प्रातिपदिकं तावदुद्भेदनसमर्थे द्रव्ये खनित्रादाववयवप्रसिद्धयां प्रवर्तते । न च समुदायोऽर्थान्तरवाची लोके प्रसिद्धः । न च लोकादनवगतोऽर्थो वेदादवगम्यते संबन्धस्य शास्त्राहेतुत्वात् । तृतीयाऽपि च करणवाचिनी, क्रियायाश्च शक्तिमद् द्रव्यं तदाधारा वा शक्तिः करणं, तेनोद्भित्साधनको यागोऽवगम्यते । न च यागस्योद्भित्त्वं करणत्वं वा क्वचित्प्रसिद्धम् अर्थवत्त्वात्प्रवृत्तिविशेषकरत्वम् । विधायकोद्भित्पदपुरुषाणां प्रवृत्तौ विशेषः । अन्यथा ह्यनुच्चरितसमैव प्रवृत्तिरेषां स्यात् । अथ वा प्रसिद्धत्वाद्गुणविधिरर्थवत्त्वमभिधेयवत्त्वं नामधेयत्वे त्वर्थो न विज्ञायत इति योज्यते । अथ वा भेदेनार्थवत्त्वं हेतुः, उद्भित्पदस्य यजितः फलान्तरत्वात् । ततश्च विधिपुरुषयोः प्रवृतिविशेष इति वाच्यम् । ननु नामधेयमपि क्रतुं विशिंषदर्थत्प्रवृत्तिविशेषकरं च स्यात् । नैतदस्ति । कुतः—
यदा तावद्धातुनैव लक्षणया विधिविषयत्वयोग्यत्वाद्यागविशेषः प्रतिपाद्यते तदा किमपरं तत्र नाम करिष्यति । अथ सामान्यमात्रमभिधीयते ततस्तस्यानिष्टमेवैतन्नामेत्यसं बद्धं सिद्धत्वादेव च विशेषस्य न नामधेयं विधायिष्यत इति वक्ष्यति । यदा च केनापि प्रकारेणोद्भिदादीनां विशेषवचनत्वं तदा तदत्यन्ताविनाभूतसामान्यवचनत्वेन यजेरनर्थकत्वम् । लाघवं च विधेर्गुणविधौ भविष्यति । यागानुवादात् । यद्येवं गुणाक्षिप्तत्वाद्विधिशक्तेर्न तर्हि कर्म विधीयते, तथा चाविहिते कर्मणि कस्य गुणो विधीयत इत्यानर्थक्यमत आह—प्रकृतौ ज्योतिष्टोम इति । ननु गुणविधिपक्षे ज्योतिष्टोमेनेत्यस्यापि तत्परत्वादविहितमेव कर्म । गत्यभावादिदमेकं कर्मविधानं भविष्यति । तद्व्यावृत्ते च विधायके च गुणस्य विधातुमशक्यत्वाज् ज्योतिष्टोमपदमेवैकं नामधेयम् । अथ वा तदेकं गुणविशिष्टं कर्मविधानमितराणि कर्मानुवादेन गुणविधानानि । नन्वेवं सति सर्वा एकाहाहीनसत्रचोदना ज्योतिष्टोमस्यैव गुणविधिद्वारेण प्रकरणादनतिरिक्ता इति कर्मान्तराभावान्न ज्योतिष्टोमः कस्यचित्प्रकृतिरिति तच्छब्देन नाभिधातव्यः । सिद्धान्ताभिप्रायेणाऽऽहेति के चित् । अथ वा प्रक्रियत इति प्रकृतिः, प्रकृतज्योतिष्टोम इत्यर्थः ।