एवं स्मृतिसहितस्य वेदस्य प्रामाण्ये सिद्धेऽधुना वाक्यार्थव्याख्यानावसरे सत्यपरिसमाप्त्यैव प्रमाणलक्षणं केन संबन्धेन नामधेयचिन्तायाः प्रस्तावः क्रियते । के चित्तावदाहुः । किमुद्भिदादयो गुणस्य प्रमाणमुत क्रियाणामेव नामधेयत्वेनेति । तदयुक्तम् । एवं सति हि समस्तमेव शास्त्रं प्रमाणलक्षणादभिन्नं स्यात् । सर्वत्र ह्येतद्विचार्यते, किमिदं वाक्यमस्यार्थस्य प्रमाणमुतान्यस्येति । येऽपि चैते द्वे अपि सूत्रे पूर्वोत्तरपक्षौ परिकल्प्यैकाधिकरणत्वेन व्याचक्षते तैरपि ‘उक्तं समाम्नायैदमर्थ्यमित्यनेन सूत्रेण कः सिद्धान्तानभिप्रेतः पूर्वपक्षानुगुणोऽर्थो विधीयत इति वक्तव्यम् । न ह्युक्तैदमर्थ्यान्तर्भावचनमुद्भिदादीनामनिष्टम् । तस्माद्द्वयोरप्यधिकरणयोरनुमितपूर्वपक्षयोरुत्तरपक्षसूत्रद्वयमेतदिति व्याख्येयम् । तत्र प्रथमं तावदुद्भिदादीनुदाहृत्य संदेहः क्रियते, किमेते कं चिद्धर्मं प्रत्युपयोगं गच्छन्त्युत नेति । किं तावत्प्राप्तम् । ‘आम्नायस्य क्रियार्थत्वात्’131 इत्यानर्थक्यम् । आह च ।

321
त्र्यंशवेदप्रमाणत्वादुद्भिदादि ततोऽधिकम् ।
धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ॥

नह्येते विध्यादिष्वन्तर्भवन्ति । साध्यसाधनेतिकर्तव्यतानभिधायित्वात्तावच्चोदनाबाह्यत्वं, स्तुतिबुद्धयभावादर्थवादातिरेकः, कर्माङ्गभूतैवंसंज्ञकप्रकाशयितव्यार्थाभावान्मन्त्रकार्यनिवृत्तिः । न चान्यद्वेदप्रयोजनमस्तीत्यप्रमाणमेवंजातीयका इति । अत्राभिधीयते—

सर्वस्य त्रिविभागत्वाद्वेदस्योक्तेन हेतुना ।
उद्भिदाद्यप्रमाणत्वमतिरेकान्न सिध्यति ॥

यदा तदर्थत्रयान्यतमार्थमिति स्थितं तदा विचारः किमर्थमिति । न तावदर्थवादत्वं वाक्यशेषत्वाभावात् । कथं पुनरयं न वाक्यशेषो यावता ‘वायुर्वै क्षेपिष्ठा’ इत्यादिवदेकवाक्यताऽवगम्यते । नैतदस्ति । विधातव्यस्य हि यः शेषः सोऽर्थवादः । अयं तु विध्युद्देशादेव नातिरिच्यत इत्यवाक्यशेषः । तत्संभविनश्च स्तुत्युपयोगित्वं न युज्यत इत्युक्तमौदुम्बराधिकरणे । न चैकपदेन स्तुतिर्दृष्टा । न चेह तां प्रतिपद्यामहे । यदप्युद्भेदनं पशूनामनेन क्रियत इत्येवं प्राशस्त्यं कल्प्येत तदपि तृतीयान्तसमुदायाश्रयबलवत्तरकरणत्वप्रसिद्धया बाध्यते । अन्यथा हि प्रातिपदिकप्राधान्याद्वा ‘वायुर्वै क्षेपिष्ठा’ इतिवत्प्रथमैव प्रायोक्ष्यत । न चास्य मन्त्रत्वं, ताद्रूप्येणाप्रतीतेः । अध्येतृस्मरणाभावाच्च । न चैकपदत्वात्साकाङ्क्षत्वं करणप्रतीत्या वा स्मारकत्वम् । न चैतदभिधेयः कश्चित्प्रयोगसमवाय्यर्थो दृश्यते । न चासमवेतप्रकाशने कर्माङ्गत्वम् । मान्त्रवर्णिकद्रव्यकल्पनायामपि गौरवम् । न चास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति येन मान्त्रवर्णिकद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अतश्चाविनियुक्तत्वात् ‘इषे त्वादिवदपि नाध्याहारेण निराकाङ्क्षीकृत्य प्रयोगः । स्फुटं च ब्राह्यणेनैकवाक्यत्वमित्यमन्त्रत्वम् । तस्माद्विध्युद्देशान्तर्गतस्यैवोत्तराधिकरणेन विचार्यते गुणविधिर्नामधेयमिति । तत्र तावत्—

