43b श्रुतिः क्व निहिता किं वात्र तत्कारणं
स्वाधीना परिधस्य1624 केवलमियं दृष्टा कपालावलिः1625

सुनिपुणं निरूपयन्तोऽपि मांसचक्षुषा वयं तावन्नापरमत्र वस्तुजातमीक्षामहे,
यदभावश्रुत्या विषयीक्रियते । तद्दर्शनाभावाच्च तत्कारणमपि किमवधारयामो,
यदभावेन1626 पूर्वपूर्वमसन्नाश1627 इति स्यात् ? यश्च तत्कारणं कल्पितो दण्डस्तस्याप्यन्वय
व्यतिरेकानुविधायिनी कपालपंक्तिरेव दृष्टा, नान्या काचित् । वैधर्म्यदृष्टान्ततये
यमुपन्यस्ता पुनः, यथेयमध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकावनुविदधती1628 दृश्यतया

  1. पलिधस्य अ

  2. तत्त्वचिन्तामणिप्रत्यक्षखण्डे ७१७ पृ., रत्न० निब० १११ पृ.

  3. नेति नास्ति अ

  4. पर्वमसन्नास अ

  5. ०कावथ० अ