क्व सर्ववेदनसिद्धिः ?

32b ननु द्व्यणुकस्यापि कार्यत्वात् कर्ता तदुपादानपरमाणुदर्शी नियमेन
एषितव्यः । न च मांसचक्षुषस्तथा भवितुमर्हन्ति । अन्यथा किमस्मदाभिरपराद्धं येन
261
तथा न भवामः ? तदवश्यं कर्तातीन्द्रियदर्शी स्वीक्रियमाणो नेश्वरादन्यो युक्तः । तदपि
यत्किञ्चित् । न हि मांसचक्षुष्ट्वेऽपि सर्वसाधारणं करणसामर्थ्यम्, अस्मदत्यन्तमपकृष्टानामपि
गृध्रादीनामिन्द्रियपाटवातिशयदर्शनात् । क्षोदिष्ठानामेव च केषाञ्चित् परमाणुदर्शनमपि
स्यात् कर्मशक्तिविशेषात्, यथा पिपीलिकानामस्मदगोचरगन्धाणुग्रहणम् । न च
तन्मात्रसूक्ष्ममीक्षमाणैर्देशकालविप्रकृष्टस्यापि सूक्ष्मान्तरस्य ग्रहणम्, सकलस्थूलस्य वा ?
तन्न तावतैवेश्वरसिद्धिप्रत्याशा ।

एवं तर्हि भवतु परमाणोर्दर्शनसम्भावना सकलक्षेत्रज्ञतत्समवेतधर्माधर्माशय
विशेषाणां तु कथम् ? न कथञ्चित् । न हि कार्यक्रिया क्षेत्रज्ञस्वरूपादिपरिज्ञानेनापि व्याप्ता
कुलालदृष्टान्ते दृष्टा, किं तु सम्प्रदानोपकरणवेदनद्वारेण तदाकृष्टिरिष्यते । सा चाशक्या,
सामर्थ्यानुपपत्तेः, उक्तक्रमेणापि तन्मात्रवेदनस्य चरितार्थत्वात् । कर्मणि स्वस्याभिप्रेय
माणत्वेन सम्प्रदानताया दुर्वारत्वात्; यथा स्वस्मै मन्दिरं करोतीति । अन्यथा तेनैव
व्यभिचारप्रसङ्गः सम्प्रदानज्ञानापेक्षायाः ।

अनुमीयमानस्तत्रापरः सम्प्रदानवेदी भविष्यतीति चेत्—न, व्यभिचारदर्शनेन
कर्तुः सम्प्रदानज्ञाननान्तरीयकत्वासिद्धेरनुमानवार्ताविरहात् । न चानुमीयमानापेक्षया
तस्याकर्तृत्वम् । एवं हि कुलालस्याप्यकर्तृत्वप्रसङ्गे व्याप्तिग्रहविरहात् तदवस्थोऽनुमाना
नुदयः । तस्माद् यद् यदवश्यं सम्प्रदानज्ञानापेक्षं कर्तृत्वे, स्वात्मापि सम्प्रदानमेषितव्यः ।
न च परमपि सम्प्रदानं व्यवहारप्रसिद्धमुद्धूय क्षेत्रज्ञरूपमसौ ज्ञातुमीशः कर्माशयभेदार्थोप
करणशब्दसंगृहीतानपि । ततो यथा कुलालस्तानविद्वान् दण्डचक्रादिवेदनेनैवोपकरणज्ञः,
तथानुमीयमाना अपि जन्तवः स्वकीयकरमुखादिज्ञानेनाप्यन्ते भविष्यन्ति ।

