61

यदि तु तदभावेऽपि स्यात्, तदा तस्यां सत्यां नियमेन क्षणिकत्वमित्यन्वयोऽपि
कथम् ? तस्मात् साध्याभावे साधनस्यैकान्तिको व्यतिरेकः, साधने सति साध्य
स्यावश्यमन्वयो वेति न कश्चिदर्थतो भेदः । प्रमाणव्यापारस्तु मुख्यतोऽर्थतश्चेति द्विधा
व्यवहारः । अतएव यत्र यत्र साध्यविपर्यये बाधकप्रमाणपर्येषणा957, तत्र साधने
सति साध्यान्वयः958, साधकप्रमाणपर्येषणापि तयोपलक्षिता वेदितव्या । विपर्यय
बाधकशब्देन पुनरुभयसंग्रह एव । व्यतिरेकरूपव्याप्तौ हि साध्यविपर्यये बाधकं
साधनस्य, अन्वयरूपायां तु साध्यविपर्ययस्य बाधकं साधने सतीति । तदुभयाभावे959
साधनस्य साध्यप्रतिबन्धानुपपत्तिरित्ययमर्थः । अन्यथा व्यतिरेकनिश्चायकप्रमाणस्य
साक्षादलाभेऽपि960 यदि 961साधनस्य साध्येनान्वय

  1. ०धर्मोषण० अ

  2. ०न्वयसाधक० र

  3. ०दुभयभावे र

  4. अपीति नास्ति अ

  5. यदैव र