प्रसिद्धेर्बलवत्त्वेन प्रयोजनवशेन च ।
322
अधिकत्वात्प्रवृत्तेश्च गुणरूपं विधीयते ॥

प्रातिपदिकं तावदुद्भेदनसमर्थे द्रव्ये खनित्रादाववयवप्रसिद्धयां प्रवर्तते । न च समुदायोऽर्थान्तरवाची लोके प्रसिद्धः । न च लोकादनवगतोऽर्थो वेदादवगम्यते संबन्धस्य शास्त्राहेतुत्वात् । तृतीयाऽपि च करणवाचिनी, क्रियायाश्च शक्तिमद् द्रव्यं तदाधारा वा शक्तिः करणं, तेनोद्भित्साधनको यागोऽवगम्यते । न च यागस्योद्भित्त्वं करणत्वं वा क्वचित्प्रसिद्धम् अर्थवत्त्वात्प्रवृत्तिविशेषकरत्वम् । विधायकोद्भित्पदपुरुषाणां प्रवृत्तौ विशेषः । अन्यथा ह्यनुच्चरितसमैव प्रवृत्तिरेषां स्यात् । अथ वा प्रसिद्धत्वाद्गुणविधिरर्थवत्त्वमभिधेयवत्त्वं नामधेयत्वे त्वर्थो न विज्ञायत इति योज्यते । अथ वा भेदेनार्थवत्त्वं हेतुः, उद्भित्पदस्य यजितः फलान्तरत्वात् । ततश्च विधिपुरुषयोः प्रवृतिविशेष इति वाच्यम् । ननु नामधेयमपि क्रतुं विशिंषदर्थत्प्रवृत्तिविशेषकरं च स्यात् । नैतदस्ति । कुतः—

आकृतेरविधेयत्वाद्धातुना व्यक्तिराश्रिता ।
सा च नाम्नाऽभिधीयेत जातिश्चेन्नैव नामता ॥

यदा तावद्धातुनैव लक्षणया विधिविषयत्वयोग्यत्वाद्यागविशेषः प्रतिपाद्यते तदा किमपरं तत्र नाम करिष्यति । अथ सामान्यमात्रमभिधीयते ततस्तस्यानिष्टमेवैतन्नामेत्यसं बद्धं सिद्धत्वादेव च विशेषस्य न नामधेयं विधायिष्यत इति वक्ष्यति । यदा च केनापि प्रकारेणोद्भिदादीनां विशेषवचनत्वं तदा तदत्यन्ताविनाभूतसामान्यवचनत्वेन यजेरनर्थकत्वम् । लाघवं च विधेर्गुणविधौ भविष्यति । यागानुवादात् । यद्येवं गुणाक्षिप्तत्वाद्विधिशक्तेर्न तर्हि कर्म विधीयते, तथा चाविहिते कर्मणि कस्य गुणो विधीयत इत्यानर्थक्यमत आह—प्रकृतौ ज्योतिष्टोम इति । ननु गुणविधिपक्षे ज्योतिष्टोमेनेत्यस्यापि तत्परत्वादविहितमेव कर्म । गत्यभावादिदमेकं कर्मविधानं भविष्यति । तद्व्यावृत्ते च विधायके च गुणस्य विधातुमशक्यत्वाज् ज्योतिष्टोमपदमेवैकं नामधेयम् । अथ वा तदेकं गुणविशिष्टं कर्मविधानमितराणि कर्मानुवादेन गुणविधानानि । नन्वेवं सति सर्वा एकाहाहीनसत्रचोदना ज्योतिष्टोमस्यैव गुणविधिद्वारेण प्रकरणादनतिरिक्ता इति कर्मान्तराभावान्न ज्योतिष्टोमः कस्यचित्प्रकृतिरिति तच्छब्देन नाभिधातव्यः । सिद्धान्ताभिप्रायेणाऽऽहेति के चित् । अथ वा प्रक्रियत इति प्रकृतिः, प्रकृतज्योतिष्टोम इत्यर्थः । 323 अथ वा ‘अथैष ज्योतिः’ इत्येवमादीनां करणविभक्त्याख्यातसंस्पर्शाभावाद्गुणविधित्वानुपपत्तेरेकान्तेन भेदकतया कर्मनामत्वं तदपेक्षया च ज्योतिष्टोमः प्रकृतिः । ननूत्पत्तिवाक्यशिष्टेन सोमेन ज्योतिष्टोमेन वाऽवरोधाज्ज्योतिष्टोमे गुणान्तरविधानमयुक्तम् । काम्यत्वादुद्भिदादयो बाधका भविष्यन्ति । नित्ये प्रयोगे च पूर्वगुणस्यार्थवत्ता । अथ वा विशिष्टविहितमपि कर्म स्वरूपमात्रं निष्कृष्य गुणान्तरे विहितं नौत्पत्तिकाद्विशिष्यते । अन्यथा गत्यसंभवाद्विकल्प इति मन्यते ॥ १ ॥

  1. जै॰ सू॰ ( १-२-१ ) ।