तत् कुतस्त्यमेतत् क्षेत्रज्ञरूपतदीयधर्माधर्माशयभेदपरिज्ञानम् ? अथाशरीरस्य क्व
स्वाङ्गव्यापारसङ्गतिः ? अशरीरस्य सिद्धिसङ्गतिरपि कीदृशी ? एकत्वे हि सिद्धे शरीरी
प्रादेशिको न सर्वकर्मणि समर्थ इति सामर्थ्यादशरीरिसिद्धिप्रत्याशा, एकत्वं च दुःसाध
मित्युक्तम् । न चाशरीरत्वेऽपि दण्डचक्रकरमुखाद्युपकरणानुपपत्तेः पारिशेष्यात् कर्माशय
भेदज्ञानेनैवोपकरणज्ञाननिष्ठेति सौष्ठवाय । दिक्कालसमवायादेरप्युपकरणसंगृहीतस्य ज्ञानेन
तज्ज्ञतामात्रस्य कृतार्थत्वात् ।

कः पुनरसौ विशेषो यतस्तदवस्थस्य दिगादिज्ञानेनैवोपकरणज्ञता ? 33a
धर्माधर्मादिज्ञानेनेति । उभयज्ञानेनैव भवत्विति चेत् ? तदयुक्तम् । नहि यावदुपकरणं
262
तावत् कर्त्रावश्यं ज्ञेयमिति दृष्टम् । न च दिगादिज्ञानेनैवोपकरणवित्तिस्तदवस्थस्येति
निश्चयं ब्रूमो यतो विशेषपर्यनुयोगः, किं तूपकरणान्तरसम्भवान्न पारिशेष्यविश्रान्तिः
अत्रेत्युच्यते । ततो यथा परापरकर्तृषु दण्डचक्रादितुरीवेमाद्युपकरणविरहपरम्परायाम्
अन्यान्यैरुपकरणैर्धर्मादिबाह्यैरुपकरणज्ञतास्थितिरुपलब्धा, तथा किमद्याप्यस्तु ? उत
धर्मादीनादायैवेति सन्देह एव । यदि पुनरन्यदुपकरणं न स्यात् पारिशेष्यव्याख्यानं
शोभेत । अभ्युदयनिःश्रेयसमार्गादिसन्देहे च किं तादृशा तेन कर्तव्यमीश्वराभिधानेन
धनविरहिणेव ?

तस्मादशरीरित्वेऽपि न धर्मादिज्ञानाकृष्टिः, किं पुनस्तदसिद्धौ ? मा भूदुपकरणतया
धर्मादेर्वेदयिता नियमेन कार्यतया भविष्यति, यतः कर्ता कार्यरूपादिवेदकः स चेश्वर
इत्यपि निःसारम् । दानहिंसादिकं हि कुर्वन्तस्तद् वेदयन्त एव स्वरूपमात्रेण, न तावता
त एवेश्वराः । न चान्यः कार्त्स्न्येन तद्वेदी सिद्धः । धर्माधर्मत्वेन तु निश्चयः तत्कारिणोऽपि
नावश्म्भावी कुम्भकारवत् । तत्कारिणां तर्हि तत्त्वेन निश्चयाभावात् तत्त्वनिश्चयः कार्यत्वात्
कर्तारमीश्वरमेव सन्निधापयेदित्यपि नास्ति । धर्माधर्मत्वनिश्चयोऽपि हि समीचीनः
सन्दिग्धसत्ताक एव वर्तते । कथं ततः प्रत्याशा ? अनिरस्तविपर्ययाशङ्कसङ्कल्पस्वभावस्तु
भूयसामागमद्वारेण । देवजातिस्मरादिस्वीकाराच्च तेषाम् अप्यस्ति लेशेन सम्यक्कर्मफल
सम्बन्धबोधः । न च तावतैवैश्वर्यपर्याप्तिरिति ।

तदेवमीश्वरासिद्धेः सकलजन्मिनां शुभाशुभकर्माणि नोपकरणम्, किं तु कारणान्येव
लोकवैचित्र्यस्येति धीमतामुपादेयः प्रथमश्लोकार्थ इति ॥

॥ ईश्वरदूषणं समाप्तमिति ॥
  1. शतानन्दस्येति प्रान्तलेखः ।